तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
१० प्रपाठक १ अनुवाकः। ७०३
वि॒ष्णुक्रा॑न्ते वसुन्ध॑रा। शिर॑सा धारयिष्या॒मि॒ रक्ष॑स्व मां प॒दे प॑दे॥^(३८)। ^(३९)“भूमि॑र्धे॒नुर्ध॑र॒णी लो॑कधा॒रिणी॑*। उ॒द्धृता॑सि व॒राहे॑ण कृ॒ष्णेन॑ श॒तबा॑हुना”^(३९)। ^(४०)“मृ-
अथ मृत्तिकाभिमन्त्रणमन्त्राः, तत्र प्रथममन्त्रमाह। ^(३८)“अश्वक्रान्ते रथक्रान्ते ॰ रक्षस्व मां पदे पदे”^(३८) इति। येयं भूमिः तामश्वाः शुद्धिहेतवः स्वपदैराक्रामन्ति तादृशी भूमिः 'अश्वक्रान्ता'। अग्निचयन उखानिर्माणार्थभूखनन^†प्रदेशस्य अश्वाक्रमणविधानादश्वपादानां मृच्छुद्धिहेतुत्वं गम्यते। तथा 'रथक्रान्ता' रथसञ्चरणेन क्षुण्णा सती शुद्धा भवति। तथा त्रिविक्रमावतारे विष्णुः स्वयं पदेन भूमिमाक्रामति, ततोऽपि शुद्धत्वं। अश्वरथविष्णुभिराक्रान्ते शुद्धे हे भूमे 'वसुन्धरा' सर्व्वाणि वस्तूनि धारयन्ती सती स्नानकर्मण्येतस्मिन् मदीय'शिरसा' धारिता देवी द्योतमाना त्वं 'मां', स्नानार्थं जलमध्ये गच्छन्तं 'पदे पदे', 'रक्षस्व'॥
द्वितीयमन्त्रमाह। ^(३९)“उद्धृतासि वराहेण ॰ धरणी लोकधारिणी”^(३९) इति। हे मृत्तिके, त्वं भूमिरूपा सती कृष्णवर्णेन शतसङ्ख्याकबाहुयुक्तेन वराहावतारेण पूर्व्वं 'उद्धृतासि'। कीदृशी भूमिः, 'धेनुः' कामधेनुवत् प्रीणयित्री, 'धरणी' शस्यानां धारयित्री, 'लोकधारिणी' प्राणिनामपि धारयित्री॥
* एष मूलपुस्तकसंमतः पाठः। अत्रतु पदच्युतिरस्ति। तथासङ्ख्यभाष्यपुस्तकेषु एतद्दलमुद्धृतासीत्यादिदलस्य परस्मिन् वर्तते।
† मृत्खननेति तै० पाठः।
७७४ तैत्तिरीये आरण्यके
त्तिके॑ ह॒नं मे॒ पा॒पं य॒न्मया॑ दु॒ष्कृ॒तं॒ कृ॒तं । त्वया॑ ह॒तेन॑ पा॒पेन॒ जीवा॑मि श॒रदः॑ श॒तं*”(४०) । ^{(४१)}मृत्ति॑के दे॒हि॑ मे पु॒ष्टिं त्वयि॒ सर्व्वं॑ प्रति॒ष्ठितं॑^{(४१)} ॥ ८ ॥ ^{(४२)}मृत्ति॑के प्रति॑ष्ठिते स॒र्व्वं तन्मे॑ नि॒र्णुद॒ मृत्ति॑के । तया॑ ह॒तेन॑ पा॒पेन॒ ग॒च्छा॒मि प॑र॒माङ्ग॒तिं । यतो॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि । मघ॑वञ्छ॒ग्धि तव॑ तन्न॑ ऊ॒तये॒ विद्धिषो॒ विमृधो॑ जहि । स्व॒स्ति॒दा वि॒शस्प- ति॑र्वृत्र॒हा विमृधो॑ व॒शी । वृषेन्द्र॑ः पुर ए॑तु नः स्वस्ति॒दा अभ॑यङ्क॒रः । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑ः पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु । आ॒पा॒न्त॒म॒न्युस्तृ॒प॑लप्रभ- मी॑ धुनिः॒ शिमी॑वाञ्च्छरु॑माँ ऋजी॒षी । सोमो॒ विश्वा॑- न्य॒तसा॒वना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः ॥ ९ ॥
तृती॒यमन्त्र॒माह । ^{(४०)}“मृत्ति॑के हन मे • जीवामि शरदः शतं”^{(४०)} इति । स्पष्टोऽर्थः ॥ पादद्वयात्मकं चतुर्थं मन्त्रमाह । ^{(४१)}“मृत्तिके देहि सर्व्वं प्रतिष्ठितं”^{(४१)} इति । यद्यत् पुष्टिसाधनं यवगोधूमादिद्रव्यं तत्सर्व्वं हे 'मृत्तिके त्वयि प्रतिष्ठितं' । तस्मात् मह्यं 'पुष्टिं' 'देहि' ॥
* मृत्ति॑के॒ ब्रह्म॑दत्तासि॒ काश्यपे॑नाभि॒मन्त्रि॒तेति A, B, D, N, O. चिह्नितपुस्तकपाठः ।
१० प्रपाठके १ अनुवाकः । ७७५
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्विसी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स॒बुध्नि॑या उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ । स्यो॒ना पृ॑थि॒वि भवा॑ नृक्ष॒रा नि॒वेश॑नी । यच्छा॑ नः॒ शर्म॑ स॒प्रथाः॑।^{(४२)} । ^{(४३)}ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां नि॒त्यपु॑ष्टां करी॒षिणी॑म् । ईश्वरीं॑ सर्व॑भूता॒नां तामि॒होप॑ह्वये॒ श्रियं॑^{(४३)} । ^{(४४)}श्रीर्मे॑ भजतु । अलक्ष्मीर्मे॑ न॒श्यतु । विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिर्इ॒मां लो॒कान॑नपज॒य्यम॒भ्य॑जयन् । म॒हाँ२ इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यच्छतु ॥ १० ॥
