भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 76, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 76

१ प्रपाठके ६ अनुवाकः । ७१

ब्रह्म॑णा वी॒र्या॑वता । शिवा नः॑ प्र॒दिशो॒ दिशः॑ ।(१९) । (२०)तच्छं॒ योरा॑वृणीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञ- प॑तये । दैवी स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे॑ । शं चतु॑-


चतुष्टयादुत्तरभाविभिर्गायत्र्यादिभिश्छन्दोभिः, स्वेनोपदिष्टै- र्मन्त्रैर्वा, 'आप्यायते' प्राणिनोभिवर्द्धयति, ते च प्राणिनः 'वीर्यावता' शक्तिमता, 'ब्रह्मणा' मन्त्रेण, 'राज्ञः' राजमानस्य 'सोमस्य' लतात्मकस्य, पातारो भूत्वा 'तृप्ताः' कृतकृत्यत्व- बुद्ध्या तृप्ता भवन्ति । सैव तृप्तिः स्पष्टीक्रियते । 'नः' अस्माकं, 'प्रदिशः' प्राच्याद्या मुख्यदिशः, आग्नेय्याद्या अवान्तर'दिशः', च 'शिवाः' शान्ताः सम्पन्नाः, सर्वदिग्वर्तिप्रजासुखहेतवः सम्प- न्ना इत्यर्थः ॥

अथ तृतीयं मन्त्रमाह । (२०)"तच्छंयोरावृणीमहे • शं चतुष्पदे"(२०) इति । 'शं' प्राप्तानां रोगादीनामुपशमनकारणं, 'योः' आगामिनां रोगादीनां वियोगकारणं । 'तत्' कर्म, अरुणकेतुकाख्यम्, 'आवृणीमहे' आभिमुख्येन प्रार्थयामहे । 'यज्ञाय' तस्मिन्नारुणकेतुकेऽनुष्ठीयमानस्योत्तरक्रतोः 'गातुं' गतिं, 'आवृणीमहे' प्रार्थयामहे । 'यज्ञपतये' यजमानस्य, च 'गातुं' गतिं फलप्राप्तिम्, 'आवृणीमहे' । 'नः' अस्माकं, 'दैवीः स्वस्ति' देवैः सम्पादितः क्षेमोऽस्तु, 'मानुषेभ्यः' पुत्रा-