भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 707, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 707

६६४ तैत्तिरीये आरण्यके

ञ्चस्व पृथिवि मा वि॒बा॑धिथाः सूपाय॒नाऽस्मै॑ भव सूप- व॒ञ्चना । मा॒ता पु॒त्रं यथा॑ सि॒चाऽभ्ये॑नं भूमि वृणु^(३) । ^(४)उञ्चञ्च॑माना पृथिवी हि तिष्ठ॑सि सहस्रं॒ मित् उप॑ हि श्र॒यन्तां । ते गृ॒हासो॑ मधु॒श्चुतो॒ विश्वा॑हाऽस्मै शर॒णाः


सिचाऽभ्येनं भूमि वृणु”^(३) इति । हे 'पृथिवि', लोष्टमेनं 'उञ्चञ्चस्व' उत्कर्षेण सुखयुक्तङ्कुरु । 'मा विबाधिथाः' अस्य बाधां माकार्षीः, । 'अस्मै' लोष्टाय, सूपायनं निवासस्थानं, भोग्यद्रव्यं वा, यस्याः सा 'सूपायना', । सुष्ठु उपवञ्चनं, स्वेच्छा- गमनं, यस्याः सा 'सूपवञ्चना', । तादृशी भव । 'यथा', लोके 'माता', 'पुत्रं', 'सिचं' वस्त्रेण प्रावृणोति, तथा 'एनं' लोष्टं, 'अभिवृणु' अस्य प्रावरणं कुरु ॥

अथ चतुर्थीमाह । ^(४)“उञ्चञ्चमाना पृथिवी हि, ० शरणाः सन्त्वत्र”^(४) इति । हे 'पृथिवि', 'हि' यस्मात्, 'उञ्चञ्चमाना' उत्कर्षेण सुखं कुर्वाणा, 'तिष्ठसि' । तस्मात् कारणात् 'मितः' मीयमानाः, 'सहस्रं' लोष्टाः, 'उपश्रयन्तां' त्वामाश्रयन्तु, एतं वा मुख्यं लोष्टमाश्रयन्तु । 'ते' सर्वे लोष्टाः, 'मधुश्चुतः' माधुर्यर- सस्त्राविणः, 'गृहाः', भूत्वा 'विश्वाहा' सर्वेष्वप्यहःसु, 'अस्मै' स्था- प्यमानलोष्टाय, 'शरणाः', 'अत्र', रक्षितारः, 'सन्तु' ॥

कल्पः । तिलमिश्राभिर्धानाभिः चिरपशव्यं परिकिरति, एणी-