तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 810, कुल 940 में से
संदर्भ में पढ़ें१० प्रपाठके ६ अनुवाकः । ७६६
अथ नवमोऽनुवाकः ।
(१)यथा॑ वृ॒क्षस्य॑ सम्पु॒ष्पित॑स्य दू॒राद्ग॒न्धो वा॑त्ये॒वं पु॒ण्यस्य॑ क॒र्मणो॑. दू॒राद्ग॒न्धो वा॑ति॒ यथा॑सिधा॒रां क॒-
अथ नवमोऽनुवाकः ।
अथ विहितानुष्ठानरूपं पुण्यं ज्ञानसाधनतया प्रशंसति । निषिद्धाचरणं* ज्ञानप्रतिबन्धकतया निन्दति । (१)“यथा वृक्षस्य सम्पुष्पितस्य ० आत्मानं जुगुप्सेत्”(१) इति । लोके ‘वृक्षस्य’ उद्यानादौ स्थितस्य चम्पकपाटलकेतकीपुन्नागादेः, ‘सम्पुष्पितस्य’ सम्यग्विकसितपुष्पोपेतस्य, यः ‘गन्धः’ सुरभिः, अस्ति, सोऽयं ‘दूरात्’ देशात्, ‘वाति’ वायुना सहागच्छति । ‘एवं’, पुण्यकर्मणः, ज्योतिष्टोमादेः, सत्कीर्त्तिः सुगन्धसमाना ‘दूरात् वाति’ मनुष्यलोकात् स्वर्गे गच्छति, तस्मात् पुण्यमनुष्ठेयं । अथ पापस्य दृष्टान्त उच्यते । ‘यथा’, लोके राजा अमात्यादीनां विनोदाय प्रवृत्तः वंशाग्रनृत्तादिदुर्धटव्यापारेष्वत्यन्तकुशलमनाः कश्चिद् ‘कर्त्ते’ कूपादावगाधे कस्मिंश्चिद्गर्त्तविशेषे, ‘अविचितां’ प्रसारितां, ‘असिधारां’ खड्गधारां, ‘अवक्रामेत्’ पादाभ्यां धाराया उपरि गन्तुं प्रवर्त्तते । तदानीमसौ मनस्येवं विचारयति, ‘यत्’ यदि, ‘युवे ह्रुवे’ हकारो व्यत्ययेन यकारस्थाने पठितः, अतएव केचिद् युवे युवे इति पठन्ति,—यौमि यौमि पुनः पुनः पादमसिधारया मिश्रयामीत्यर्थः । तदानीमहं ‘विह्वयिष्यामि’, ‘कर्त्ते
* निषिद्धाचरणरूपन्तु इति F चिह्नितपुस्तकपाठः ।
5 E