पञ्चममन्त्रमाह । ^{(४३)}"गन्धद्वारां दुराधर्षां ० तामिहोपह्वये श्रियं"^{(४३)} इति । 'तां' मृत्तिकाभिमानिनीं देवतां, 'इह' अस्मिन् स्नानकर्मणि, 'उपह्वये' सामीप्येनाह्वयामि । कीदृशीं, 'गन्धद्वारां' घ्राणग्राह्यो गन्ध उपलब्धिद्वारं यस्याः सा गन्धद्वारा । अत एव गन्धवती पृथिवी इति तार्किका लक्षणमाहुः । 'दुराधर्षां' प्रतिकूलैः पुरुषैः असुरादिभिराधर्षितुं तिरस्कर्तुमशक्यां । 'नित्यपुष्टां' सर्वदा व्रीहिधान्यैः परिपूर्णां, 'करीषिणीं' बहुलेन गोमयेन युक्तां, गोमहिषादिपशुयुक्तां इत्यर्थः । 'सर्वभूतानां' देवतिर्यङ्मनुष्यरूपाणां प्राणिदेहानां, 'ईश्वरीं' उत्पादकत्वेन नियन्त्रीं, 'श्रियं' सर्वैः सेव्यां ॥
6 B
७७६ तैत्तिरीये आरण्यके
स्व॒स्ति नौ॑ म॒घवा॑ करोतु हन्तु॑ पा॒प्मानं॒ योऽस्मा- न्द्वेष्टि॑ । सोमा॑न॒ꣳ स्वर॑णं कृणुहि ब्रह्मणस्पते । क॒क्षी- वन्तं॒ य औशि॒जम् । शरीरं॑ य॒ज्ञशम॑लं कुसी॑द॒ तस्मि॑न्त्सी- दतु॒ योऽस्मान्द्वेष्टि॑ । चर॑णं प॒वित्रं॒ वित॑तं पुरा॒णं येने॑ पूतस्तर॑ति दुष्कृ॒तानि॑ । तेने॑ प॒वित्रे॑ण शु॒द्धेन॑ पू॒ता अति॑पा॒प्मान॒मरा॑तिन्तरेम । स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्रहञ्शूर वि॒द्वान् । ज॒हि शत्रू॒ꣳ रप॒मृधो॑ नु॒दस्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः^{(४४)। (४५)*}सु- मि॒त्रा न॒ आप॒ ओष॑धयः सन्तु दुर्मि॒त्रास्तस्मै॑ भूया- सुर्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यं द्वि॒ष्मः^{(४५)} । ^{(४६)}आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ॥ ११ ॥
नाभिदघ्ने जले प्रविश्य जलाभिमन्त्रणमन्त्रमाह । ^{(४५)}“सु- मित्रा न आपः • यं च वयं द्विष्मः”^{(४५)*} इति । या एताः ‘आपः’, ता एताः, तज्जन्या व्रीहियवाद्योषधयः,’ च ‘नः’ अस्मान् प्रति, ‘सुमित्राः’ स्नानपानभोजनादावनुकूलाः, ‘सन्तु’ । ‘यः’ शत्रुः,
* असमल्लब्धचतुर्षु मूलपुस्तकेषु अङ्कानुक्रमेण मन्त्रा लिखिताः । परन्तु भाष्यकारः प्रथमं ४७ मन्त्रं व्याख्याय ततः ४५ मन्त्रं व्याख्यातवान् । अत एवात्र मन्त्रक्रमस्थापनाय भाष्यपाठव्यतिक्रमः कृतोऽस्माभिः ।
१० प्रपाठक १ अनुवाकः। ७७७
म॒हेरणाय॒ चक्ष॑से । यो व॑ः शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह न॑ः । उ॒श॒तीरि॑व मा॒तर॑ः । तस्मा॒ अर॑ङ्क- मामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः(५६) । ^{(४७)}हिर॑ण्यशृङ्गं॒ वरु॑णं॒ प्रप॑द्ये ती॒र्थं मे॑ दे॒हि याचि॑तः । यन्मया॑ भु॒क्तम॑सा॒धूनां॑ पा॒पेभ्य॑श्च प्र॑ति- ग्र॒हः(४७) । ^{(४८)}यन्मे॒ मन॑सा वा॒चा क॒र्मणा॑ वा दुष्कृ॑तं कृ॒तं । तन्न॒ इन्द्रो॒ वरु॑णो॒ बृह॒स्पति॑ः सवि॒ता च॑ पुनन्तु
अस्मासु द्वेषं करोति यस्मिंश्च 'वयं', द्वेषं कुर्मः, उभयविधाय 'तस्मै' शत्रवे, मे 'दुर्मित्राः' प्रतिकूलाः, 'भूयासुः' स्नान- भोजनादौ ज्वराजीर्णादिमुत्पादयन्तु ॥
