तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 716, कुल 940 में से
संदर्भ में पढ़ें६ प्रपाठके ८ अनुवाकः। ७०३
अपू॒पवा॒ञ्छृतवा॒न् क्षी॒रवा॒न् दधि॑वा॒न् मधु॑माग्ँश्च॒- रु॒रेह सी॑दतूत्त॒म्भुव॑न् पृ॑थि॒वीं द्यामु॒तोप॑रि । योनि॑- कृतः पथि॒कृतः॑ सपर्यत॒ । ये दे॒वानाग्ँ॑ शृतभागाः॑ क्षी॒र- भा॒गा द॑धिभा॒गा मधु॑भागा॒ इ॒ह स्थ॑ । ए॒षा ते॑ यमसा॒दने॑ स्व॒धा नि॒धीय॑ते गृ॒हैः सौ॑ । श॒ताक्ष॑रा स॒हस्रा॑क्षरा॒ऽयुता॑- क्षरा॒ऽच्युता॑क्षरा॒ ताग्ँ र॑क्षस्व॒ तां गो॑पायस्व॒ तां ते॒ परि॑- ददा॒मि तस्यां॑ त्वामाद॑भन् पि॒तरौ॑ । दे॒वता॑ । प्र॒जा- प॑तिस्त्वा॒ साद॑यतु॒ तया॑ दे॒वत॑या^{(१, ४)} ॥ १ ॥ अ॒पू॒पवा॑न॒सौ, दश॑* ॥ अनु० ८ ॥
अथ दक्षिणादिमध्यान्तचतुर्दिक्षु चरूपधानविषयान् मन्त्रा- नाह। (१, ४) "अपूपवान् शृतवान् क्षीरवान् ० सादयतु तया देवतया" (१, ५) इति। अत्र शृतवानित्यादिपदचतुष्टयेन मन्त्रभेदो द्रष्टव्यः। शृतभागा इत्यादीन्यपि चत्वारि पदानि, शताक्षरे- त्यादीन्यपि चत्वारि पदानि, चतुर्ष्वपि मन्त्रेषु विभज्य योजनीयानि। 'शृतं' सम्यक् पक्वं पयः, 'क्षीरं' पयोमात्रं। अन्यत् पूर्ववत्॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरार- ण्यके षष्ठप्रपाठके अष्टमोऽनुवाकः॥ ८॥
* अपूपवान् दश इति J चिह्नितपुस्तकपाठः।
4 Q