तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 739, कुल 940 में से
संदर्भ में पढ़ें७२८ तैत्तिरीये आरण्यके
यशो॒ जने॑ऽसानि॒ स्वाहा॑ । श्रेया॑न् वस्य॑सोऽसानि॒ स्वाहा॑ । तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा॑ । स मा॑ भग॒ प्रवि॑श॒ स्वाहा॑ । तस्मि॑न्स॒हस्र॑शाखे । नि भ॑गा॒ऽहं त्वयि॑ मृजे॒ स्वाहा॑ । यथाऽऽपः॑ प्रव॒ता यन्ति॑ । यथा॒ मासा॑ अहर्ज॒रम् । एवं मां ब्र॑ह्मचा॒रिणः॑ । धात॒राय॑न्तु स॒र्वतः॒ स्वाहा॑ ॥ प्र॒ति॒वे॒शो॑ऽसि॒ प्र मा॑ भा॒हि प्र मा॑ पद्यस्व ॥ ३ ॥
वितन्वाना, शमायन्तु ब्रह्मचारिणः स्वाहा, धातरायन्तु सर्वतः स्वाहा, एकं च ॥ अनु० ४ ॥
अथ पञ्चमोऽनुवाकः ।
भूर्भुवः॒ सुव॒रिति॒ वा ए॒तास्ति॒स्रो व्याहृ॑तयः । तासा॑मु ह॒ स्मैतां च॑तु॒र्थीम् । माहा॑चमस्यः॒ प्रवे॑दयते । मह॒ इति॑ । तद्ब्रह्म॑ । स आत्मा । अङ्गा॑न्य॒न्या दे॒वताः॑ । भूरिति॒ वा अ॒यं लो॒कः । भुव॒ इत्य॒न्तरि॑क्षम् । सुव॒रित्य॒सौ लो॒कः ॥ १ ॥
मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑ लो॒का मही॑यन्ते । भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः । मह॒ इति॑ च॒न्द्रमाः॑ । च॒न्द्रम॑सा