एतैर्मन्त्रैरभिमन्त्रितां मृत्तिकामनुलिप्य नद्यादिजलप्रदेशे जलाधिपतिप्रार्थनार्थं मन्त्रद्वयमाह । ^{(४७)}“हिरण्यशृङ्गं वरुणं ॰ पापेभ्यश्च प्रतिग्रहः”^{(४७)} । ^{(४८)}“यन्मे मनसा वाचा ॰ पुनन्तु पुनः पुनः”^{(४८)} इति । सुवर्णमयं शृङ्गवत् उपर्यवस्थितं मुकुटं यस्य असौ 'हिरण्यशृङ्गः', तादृशं । 'वरुणं' जलाधिपतिं, 'प्रपद्ये' अनुग्रहार्थं प्राप्नोमि । तादृशो वरुणस्त्वं मया 'याचितः' प्रार्थितः सन्, 'तीर्थं' अवतरणस्थानं, 'देहि' । किञ्च, 'अ- साधूनां' पापिनां, गृहे 'मया' यद्भुक्तं', तथा 'पापेभ्यः' पापिनां सकाशात्, 'प्रतिग्रहः', 'च', यः कृतः ॥ अन्यदपि
6 B 2
७१८ | तैत्तिरीये आरण्यके
पुन॑: पुन॑:^{(४८)}। ^{(४६)}नमो॒ऽग्नये॑ऽप्सुम॒ते नम॒ इन्द्रा॑य॒ नमो॒ वरु॑णाय॒ नमो वारु॑ण्यै॒ नमो॒ऽद्भ्यः^{(४६)}॥ १२ ॥
^{(५०)}यद॒पाङ् क्रू॒रं यद॑मे॒ध्यं यद॑शा॒न्तं तदप॑गच्छ-
तात्^{(५०)}। ^{(५१)}अ॒त्या॒श॒नाद॑तीपा॒नाद्य॒च्च उ॒ग्रात्प्र॑तिग्र-
'यत्' 'दुष्कृतं', मानसं वाचिकं कायिकं वा अनुष्ठितं 'मे' मदीयं, तत् सर्व्वं इन्द्रादयो देवाः तदा तदा 'पुनन्तु' शोधयन्तु ॥
जलावस्थितदेवान् प्रति नमस्कारमन्त्रं दर्शयति। "^{(४६)}नमोऽग्नयेऽप्सुमते ॰ वारुण्यै नमोऽद्भ्यः"^{(४६)} इति । आपो यस्याग्नेः सन्ति सोयं 'अप्सुमान्' जलमध्ये निगूढ इत्यर्थः । तथाविधाय, 'अग्नये', 'इन्द्राय वरुणाय', वरुणपत्न्यै, जलाभिमानिदेवताभ्यश्च 'नमस्कारोऽस्तु' ॥
निमज्जनप्रदेशे दुष्टजलापनयनमन्त्रमाह । ^{(५०)}“यदपाङ् क्रूरं तदपगच्छतात्”^{(५०)} इति। 'अपां', सम्बन्धि 'यत्' 'क्रूरं' रूपं, मरणकारणम् आवर्त्तादिकं, 'यत्', च 'अमेध्यं' निष्ठीवनादिदुष्टं, 'यत्' अपि 'अशान्तं' वातश्लेष्मादिजनकं, 'तत्' सर्व्वं, अस्मान्निमज्जनप्रदेशात् अपगच्छतु ॥
निमज्जनमन्त्रावाह । ^{(५१)}“अत्याशनादतीपानाद्यच्च ॰ पाणिना ह्यवमर्षतु”^{(५१)}। ^{(५२)}“सोहमपापो विरजः ॰ गच्छेद् ब्रह्मस-
१० प्रपाठके १ अनुवाकः । ७७६
होत् । तन्मे॒ वरु॑णो॒ राजा॑ पा॒णिना॑ ह्यव॒मर्श॑तु^{(५१)} । ^{(५२)}सोऽह॒मपा॑पो वि॒रजो॒ निर्मु॑क्तो मुक्तकि॒ल्बिषः॑ । ना- क॑स्य पृ॒ष्ठमा॒रुह्य॒ गच्छे॑द्ब्रह्म॑सलोक॒ताम्^{(५२)} । ^{(५३)}यश्चा॒प्सु वरु॑णः॒ स पु॒नात्व॑घमर्ष॒णः^{(५३)} । ^{(५४)}इ॒मं मे॑ गङ्गे यमुने
लोकतां''^{(५२)} इति । देवपितृमनुष्यादियज्ञमतीत्य भुक्तं 'अत्याशनं' । देवर्षिपितृतर्पणमतीत्य पीतमुदकं 'अतीपानं' । उच्चास्त्ववृत्तौ यः पुमान् तस्मात्, यो 'धनप्रतिग्रहः' । एतैरत्यशनातिपान- दुष्प्रतिग्रहैः सम्पादितं यत् पापं मे मदीयं, 'तत्' सर्व्वं, 'वरुणो राजा' जलस्वामी, स्वकीयेन 'पाणिना', अपनयतु ॥ ततः पापरहितः 'सोऽहं', रजोगुणरहितः, संसारकारणरागद्वेषादि दोषात् 'निर्मुक्तः' । अत एव अनुष्ठायमानः पापरहितः स्वर्ग- स्योपरिभागं, 'आरुह्य', ब्रह्मणा हिरण्यगर्भेण समानभोक्तृत्वं* 'गच्छेत्' गच्छेयं ॥
तीर्थभूतानां गङ्गादिनदीनामावाहनमन्त्रमाह । ^{(५४)}“इमं मे गङ्गे यमुने ० शृणुह्या सुषोमया”^{(५४)} इति । हे गङ्गाद्या नद्यः, यूयं, परुष्ण्यादिभिर्नदीभिः सह 'मे' मदीयं, 'इमं' 'स्तोमं' स्तोत्रं, 'शृणुहि' शृणुत । श्रुत्वा तत्र 'आसचत' आगत्य जले तद्द्वारेण मयि च समवेता भवत । 'गङ्गायमुनासरस्वत्यः', प्रसिद्धाः । 'शुतुद्रि', इति नद्यन्तरस्य सम्बोधनं । 'मरुद्वृधे',
* समानलोकत्वमिति तै० चिह्नितपुस्तकपाठः ।
७८० तैत्तिरीये आरण्यके
सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ꣳ सचता परु॒ष्णि॒या । अ॒सि॒क्नि॒- या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या⁽५४⁾ ।⁽५५⁾ ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोध्य॑जायत । ततो॒ रात्रि॑र- जायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः ॥ १३ ॥ समु॒द्राद॑र्ण॒वादधि॑संवत्स॒रो अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी । सू॒र्य्या॒च॒न्द्रम॒सौ धा॒ता य॑थापू॒र्व्वमकल्पयत् । दिव॑ञ्च पृथि॒वीं चा॒न्तरि॑क्ष-
