भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 74, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 74

१ प्रपाठके ६ अनुवाकः। ६६

ताः॑। स॒प्तभि॒र्वातै॑रुदीरि॒ताः। अ॒मूँल्लो॒कान॒भिव॑र्षन्ति। तेषा॒मेषा भव॑ति^{(१६)}। ^{(१७)}स॒मान॒मेत॒दुद॑कं ॥ ५ ॥ उदे॑त्यव॒ चाह॑भिः। भूमिं॑ प॒र्जन्या॒ जिन्व॑न्ति। दिवं॑


वर्षन्ति’। इयांस्तु विशेषः। यद्भक्तिवैपरीत्यविशिष्टं भजनं, भूमिं प्रतिपर्जन्यानामधोमुखत्वम्, उपरितनाँल्लोकान् प्रत्यभिवर्षणार्थमूर्ध्वमुखत्वमिति। वैपरीत्यञ्च नोर्ध्वाभिवर्षणमयुक्तमिति शङ्कनीयम्। यस्मादेते पर्जन्याः पूर्वोक्तैः ‘सप्तभिः’ वायुगणैः, ‘उदीरिताः’ ऊर्ध्वं प्रेरिताः। दृश्यते हि वायूनां सर्वतः प्रेरणसामर्थ्यं। तस्मादधोवर्षणवद्वायुवशादूर्ध्वं वर्षणमपि सम्भवत्येव। ‘तेषां’ पूर्वोक्तवायूनाम्, ऊर्ध्वाधोवर्षणसामर्थ्यप्रतिपादकेयमृग्विद्यते॥

तामेतामृचं दर्शयति। ^{(१७)}“समानमेतदुदकं ॰ दिवं जिन्वन्त्यग्नय इति”^{(१७)} इति। यत् ‘उदकं’, भूमौ वृष्टं यच्चोर्ध्वलोकेषु तत् सर्वं ‘समानं’ द्रवस्वभावतामेव, तथापि ‘अहभिः’ कैश्चिदहोभिर्दिनैः, ‘उदेति च’ ऊर्ध्वमपि गच्छति च, पुनरपि कैश्चिद्दिनैः ‘अवैति च’ अधोऽपि गच्छति। तत्रागतेनोदकेन ‘पर्जन्या भूमिं’, ‘जिन्वन्ति’ प्रीणयन्ति। यथा ‘अग्नयः’ ऊर्ध्वज्वालाः। एवमूर्ध्वाभिमुखाः पर्जन्याः, ऊर्ध्वगतिसामान्यादग्नय इत्युच्यन्ते। ते चोर्ध्वाभिवर्षणेन ‘दिवं’, प्रीणयन्ति। इत्यनयेष्टकाममुपदध्यात्॥