भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 709, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 709

६६६ तैत्तिरीये आरण्यके

दे॒वेभ्यो॑ जीवन्त॒ उत्त॑रम्भरेम । तत्त्व॑मारोहा॒सो मेध्यो॑ भव य॒मेन॒ त्वं य॒म्या सं॑विदानः॑।^{(७)}। ^{(८)}मा त्वा॑ वृ॒क्षौ स॑- म्बाधिष्ठां॒ मा मा॒ता पृ॑थि॒वि त्वं । पि॒तॄन् ह्यत्र॒ गच्छा॑- स्येधासं यमरा॒ज्ये॑।^{(८)}। ^{(९)}मा त्वा॑ वृ॒क्षौ सम्बा॑धेथां॒ मा


इति । 'इदं' 'बर्हिः', 'पितृभ्यः' पित्रर्थं, 'प्रभरेम' प्रकर्षेण स्तृणीम । वयन्तु 'जीवन्तः', एव 'तत्त्वमारोहासः' परमार्थतत्त्वमारोढुकामाः, 'देवेभ्यः' देवार्थं, 'उत्तरं' उन्नततरं, अतिशयेनोत्कृष्टतरं, बर्हिः 'भरेम' सम्पादयाम । हे प्रेत 'त्वं', 'यमेन', 'यम्या', च 'संविदानः' ऐकमत्यङ्गतः, 'मेध्यो भव' अमृतसेवनयोग्यो भव ॥

कल्पः। पालाशान् परिधीन् परिदधाति, मा त्वा वृक्षाविति, पूर्वापरावुत्तरया दक्षिणोत्तरावेति । तत्र प्रथमामाह । ^{(८)}“मा त्वा वृक्षौ सम्बाधिष्ठां ० गच्छास्येधासं यमराज्ये”,^{(८)} इति । हे प्रेत त्वां 'वृक्षौ' पूर्वापरपरिधिरूपावेतौ, 'मा सम्बाधिष्टां' बाधितं मा कुरुतं । हे 'पृथिवि', 'त्वं', अपि 'माता' मातृस्थानीया सती, मा बाधिष्ठाः । 'हि' प्रसिद्धान्, 'पितॄन्', 'अत्र' स्थाने, 'गच्छासि' हे प्रेत प्राप्नुहि । 'यमराज्ये' यमस्य देशे, 'एधासं' एधस्व, वर्धस्व ॥

अथ द्वितीयामाह । ^{(९)}“मा त्वा वृक्षौ सम्बाधेथां ० यमराज्ये विराजसि”^{(९)} इति । हे प्रेत त्वां 'वृक्षौ' दक्षिणोत्तर-

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 709, कुल 940 में से · BharatKosha