भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 75, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 75

७० तैत्तिरीये आरण्यके

जिन्वन्त्य॒ग्नय॒ इति॑^{(१७)}। ^{(१८)}यद॒क्षरं॑ भूत॒कृतं॑। विश्वे॑ दे॒वा उ॒पास॑ते। म॒ह॒र्षिम॑स्य गो॒प्तारं॑। ज॒मद॑ग्निमकुर्वते^{(१८)}। ^{(१९)}ज॒मद॑ग्निराप्यायते। छन्दो॑भिश्चतुरुत्त॒रैः॑। राज्ञ॒ः सो॑मस्य तृ॒प्तासः॑॥ ६॥


तथा च बौधायन आह। समानमेतदिति वृष्टिमतीति इष्टकाविशेषस्य वृष्टिमतीति नामधेयम्। एवमुत्तरैस्त्रिभिर्मन्त्रैर्लोकाप्यायितशंयुनामकानामिष्टकाविशेषणमुपधानं । स एवाह । यदक्षरमिति लोको जमदग्निरित्याप्यायितस्तच्छंयोरिति शंयुरिति । तत्र प्रथमं मन्त्रमाह । ^{(१८)}“यदक्षरं ॰ जमदग्निमकुर्वते”^{(१८)} इति। न चरति न विनश्यति कदाचिदपीति ‘अक्षरं’ यत्परं ब्रह्म वस्तु, ‘भूतकृतं’ आकाशादिभूतरूपेण निष्पन्नं । अत एवोपनिषद्याम्नायते। तदात्मानं स्वयमकुरुतेति। तादृशं ‘विश्वे’ सर्वेऽपि, ‘देवाः’, ‘उपासते’। ‘अस्य’ अक्षरस्य, ‘गोप्तारं’ रक्षितारं, ‘जमदग्न्याख्यं’, ‘महर्षिम्’, ‘अकुर्वते’ देवा इन्द्रादयः स्वपुरुषार्थसिद्धयर्थं स्वयमुपासते, मनुष्याणामनुग्रहार्थं जमदग्निप्रभृतिकमहर्षिममुमस्याक्षरस्यापदेष्टारमकुर्वते। ऋषयो हि तत्तद्वेदप्रवर्त्तनेन मनुष्येभ्योऽक्षरमुपदिश्य तत्सम्प्रदायं परिपालयन्ति ॥

अथ द्वितीयं मन्त्रमाह। ^{(१९)}“जमदग्निराप्यायते ॰ प्रदिशो दिशः”^{(१९)} इति। स च ‘जमदग्निः’, ‘चतुरुत्तरैः’ अक्षर-