भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 809, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 809

७६८ तैत्तिरीये आरण्यके

शम॒स्तपो॒ दानं॒ तपो॒ यज्ञं॒ तपो॒ भूर्भुव॒: सुव॒र्ब्रह्मै॒तदुपा॑- स्वै॒तत्तप॑:⁽१⁾ ॥ अनु० ८ ॥


अथाष्टमोऽनुवाकः ।

अथ ज्ञानसाधनं यत्तपश्चित्तैकाग्र्यमस्ति “मनसश्चेन्द्रियाणाञ्च ह्येकाग्र्यं परमन्तपः” इति श्रुतेः । तत्तपः श्रौतस्मार्तसर्वकर्मस्वरूपतया प्रशंसति । यद्वा । तथाविधतपःसिद्धयर्थं जप्यं मन्त्रमाह । ⁽१⁾“ऋतं तपः सत्यन्तपः ० ब्रह्मैतदुपास्वैतत्तपः”⁽१⁾ इति । ‘ऋतं’ मनसा यथार्थवस्तुचिन्तनं, ‘सत्यं’ वाचा यथार्थभाषणं । ‘श्रुतं’ वेदस्य पूर्वोत्तरभागार्थावबोधायोभयोर्मीमांसयोः श्रवणं । ‘शान्तं’ शान्तिः बाह्येन्द्रियाभ्यन्तरेन्द्रियोपरतिः । ‘दानं’ धनेषु स्वत्वनिवृत्तिः परस्वत्वापादनपर्यन्ता । ‘यज्ञः’ अग्निहोत्रादिः। तदेतत्सर्वमर्वाचीनं ‘तपः’ भूरादिलोकत्रयात्मकं विराड्देहरूपं । यत् ‘ब्रह्म’, अस्ति, हे मुमुक्षो ‘एतत्’ ब्रह्म, ‘उपास्व’ विजातीयप्रत्ययरहितं सजातीयप्रत्ययप्रवाहं कुरु, तत् ‘एतत्’ उपासनं, उत्तमं ‘तपः’ ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामपनिषदि अष्टमोऽनुवाकः ॥