भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 784, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 784

१० प्रपाठक १ अनुवाकः। ७०३

वि॒ष्णुक्रा॑न्ते वसुन्ध॑रा। शिर॑सा धारयिष्या॒मि॒ रक्ष॑स्व मां प॒दे प॑दे॥^(३८)। ^(३९)“भूमि॑र्धे॒नुर्ध॑र॒णी लो॑कधा॒रिणी॑*। उ॒द्धृता॑सि व॒राहे॑ण कृ॒ष्णेन॑ श॒तबा॑हुना”^(३९)। ^(४०)“मृ-


अथ मृत्तिकाभिमन्त्रणमन्त्राः, तत्र प्रथममन्त्रमाह। ^(३८)“अश्वक्रान्ते रथक्रान्ते ॰ रक्षस्व मां पदे पदे”^(३८) इति। येयं भूमिः तामश्वाः शुद्धिहेतवः स्वपदैराक्रामन्ति तादृशी भूमिः 'अश्वक्रान्ता'। अग्निचयन उखानिर्माणार्थभूखनन^†प्रदेशस्य अश्वाक्रमणविधानादश्वपादानां मृच्छुद्धिहेतुत्वं गम्यते। तथा 'रथक्रान्ता' रथसञ्चरणेन क्षुण्णा सती शुद्धा भवति। तथा त्रिविक्रमावतारे विष्णुः स्वयं पदेन भूमिमाक्रामति, ततोऽपि शुद्धत्वं। अश्वरथविष्णुभिराक्रान्ते शुद्धे हे भूमे 'वसुन्धरा' सर्व्वाणि वस्तूनि धारयन्ती सती स्नानकर्मण्येतस्मिन् मदीय'शिरसा' धारिता देवी द्योतमाना त्वं 'मां', स्नानार्थं जलमध्ये गच्छन्तं 'पदे पदे', 'रक्षस्व'॥

द्वितीयमन्त्रमाह। ^(३९)“उद्धृतासि वराहेण ॰ धरणी लोकधारिणी”^(३९) इति। हे मृत्तिके, त्वं भूमिरूपा सती कृष्णवर्णेन शतसङ्ख्याकबाहुयुक्तेन वराहावतारेण पूर्व्वं 'उद्धृतासि'। कीदृशी भूमिः, 'धेनुः' कामधेनुवत् प्रीणयित्री, 'धरणी' शस्यानां धारयित्री, 'लोकधारिणी' प्राणिनामपि धारयित्री॥


* एष मूलपुस्तकसंमतः पाठः। अत्रतु पदच्युतिरस्ति। तथासङ्ख्यभाष्यपुस्तकेषु एतद्दलमुद्धृतासीत्यादिदलस्य परस्मिन् वर्तते।
† मृत्खननेति तै० पाठः।