भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 73, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 73

६८ तैत्तिरीये आरण्यके

ये॒ चेमेऽशि॑मिवि॒द्विषः॑ । ^{(१५)} । ^{(१६)}पर्जन्याः॑ स॒प्त पृ॑थि॒वीम॒भिर्व॑र्षन्ति । वृ॒ष्टिभि॒रिति॑ । ए॒तयै॒व विभ॑क्तिविपरी॒-

'गृहमेधाः', 'च'कारः षण्णां समुच्चयार्थः । 'इतीति' इतिशब्द- द्वयेन यथोक्तनिर्वचनप्रख्यातमहिमत्वं प्रदर्श्यते । एवं षड्विधा वायुगणा एकदेशवर्त्तिनो निर्द्दिष्टाः । गणान्तरं तु देशान्तरव- र्त्तित्वात् पृथक् निर्द्दिश्यते । शिमिः कर्म कृष्यादिकं तस्य वि- घातकाः शिमिविद्विषः तद्विपरीताः 'अशिमिविद्विषः' कृष्या- द्यनुकूलप्रवृत्तयो वायव इत्यर्थः । तादृशा 'ये च', सन्ति तेऽपि पूर्वोक्तषड्गुणवन्निगदेनैव व्याख्यातमहिमान इत्यभिप्रायः । अत्र नामान्येव मन्त्राः। तथा सति वराहवस्त्या देवतयाङ्गिरस्वद्ध्रु- वासीदेत्येवमुपधानं सम्पद्यते ॥

तच्छब्दैरेव व्याख्यापितो यो महिमा तं महिमानं सङ्गृह्य पुनः प्रकटयति । ^{(१६)}“पर्जन्याः ० तेषामेषा भवति”^{(१६)} इति । पूर्वोक्तैः सप्तभिर्वायुगणैः प्रवर्त्तिताः सप्तविधा मेघाः 'वृष्टिभिः', अस्माभिर्दृश्यमानाभिः 'पृथिवीं', 'अभि'लक्ष्य 'वर्षन्ति', इत्ये- षां वायूनां महिमा । निराधारेऽन्तरिक्षे मेघान् सम्पाद्य बहु- विधजलसङ्ग्रहो योऽस्ति यस्य देशविशेषस्य यावदपेक्षितं तत्र तावदेव वर्षणं यच्चास्ति 'सः' सर्वोऽपि, अचिन्त्यतन्महिमेति दर्शयितुम् 'इति'शब्दप्रयोगः, यथा रीत्या भूमावभिवर्षणं 'एतयैव', रीत्या 'अमून्' सर्वान्, 'लोकान्', 'पर्जन्याः', 'अभि-

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 73, कुल 940 में से · BharatKosha