तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 769, कुल 940 में से
संदर्भ में पढ़ें७५८ तैत्तिरीये आरण्यके
इ॒ष्टापू॒र्त्तं ब॑हु॒धा जा॒तं जाय॑मानं॒ विश्वं॑ बिभर्त्ति॒ भुव॑नस्य॒ नाभिः॑।(६)।(७)तदे॒वाग्निस्तद्वा॒युस्तत्सूर्य॒स्तदु॑ च॒न्द्रमाः॑। तदे॒व शु॒क्रम॒मृतं॒ तद् ब्रह्म॒ तदापः॒ स प्र॒जाप॑तिः(७) ।
विश्वविशेषेण यत्सर्वं जगदात्मकत्वमुक्तं तदेतत् षष्ठीसप्तमीभ्यां ऋग्भ्यां प्रपञ्चयति । (६)“तदेवर्तं ० भुवनस्य नाभिः(६) । (७)तदेवाग्निरुद्वाद्युः ० स प्रजापतिः”(७) इति । मनसा यथा वस्तुचिन्तनमृते वा तदुच्चारणं ‘सत्यं’, एतदुभयमपि ‘तदेव’ अधिष्ठानरूपं ब्रह्मैव, ‘कवीनां’ वेदशास्त्रपारङ्गतानां, परमुत्कृष्टं प्रमाणत्वेनादरणीयं यद् ‘ब्रह्म’ वेदरूपं वस्तु, तदपि स्वाधिष्ठानभूतपरब्रह्मात्मकमेव । ‘इष्टं’ दर्शपूर्णमासादि श्रौतं कर्म । ‘पूर्त्तं’ वापीकूपादिस्मार्त्तं कर्म, तदुभयमपि ‘तदेव ब्रह्म’ । तथा ‘बहुधा जातं’ पूर्वकल्पतत्पूर्वकल्पादिरूपेण बहुप्रकारमुत्पन्नं, इदानीमपि तथा ‘जायमानं’, ‘विश्वं’ सर्वं जगत्, ‘भुवनस्य नाभिः’ चक्रनाभिवत् सर्वस्य लोकस्याधारभूतः परमात्मा, ‘बिभर्त्ति’ । अत आधेयं सर्वमधिष्ठानस्वरूपमेव । अग्निवायुसूर्यचन्द्रमसोऽपि ‘तदेव’ । तथा ‘शुक्रं’ दीप्यमानं नक्षत्रादिकं, ‘अमृतं’ देवैः सेव्यं पीयूषं, एतदुभयमपि ‘तदेव’ अधिष्ठानरूपमेव, यद् ‘ब्रह्म’ हिरण्यगर्भरूपं, ‘तत्’, अपि तदधिष्ठानात्मकमेव, याः ‘आपः’ जलोपलक्षितानि पञ्चभूतानि, यश्च प्रजापतिर्विराड्रूपः, तदुभयमधिष्ठानरूपमेव । यद्यत् जगत् अविद्यादृष्ट्या नानाविधं प्रतीयते, तत्सर्वं विद्यादृष्ट्या अखण्डैकरसं