भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 782, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 782

१० प्रपाठके १ अनुवाकः । ७०१

यणाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि । तन्नो॑ वि॒ष्णुः प्रचो॒दया॑त्^(३०) । ^(३१)व॒ज्र॒न॒खाय॑ वि॒द्महे॑ तीक्ष्णद॒ꣳष्ट्राय॑ धीमहि ॥ ई ॥ तन्नो॑ नारसि॒ꣳहः प्रचो॒दया॑त्^(३१)* । ^(३२)भास्क॒राय॑ वि॒द्महे॑ महाद्युतिक॒राय॑ धीमहि । तन्नो॑ आदित्‍यः प्रचो॒दया॑त्^(३२) । ^(३३)वै॒श्वा॒न॒राय॑ वि॒द्महे॑ लाली॒लाय॑ धीमहि । तन्नो॑ अग्निः प्रचो॒दया॑त्^(३३) । ^(३४)का॒त्या॒य॒नाय॑


अर्कोघाभं किरीटान्वितमकरलसत्कुण्डलमत्याद्यागमप्रसिद्ध- मूर्त्तिधरं देवं प्रार्थयते । (३०)“नारायणाय विद्महे ० विष्णुः प्रचोदयात्”^(३०) इति । नरशरीराणामुपादानरूपाण्यन्नादिपञ्च- भूतानि नारशब्देन उच्यन्ते, तेषु भूतेषु या आपो मुख्याः ता अयनमाधारो यस्य विष्णोः सोयं ‘नारायणः’, समुद्रजलशायी- त्यर्थः । तथा च स्मर्य्यते । ‘आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः प्रोक्तास्तेन नारायणः स्मृत इति । स च कृष्णावतारे वसुदेवस्य पुत्रत्वात् ‘वासुदेवः’, स च स्वकीयेन वास्तवेन परब्रह्मरूपेण व्यापित्वात् ‘विष्णुः’ । ता एता गायत्र्य- श्चित्तशुद्ध्यर्थं ध्यानपुरःसरं जपितव्याः ॥

हेमप्रख्यामिन्दुखण्डान्नमौलिमित्यागमप्रसिद्धमूर्त्तिधरों दुर्गां


* ३१, ३२, ३३, ३६, ३७, एतेषां मन्त्राणां व्याख्या अस्मल्लक्ष्यपुस्तक- त्रयेषु न दृश्यते ।

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद) · पृष्ठ 782, कुल 940 में से · BharatKosha