भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 720, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 720

६ प्रपाठके ६ अनुवाकः। ७०७

तथा॒ तद॒श्विभ्यां॑ कृ॒तं मि॒त्रेण॒ वरु॑णेन च॒^{(९)}} । ^{(१०)}वरु॑णो वार॑यादि॒दं दे॒वो वन॒स्पति॑: । आ॒त्य निॠ॑त्यै॒ द्वेषा॑च्च॒ वन॒स्पति॑:^{(१०)} । ^{(११)}वि॒धृ॑तिरसि विधा॒रया॒स्मद॒घा द्वेषा॑ꣳसि^{(११)} । ^{(१२)}श॒मि॒ श॒मयस्मद॒घा द्वेषा॑ꣳसि^{(१२)} ।

मा प्राप्नुताम् । 'तत्' अस्मदभीष्टं, 'अश्विभ्यां', देवाभ्यां, 'मित्रेण', 'वरुणेन', 'च', 'तथा कृतं' सम्पादितं ॥

कल्पः । वारुणशाखां पुरस्तान्निदधाति, वरुणो वारयादिति । पाठस्तु । ^{(१०)}“वरुणो वारयादिदं ० द्वेषाच्च वनस्पतिः”^{(१०)} इति । अयं 'वरुणा'ख्यः 'वनस्पतिर्देवः', 'इदं' कष्टं, 'वारयात्' निवारयतु । तथा सः 'वनस्पतिः', 'आर्त्यै' अन्यस्या अपि बाधायाः, 'निर्ऋत्यै' पापदेवतायै, 'द्वेषाच्च', वैरिकृतात्, पालयत्विति शेषः ॥

कल्पः । विधृतिलोष्टमुत्तरतः, विधृतिरसि इति । पाठस्तु । ^{(११)}“विधृतिरसि ० द्वेषाꣳसि”^{(११)} इति । हे लोष्ट त्वं 'विधृतिः' विधारकः, 'असि' । अतः 'अस्मत्तः सकाशात्, 'अघा' पापानि, 'द्वेषांसि' वैराणि च, 'विधारय' वियुज्यान्यत्र स्थापय ॥

कल्पः । शमीशाखां पश्चात्, शमि शमयेति । पाठस्तु । ^{(१२)}“शमि शमय ० द्वेषाꣳसि”^{(१२)} इति । हे 'शमि' एतन्नामकवृक्ष, 'अस्मत्' अस्मत्तः, 'अघा' पापानि, 'द्वेषांसि' वैराणि च, 'शमय' ॥

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 720, कुल 940 में से · BharatKosha