'आर्जीकीये', इत्यनयोर्नद्योः सम्बोधनद्वयं । "परुष्ण्या असि- क्निया वितस्तया सुषोमया" इति पदचतुष्टयं तृतीयान्तं नदीचतुष्टयवाचकं ॥
जले निमग्नस्य प्राणायामार्थमघमर्षणसूक्तमाह । ⁽५५⁾"ऋतं च सत्यं चाभीद्धात्तपसः ० दिवञ्च पृथिवीं चान्तरिक्षमथो सुवः"⁽५५⁾ इति । 'ऋतं' मानसं यथार्थसङ्कल्पनं । 'सत्यं' वाचिकं यथार्थभाषणं । 'च'काराभ्यामन्यदपि शास्त्रीयं धर्मजातं समुच्चीयते । तत् सर्व्वं 'अभीद्धात्' अभितः प्रकाशमानात् परमात्मनः, उत्पन्नं । कदा समुत्पन्नं, इति उच्यते । 'तपसोधि' स्रष्टव्यपर्यालोचनरूपात् तपसः ऊर्द्धं । स तपस्तप्त्वा इदꣳ सर्व्वमसृजत इति श्रुत्यन्तरात् । यस्य ज्ञानमयन्तप इति श्रुत्य- न्तराच्च । 'ततः' स्वप्रकाशात् परमेश्वरात्, 'रात्रिः', उत्पन्ना ।
१० प्रपाठके १ अनुवाकः । ७८१
मथो॒ सुव॑:^{(५५)}। ^{(५६)}यत् पृ॑थि॒व्याꣳ रज॑:॒ स्वमा॒न्तरि॑क्षे वि॒रोद॑सी। इ॒माꣳ स्तदापो॑ वरु॒णः पु॒नात्व॑घम॒र्षण॑:^{(५६)}। ^{(५७)}पु॒नन्तु॒ वस॑वः पु॒नातु॒ वरु॑णः पु॒नात्व॑घम॒र्षण॑:^{(५७)}। ^{(५८)}ए॒ष भू॒तस्य॑ म॒ध्ये भुवनस्य गो॒प्ता। ए॒ष पु॒ण्यकृ॑तान्
अह्नोप्येतदुपलक्षणं । 'ततः' तस्मात् परमेश्वरात्, 'समुद्रः', उत्पन्नः । सामान्योक्तस्य* लवणोदक्षीरोददध्यादिविशेषमभि-प्रेत्यार्णवशब्देन पुनर्विशेष्यते । अवान्तरभेदयुक्तात् 'समुद्रात्', 'अधि' ऊर्द्धं, समुद्रोपलक्षितः कृत्स्नः कालः समुत्पन्नः । स च उत्पादकः परमेश्वरः, अहोरात्रोपलक्षितान् सर्व्वान् काल-विशेषान् 'विदधत्' सृजन्, 'मिषतः' निमेषादियुक्तस्य, 'विश्वस्य' सर्व्वस्य प्राणिजातस्य, 'वशी' स्वामी भूत्वा, वर्त्तते । स तादृशः, 'धाता' परमेश्वरः, सूर्य्यादिदेवान्, 'पृथिव्यादि लोकांश्च 'यथापूर्व्वं' अतीतसृष्टौ यस्य यादृशं रूपं तादृशम-नतिक्रम्य, 'अकल्पयत्' सङ्कल्पमात्रेण सम्पादितवान् । दिवश्चे-त्युपात्तत्वात् 'सुवः'शब्देन भोगविशेषा विवक्षितः ॥
अघमर्षणं कृत्वा तत ऊर्द्धमवगाहनायैस्तिस्र ऋचो दर्शय-ति। ^{(५६)}"यत् पृथिव्याꣳ ० पुनात्वघमर्षणः"^{(५६)} । ^{(५७)}"एष भूतस्य मध्ये ० मृत्योर्हिꣳस्यं"^{(५७)} । ^{(५८)}"द्यावापृथिव्योः ०
* समानोक्तस्येति F चिह्नितपुस्तकपाठः।
७८२ तैत्तिरीये आरण्यके
लो॒काने॒ष मृ॒त्योर्हिर॑ण्मयं(५८) । (५९)द्यावा॑पृथि॒व्योर्हिर॑- ण्मयᳲ॒ सꣳश्रि॑तंᳲ सुव॑: ॥ १४ ॥
सुवः सꣳशिशाधि”(५८) । इति ‘पृथिव्यां’, वर्त्तमानानां अस्माकं ‘स्वं रजः’ स्वकीयं पापं, ‘यत्’, अस्ति । ‘आन्तरिक्षे’ सर्व्वतो-न्तरिक्षलोके, ‘विरोदसी’ विशेषेण रोदस्योर्द्यावापृथिव्योः, य-त्पापमस्ति । अत्र रोदस्योः पृथक् उक्तत्वात् पृथिव्यां दूतिपदेन भूमेरधस्ताद्वर्त्तमानः पाताललोको विवक्षितः । सर्व्वेष्वपि लोकेषु तत्तज्जन्मान्यनुभवताम् अस्माकं यत् पापम् आसीत्, ‘तत्’ सर्व्वं पापं तदनुष्ठातॄन् ‘इमान्’ अस्मांश्च, ‘वरुणः’, ‘पुनातु’ शोधयतु, पापं विनाश्य शुद्धानस्मान् करोतु । कीदृशो वरुणः, ‘आपः’ जलस्वामित्वेन तद्रूपः । अघानि मर्षयति विनाशयति दूति ‘अघमर्षणः’॥ तादृशः, ‘एषः’ वरुणः, ‘भूतस्य’ अतीतस्य, ‘भुवनस्य’ प्राणिजातस्य, ‘गोप्ता’ रक्षिता । तथा भाव्यस्य, भविष्यतोपि अयतः ‘गोप्ता’ । ‘एषः’ वरुणः, ‘पुण्य-कृतां’ ज्योतिष्टोमाधिकारिणां, ‘लोकान्’, प्रयच्छति इति शेषः । ‘एषः’ वरुणः, ‘मृत्योः’ सर्व्वप्राणिमारकस्य यमस्य, सम्ब-न्धिनं ‘हिरण्मयं’ लोकविशेषं, पापिनां प्रयच्छतीति शेषः ॥ यच्च ‘हिरण्मयं’ ब्रह्माण्डरूपं, ‘सुवः’ स्वर्गशब्दोऽभिधेयं, ‘द्यावा-पृथिव्योः’ द्युलोकभूलोकयोः, ‘संश्रितं’ प्रवर्त्तते । हे वरुण,
