तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 783, कुल 940 में से
संदर्भ में पढ़ें७०१ तैत्तिरीये आरण्यके
वि॒द्महै॑ कन्यकु॒मारी॑ धीमहि । तन्नो॑ दुर्गिः प्रचो॒दया॑त्^{(९४)}। ^{(९५)}स॒हस्र॑परमा दे॒वी श॒तमू॑ला श॒ताङ्कु॑रा । सर्व्वँ॑ हरतु मे पा॒पं दू॒र्वा दुः॑स्वप्ननाशि॒नी^{(९५)}। ^{(९६)}काण्डा॑त्काण्डा॒त् प्ररोह॑न्ती प॒रुषः॑ परुषः॒ परि॑ ॥ ७ ॥
ए॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च^{(९६)}। ^{(९७)}या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि । तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम्^{(९७)}। ^{(९८)}“अश्व॑क्रान्ते र॑थक्रान्ते
प्रार्थयते । ^{(९४)}“कात्यायनाय विद्महे ॰ दुर्गिः प्रचोदयात्”^{(९४)} इति । कृत्तिं वस्त इति कार्त्ति रुद्रः, स एव अयनं, अधिष्ठानम् उत्पादको यस्या दुर्गायाः सा ‘कात्यायनी’ । कुत्सितमनिष्टं निवारयति इति कुमारी, कन्या चासौ कुमारी च इति ‘कन्यकुमारी’, ‘दुर्गिः’, दुर्गा, लिङ्गादिव्यत्ययः सर्व्वत्र छान्दसो द्रष्टव्यः ॥
अथ स्नानाङ्गभूता मन्त्रा उच्यन्ते । तत्र शिरसि मृत्तिकया सह दूर्व्वां धारयितुं दूर्व्वाभिमन्त्रणमन्त्रमाह । ^{(९५)}“सहस्रपरमा देवी ॰ दूर्व्वा दुःस्वप्ननाशिनी”^{(९५)} इति । येयं दूर्व्वाभिमानिनी देवता सा ‘मे पापं हरतु’ । कीदृशी, ‘सहस्रसङ्ख्याकेभ्यः पावन-हेतुभ्यो द्रव्येभ्यः ‘परमा’ उत्कृष्टा, सा च ‘देवी’ द्योतनात्मिका शतसङ्ख्याकानि मूलानि यस्याः सा ‘शतमूला’ । तथा ‘शताङ्कुरा’ । शतशब्देन बहुलमात्रमत्र उपलक्ष्यते । दुःस्वप्नकृतमनिष्टफलं, नाशयति इति ‘दुःस्वप्ननाशिनी’ ॥