तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 701, कुल 940 में से
संदर्भ में पढ़ें६८८ तैत्तिरीये आरण्यके
तानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरुप॑स्थ॒ आद॑धे । तेभि॑-
र्युज्यन्ताम॒घ्नियाः॑(५) ॥ १ ॥
(६)शुनं॒ वाहाः॑ शुनन्नराः॒ शुनं॑ कर्षतु॒ लाङ्ग॑लं ।
• तेऽभियुज्यन्तामघ्नियाः”(५) इति । 'सविता' प्रेरकः परमेश्वरः, 'मातुः' मातृस्थानीयायाः पृथिव्याः, 'उपस्थे' उत्सङ्गे, 'एतानि' 'शरीराणि' शरीरावयवरूपाण्यस्थीनि, 'आदधे' स्थापितवान्, 'तेभिः', तैर्निमित्तभूतैः, 'अघ्नियाः' गावः, बलीवर्दाः, 'युज्यन्तां' लाङ्गलेन सम्बद्ध्यन्तां ॥
कल्पः । शुनं वाहा इति द्वाभ्यां प्रसव्यावृत्तः षट् पराचीः सीताः कृषति । तत्र प्रथमामाह । (६)“शुनं वाहाः शुनन्नराः • शुनमस्मासु धत्तं”(६) इति । लाङ्गलं वहन्ति इति 'वाहाः' बली- वर्दाः, ते 'शुनं' सुखं यथा भवति तथा, वहन्त्विति शेषः । बली- वर्दानां प्रेरका मनुष्याः 'शुनं' सुखं यथा भवति तथा, प्रेरयन्त्विति शेषः । 'लाङ्गलं', च 'शुनं' सुखं यथा भवति तथा, 'कर्षतु' । 'वरत्राः' चर्ममय्यो रज्जवोपि, 'शुनं' सुखं यथा भवति तथा, 'बध्यन्तां' । 'अष्ट्रां' आराम्, तीक्ष्णाग्रलोहयुक्तं बलीवर्दप्रेरकं दण्डञ्च, 'उदिङ्गय' हे कीनाश, बलीवर्दप्रेरणार्थमुद्यताङ्कुरु, 'शुनासीरा' हे वाय्वा- दित्यौ, 'शुनं' सुखं, 'अस्मासु', 'धत्तं' सम्पादयतं ॥