१० प्रपाठके १ अनुवाकः । ७८३
स न॒ः सुव॒ः सꣳशि॑शाधि ५९) । (६०)आ॒र्द्रं ज्व॑लति॒ ज्योति॑र॒हम॑स्मि । ज्योति॒र्ज्वल॑ति॒ ब्रह्मा॒हम॑स्मि । यो॑ऽहम॑स्मि॒ ब्रह्मा॒हम॑स्मि । अ॒हम॑स्मि॒ ब्रह्मा॒हम॑स्मि । अ॒हमे॒वाहं
'सः', त्वं 'नः' अस्मान् प्रति, 'सुवः' तादृशं स्वर्गलोकं, 'संशिशाधि' सम्यक् अनुगृहाण ॥
इति तिसृभिः ऋग्भिः स्नातवतः पुरुषस्य आचमनार्थं. मन्त्रमाह । (६०)"आर्द्रं ज्वलति ० मां जुहोमि स्वाहा"(६०) इति । यत् एतत् उदकरूपं 'आर्द्रं', तदेतत् स्वाधिष्ठानचैतन्येन 'ज्वलति' प्रकाशते । तच्च अधिष्ठानरूपं 'ज्योतिः', 'अहमस्मि' । देहेन्द्रियादिभ्यो विवेचितस्य मम तदेवाधिष्ठानचैतन्यं स्वरूपं इत्यर्थः । तदेव उपपाद्यते, 'ज्योतिर्ज्वलति', इत्युक्तं तत् 'ज्योतिः', ब्रह्मैव । अतो 'ज्योतिरहमस्मि', इति वाक्येन 'ब्रह्माहमस्मि', इत्युक्तं भवति, नच पूर्व्वसिद्धं* जीवात्मनः स्वरूपं विनाश्य रूपान्तरस्य ब्रह्मत्वलक्षणस्य प्राप्तिर्भवति । किन्तु 'योऽहं' पुरा जीवः, 'अस्मि', स एव इदानीं 'अहं ब्रह्मास्मि' । वस्तुतो ब्रह्माण्येव मयि पूर्वमज्ञानाज्जीवत्वमारोपितमासीत् । तस्मिन् अज्ञाने विवेकेनापनीते सति वस्तुतः पूर्व्वसिद्धमेव 'ब्रह्मस्वरूपं इदानीं अनुभविता 'अस्मि,' नतु नूतनं किञ्चित
* पूर्व्वसिद्धेति E चिह्नितपुस्तकपाठः ।
5 c
७८४ तैत्तिरीये आरण्यके
मां जुहोमि॒ स्वाहा॑।(६०)। (६१)अ॒कार्य्य॑कार्य्यवकी॒र्णी स्ते॒नो भ्रू॑ण॒हा गु॑रुत॒ल्पगः॑। वरु॑णो॒ऽपाम॑घम॒र्षण॒स्तस्मा॑त्पा॒पात् प्रमु॑च्यते।(६१)। (६२)रजो॒भूमि॒स्त्वं माᳵ रोद॑यस्व प्र॒वद॑न्ति
ब्रह्मत्वमागतं। तस्मात् 'अहमेव,' अहंब्रह्मभावानुभववेलाया- मपि* पूर्वसिद्धोऽहमेव न तु योषित्स्यग्निध्यानवदुपचरितं ब्रह्मत्वं। तादृशः 'अहं', जलरूपं 'मां', 'जुहोमि' उदराग्नौ प्रक्षिपामि। हविःप्रदानवाची 'स्वाहा'शब्दः। मद्दहवर्त्तिभ्यो देवेभ्यो जल- रूपं हविर्दत्तम् इत्यर्थः॥
आचमनात् ऊर्ध्वं पुनरपि स्नाने मन्त्रमाह। (६१)"अकार्य्य- कार्य्यवकीर्णी ० तस्मात् पापात्प्रमुच्यते"(६१) इति। अकार्य्यं शास्त्रप्रतिषिद्धं कलञ्जभक्षणादिकं, तत्कर्तुं शीलं यस्यासौ 'अकार्य्यकारी'। प्रतिषिद्धस्त्रीगमनवान् 'अवकीर्णी' । ब्राह्मण- सुवर्णहर्त्ता 'स्तेनः'। वेदवेदाङ्गविद् ब्राह्मणः, गर्भो वा भ्रूणः, तं हन्ति इति 'भ्रूणहा'। गुरुदारगामी तु 'गुरुतल्पगः'। एतादृशपापकारिणम् अपि मां 'अघमर्षणः' पापविनाशकः, 'अपां', स्वामी 'वरुणः', 'तस्मात्' सर्वस्मात्, 'पापात्', 'प्रमुच्यते' मोचयति॥
रहस्यपापक्षयार्थे स्नानमन्त्रमाह। (६२)"रजोभूमिस्त्वं माᳵ
* अहं ब्रह्मात्मानुभववेलायामिति F, चिह्नितपुस्तकपाठः। अहं ब्रह्मतत्त्वानभववेलायामिति E चिह्नितपुस्तकपाठः।
१० प्रपाठके १ अनुवाकः। ७८५
धीरा॑:॥(११)*। ^{(१२)}आक्रा॑न्त्समु॒द्रः प्र॑थ॒मे वि॒धर्म॑न् ज॒न- य॑न् प्र॒जा भुव॑नस्य॒ राजा॑॥ वृषा॑ प॒वित्रे॒ अधि॒ सानो॒ अव्ये॑ बृ॒हत् सोमो॑ वावृधे सुवा॒न इन्दु॑:॥^{(१२)}॥ १५॥
