भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 751, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 751

७४० तैत्तिरीये आरण्यके

न्दी भवति। को ह्येवान्यात्कः प्रा॒ण्यात्। यदेष आ- काश आनन्दो॒ न स्यात्। एष ह्येवानन्द॒याति। यदा ह्ये॑वैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽ- भयं प्रतिष्ठां विन्दते। अथ सोऽभयं गतो॒ भवति। यदा ह्ये॑वैष एतस्मिन्नुदरमन्तरं कुरु॒ते। अथ तस्य भयं भवति। तत्त्वेव भयं विदुषो म॑न्वानस्य॒। तदप्येष श्लो॒को भवति॥ अनु० ७॥


अथ अष्टमोऽनुवाकः।

भीषा॒ऽस्माद्वातः॑ पवते। भीषोदे॑ति॒ सूर्यः॑। भीषा॒ऽ- स्मादग्निश्चेन्द्र॑श्च। मृत्युर्धावति पञ्चम इ॒ति। सैषाऽऽन- न्दस्य मीमाꣳसा भवति। युवा स्यात् साधुयुवाऽ- ध्यायिकः। आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः। तस्येयं पृथि- वी सर्वा॒ वित्तस्य॑ पूर्णा स्यात्। स एको मानुष आ- नन्दः॑। ते ये शतं मानुषा आनन्दाः॥ १॥

स एको मनुष्यगन्धर्वाणामानन्दः॑। श्रोत्रियस्य चाकामहतस्य। ते ये शतं मनुष्यगन्धर्वाणामान- न्दाः। स एको देवगन्धर्वाणामानन्दः॑। श्रोत्रियस्य

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 751, कुल 940 में से · BharatKosha