पुनात्वघमर्षणः॥*(११) इति। 'रजः' रजःपापस्य, 'भूमिः' स्थानभूतः, अहं, अतो हे देव 'त्वं', तत्पापफलभूत-यातनया 'मां रोदयस्व'। यद्यप्येतत्तवोचितं तथापि 'धीराः' बुद्धिमन्तः, शास्त्रपारङ्गताः, मामनुगृह्णत एवं 'प्रवदन्ति'। तदीयं वाक्य- मुदाह्रियते। 'ऋषयः' वशिष्ठमुख्याः, एनं स्नानकारिणं 'पुनन्तु' शोधयन्तु। तथा 'वसवः' अष्टसङ्ख्याकाः, एनं 'पुनन्तु'। 'वरुणः', 'अपि एनं 'पुनातु'। 'अघमर्षणः' पापविनाशकोऽन्योऽपि देवः, एनं 'पुनातु'। एवं धीरैर्महद्भिरनुगृहीतत्वात् ऋष्यादिभिः पूतं मां त्वमपि यमदेव मा बाधस्व, अनुगृहाण, इत्यर्थः।
स्नानादूर्ध्वं जप्यं मन्त्रमाह। ^{(१२)}"आक्रान्तसमुद्रः प्रथमे वावृधे सुवान इन्दुः"^{(१२)} इति। समुद्रवत् प्रौढत्वात् सम्मोदाख्यपरमानन्दस्वभावत्वात् वा 'समुद्रः' परमात्मा, स च सर्वं जगत् 'आक्रान्' आक्रान्तवान्, व्याप्तवान्। किं कुर्वन्, 'प्रथमे' सृष्टेरादिकाले, 'प्रजा जनयन्'। कीदृशे प्रथमकाले,
* भाष्यपुस्तकद्वयधृतमूलपाठे प्रवदन्ति धीरा इत्यस्योत्तरं पुनन्तु ऋषयः पुनन्तु वसवः पुनातु वरुणः पुनात्वघमर्षण इत्यधिकः पाठः। कखगघचतुर्ष्वपि मूलपुस्तकेषु नैष पाठो दृश्यते।
5 c 2
७८६ | तैत्तिरीये आरण्यके
परस्तात्॑^(१) । यशः^(२) । गुहा॑सु^(३) । ममे॑^(४) । चक्रतु- ण्डाय॑ धीमहि^(५) । तीक्ष्णादꣳष्ट्राय॑ धीमहि^(६) । परि॑^(७) । प्र॒ति॑ष्ठितं^(८) । देभुः^(९) । यच्छ॑तु^(१०) । दधात॒न^(११) । अ॒ङ्ग!^(१२) । अ॒र्णवः^(१३) । सु॒वः^(१४) । राजा, एकं च^(१५) । रु॒द्रौ रु॒द्रश्च॑ द॒न्तिश्च॑ न॒न्दिः ष॑ण्मुख एव च । ग॒रुडो॑ ब्र॒ह्मविष्णु॑श्च ना॒र॒सिꣳह॑स्तथैव च ॥ आ॒दि॒त्योऽग्नि॑श्च दु॒र्गिश्च॑ क्रमेण द्वादशा॑म्भसि । म(१) । म(२) । व(३) । च्(४) । म(५) । सुं(६) । वे(७) । ना(८) । व(९) । भा(१०) । वै(११) । का- त्या॒य॒नाय(१२) ॥
‘विधर्म्मन्’ प्राणिभिः पूर्वकल्पे अनुष्ठिता विविधा धर्मा यस्मिन् काले स्वफलदानार्थं उद्बोध्यन्ते, सोऽयं विधर्म्मा तस्मिन् । स च परमात्मा ‘भुवनस्य’, पालकत्वात् ‘राजा’ । स्वभक्तानां कामानां वर्षणहेतुत्वात् ‘वृषा’ । ईदृशः, सर्वत्र व्याप्तवान् । किञ्च । ‘सानौ’ सानौ, पर्वतपार्श्वभागे । श्रुत्यन्तरे तं ब्रह्मगिरिः इत्याचक्षत इति श्रवणात् ब्रह्मावबोधयोग्यो देहो गिरिः, तदवयवः सानुः, हृदयपुण्डरीकं, तच्च ‘पवित्रं’ बाह्यदेहावयववदुच्छिष्टस्पर्शादिदोषाभावात् शुद्धं, ‘अधि’ पुरुषार्थहेतुध्यानस्थानत्वात् इतरावयवेभ्योऽप्यधिकं, अतएव व्यातृणाम-
१० प्रपाठके १ अनुवाकः। ७८७
(१५)जातवेदसे सुनवाम॒ सोम॑मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑
वनस्य पालनस्य हेतुत्वात् 'अव्यं' हिमवत्पुत्र्या गौर्या ब्रह्मविद्या- भिमानिरूपत्वात् गौरीवाचक उमाशब्दो ब्रह्मविद्यामुप- लक्षयति । अत एव तलवकारोपनिषदि ब्रह्मविद्यामूर्त्तिप्रस्तावे ब्रह्मविद्यामूर्त्तिः पठ्यते, बहुशोभमाना तु मां हैमवतीं होवाच इति । तद्विषयः परमात्मा तया उमया सह वर्त्तमानत्वात् 'सोमः', स च सानौ हृदयपुण्डरीके 'बृहत्' ब्रह्म यथा भवति तथा, 'वावृधे' वृद्धिं प्राप्तः, पूर्वं अविद्यावृतत्वेन सङ्कुचितो जीवो भूत्वा तस्यामविद्यायां विद्यायापनीतायां ब्रह्मावाविर्भा- वात् प्रवृद्ध इव भासत इत्यर्थः । स च सोमः, 'सुवानः' जीवानां धर्माधर्मयोः प्रेरकः, 'इन्दुः' फलदानेन चन्द्र- वदाह्लादहेतुः ॥
अथानिष्टपरिहारार्थत्वेन जया मन्त्रा उच्यन्ते । तत्रैका- मृचमाह । (१४)"जातवेदसे सुनवाम ० नावेव सिन्धुं दुरितात्यग्निः"(१५) इति । वेदांसि वेदनानि ज्ञानानि तानि जातान्युत्पन्नानि यस्मात् अग्नेः सोऽयं जातवेदाः, आधानेन संस्कृतेऽग्नौ पश्चात्तदा तदा कर्त्तव्यविषयाणि ज्ञानान्युत्पद्यन्ते, तस्मै 'जातवेदसे' । यागकाले लतात्मकं 'सोमं', 'सुनवाम' अभिषुतं करवाम । स्वयं सर्वं वेत्ति इति 'वेदः' अग्निः,
७८८ तैत्तिरीये आरण्यके
दुरितात्य॒ग्निः॑॥(६४) । (६५)ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा॑म्। दु॒र्गां दे॒वीँ॒ शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः॑॥(६५) । (६६)अग्ने॒ त्वं पा॑रया
स च 'अरातीयतः' अस्माखरातिवं शत्रुत्वमिच्छतः पुरुषान्, 'निदहाति' नितरां भस्मीकरोति । किञ्च । 'सः' अग्निः, 'नः' अस्माकं, 'विश्वा दुर्गाणि' सर्वा आपदः, 'अतिपर्षत्' अतिशयेन नाशितवान्, इत्यर्थः । किञ्च । यथा लोके 'नावा', 'सिन्धुं' समुद्रं, नाविकस्तारयति, तथा 'अग्निः', 'दुरितानि', पापानि, अतिशयेन तारयति इति शेषः ॥
द्वितीयामृचमाह । (६५)“तामग्निवर्णान्तपसा ० सुतरसि तरसे नमः”(६५) इति । येयं नवदुर्गा कन्यादिषु मन्त्रशास्त्रेषु प्रसिद्धा, 'तां दुर्गां देवीं', 'अहं शरणं प्रपद्ये' । कीदृशीं, अग्निसमानवर्णां, 'तपसा' स्वकीयेन सन्तापेन, 'ज्वलन्तीं' अस्मच्छत्रून्दहन्तीं, विशेषेण रोचते स्वयमेव प्रकाशत इति विरोचन, परमात्मा, तेन दृष्टत्वात् 'वैरोचनीं', 'कर्मफलेषु' स्वर्गपशुपुत्रादिषु निमित्तभूतेषु, 'जुष्टां' उपासकसेवितां । हे 'सुतरसि' सुष्ठु संसारतरणे हेतौ देवि, 'तरसे' तारयित्र्यै तुभ्यं, 'नमः', अस्तु ॥
तृतीयामृचमाह । (६६)“अग्ने त्वं पारया ० तनयाय शंयोः”(६६) इति । हे अग्ने 'नवः' स्तोतव्यः, 'त्वं', 'अस्मान्', 'स्वस्तिभिः',
१० प्रपाठके १ अनुवाकः । ७८६
नव्यो॑ अ॒स्मान्त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शंयोः॑ ॥(६६) । (६७)विश्वानि॑ नो दु॒र्गहा॑ जातवेदः॒ सिन्धु॒न्न ना॒वा दु॑रि॒ताऽति॑पर्षि । अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नोऽस्माकं॑
क्षेमकारिभिः उपायैः, 'विश्वा दुर्गाण्यति' सर्वा आपदोऽतिशय्येन लङ्घयित्वा, 'पारय' संसारस्य परतीरनय । 'नः', अस्माकं, त्व- त्प्रसादात् 'पूश्च' या निवासयोग्या पुरी सत्यपि, पृथिवी, सा विस्तीर्णा भवतु । 'उर्वी' सर्वस्य निष्पादनयोग्या भूमिरपि, 'बहुला', भवतु । तच्च 'तोकाय तनयाय' अस्मदपत्याय तदीय- पुत्राय च, 'शंयोर्भव' सुखस्य मिश्रयिता भव ॥
चतुर्थीमृचमाह । (६७)"विश्वानि नो दुर्गहा ० बोधयिता तनूनां"(६७) इति । हे 'जातवेदः', 'दुर्गहा' सर्वासामापदाम- पहन्ता, । त्वं 'विश्वानि दुरिता' सर्वाणि पापानि, 'नावा', 'सिन्धुं न' समुद्रमिव, 'नः' अस्मान्, 'अतिपर्षि' अतिशयेन तार- यसि । हे 'अग्ने', 'अत्रिवत्' आध्यात्मिकादितापत्रयरहितत्वेन अत्रिशब्दवाच्यो जीवन्मुक्तो महर्षिः, "आत्मौपम्येन भूतानां दयां कुर्वीत मानवः" इत्येतच्छास्त्रमनुसृत्य, "सर्वे च सुखिनः सन्तु सर्वे सन्तु निरामयाः" इत्येवं मनसा यथा यथा सर्वदा भावयति, तथा त्वमपि 'मनसा', 'गृणानः' गुणान् उच्चारयन् भावयन्,
७६० तैत्तिरीये आरण्यके
बोध्यवि॒ता त॒नूनाँ॑।^{(६७)} । ^{(६८)}पृ॒त॒ना॒जितँ॑ स॒हमान॑मु॒ग्रम॒ग्निँ हु॑वेम प॒रमात्स॒धस्था॑त् । स न॑: पर्षदति॑ दु॒र्गाणि॒ विश्वा॑ क्षाम॑द्दे॒वो अति॑ दु॒रितात्य॒ग्निः॥^{(६८)}॥ ^{(६९)}प्र॒त्नोषि॑ क॒मीड्यो॑ अ॒ध्वरेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑। स्वाञ्चा॑ग्ने त॒नुव॑म्पि॒प्रय॑स्वा॒स्मभ्य॑ञ्च॒ सौभ॑ग॒माय॑जस्व^{(६९)} । गोभि॑र्जु॒ष्टमयु॑जो॒ निष्षि॑क्त॒न्तवे॑न्द्र विष्णो-
'अस्माकं', 'तनूनाम्', 'अविता' रक्षिता भूत्वा, 'बोधि' बुध्यस्व, सावधानो भवेत्यर्थः ॥
पञ्चमीमृचमाह । ^{(६८)}"पृतनाजितँ सहमानमुग्रमग्निँ अति दुरितात्यग्निः"^{(६८)} इति । पृतना परकीयसेना जयतीति 'पृतनाजित्', तं, अतएव 'सहमानं' शत्रूनभिभवन्तं । 'उग्रं' भीतिहेतुं, 'अग्निं' 'परमात्' उत्कृष्टात् 'सधस्थात्' स्वकैः भृत्यैः सहावस्थानदेशात्, 'हुवेम' आह्नयाम। स न इत्यादि पूर्ववत् । किञ्च 'अग्निर्देवः' 'क्षामत्' अस्मदपराधान् क्षममाणः, 'अति दुरिता' अतिशयितानि पातकानि ब्रह्महत्यादीनि अतिलङ्घयतीति शेषः ॥
षष्ठीमृचमाह । ^{(६९)}"प्रत्नोषि कमीड्यो ० सौभगमायजस्व"^{(६९)} इति । हे अग्ने त्वं 'अध्वरेषु' यागेषु, 'ईड्यः' स्तुत्यः सन् 'कं' सुखं, 'प्रत्नोषि' विस्तारयसि । 'सनाच्च' कर्मफलस्य दातापि सन् 'होता' होमनिष्पादकः, 'नव्यः' स्तुत्योऽपि भूत्वा 'सत्सि'
१० प्रपाठके २ अनुवाकः । ७६१
रनु॒सञ्च॑रेम । नाक॑स्य पृ॒ष्ठम॒भिसं॒वसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मो॑दयन्तां ॥
अ॒ग्निः, च॒त्वारि॑ च ॥ अनु० १ ॥
अथ द्वितीयोऽनुवाकः ।
$^{(१)}$भूर॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भुवो॑ वा॒यवे॑ऽन्तरि॑क्षाय॒ स्वाहा॒ सुव॑रादि॒त्याय॑ दि॒वे स्वाहा॒ भूर्भुवः॒ सुव॑श्चन्द्र-
सीदसि, यागदेशे तिष्ठसि । अतो हे 'अग्ने', 'स्वाञ्च' स्वकीयामपि, 'तनुवं', 'पिप्रयस्व' अस्मदीयहविषा प्रीणय, ततः 'अस्मभ्यञ्च', 'सौभगं' शोभनभाग्योपेतत्वं, 'आयजस्व' सर्वतो देहि ॥
इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि प्रथमोऽनुवाकः ॥
अथ द्वितीयोऽनुवाकः ।
अथ होमार्थान्महाव्याहृतिसञ्ज्ञकान् मन्त्रानाह । $^{(१)}$“भूरग्नयं पृथिव्यै ॰ भूर्भुवः सुवरोम्”$^{(१)}$ इति । भूर्भुवः सुवरोमिति त्रीणि पदान्यव्ययानि तानि च व्यस्तरूपेण समस्तरूपेण च मन्त्रचतुष्टयरूपतां* प्रतिपाद्याग्न्यादिदेवताप्रतिपादकानि । तथा सत्ययमर्थः सम्पद्यते । 'भूः', इत्यनेन मन्त्रेण प्रतिपाद्याग्नये, तन्मन्त्र-
* चतुष्टयपरतामिति Q चिह्नितपुस्तकपाठः ।
5 D
| ७८२ | तैत्तिरीये आरण्यके |
|---|
म॑से दि॒ग्भ्यः स्वाहा॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुवः॒ सुव॒रोम्$^{(१)\ *}$ ॥ अनु० $^{\dagger}२$ ॥
प्रतिपाद्यायै 'पृथिव्यै', च 'स्वाहा' सुहुतमिदं द्रव्यमस्तु इति । एवमुत्तरेष्वपि त्रिषु मन्त्रेषु योज्यं । अत्र द्रव्यविशेषस्यानुक्तत्वात् सर्वहोमसाधारणमाज्यमेव द्रव्यमित्यवगन्तव्यम् । फलविशेषस्यानुक्तत्वात् पापक्षयोऽत्रसाधारणं फलं द्रष्टव्यं$^{\ddagger}$ । 'चतुर्भिर्मन्त्रैर्यथाशक्ति हुत्वा अन्ते प्राङ्मुखः 'नमो देवेभ्यः', इति मन्त्रेणोप-तिष्ठेत । पश्चाद्दक्षिणाभिमुखः 'स्वधा पितृभ्यः', इति मन्त्रेणोप-तिष्ठते । 'स्वधा'शब्दः पितृप्रियं नमस्काराद्युपचारं ब्रूते । 'भूर्भुवः सुवः', इति लोकत्रयेऽपि पापरहितो भवामि । 'ॐ' इत्ययं शब्दः अङ्गीकारवाचित्वात् तत्र तत्रोचितार्थाङ्गीकारं प्रतिपादयति । नारायणाख्येनेश्वरेण मुनिना वा दृष्टत्वादयं प्रपाठको नारायणीयः ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि द्वितीयोऽनुवाकः ॥
$^*$ सुवरन्न ओम् इति B, J, N, O चिह्नितपुस्तकचतुष्टयपाठः ।
$^{\dagger}$ अस्मल्लब्धेषु चतुर्षु मूलपुस्तकेषु भूरग्नये पृथिव्यै इत्यनुवाकस्तृतीयत्वेन परिगणितः । परन्तु भाष्यकारेणायमनुवाको द्वितीयत्वेन परिगृहीतः ।
$^{\ddagger}$ घृतं पापक्षयोऽत्र साधारणं फलमिति Q चिह्नितपुस्तकपाठः ।