तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 811, कुल 940 में से
संदर्भ में पढ़ें८०० तैत्तिरीये आरण्यके
तैंड्वेहि॑तामव॒क्रामे॑द्यद्यु॒वे यु॒वे* ह॒ वा वि॒ह्लदि॑ष्यामि क॒र्त्तं
प॑ति॒ष्यामीत्ये॑वम॒नृता॑दा॒त्मानं॑ जुगु॒प्सेत॑⁽१⁾ ॥ अनु० ९ ॥
अथ दशमोऽनुवाकः ।
⁽१⁾अ॒णोरणी॑यान्मह॒तो मही॑याना॒त्मा गुहा॑यां नि-
वा पतिष्यामि', अहमित्येतमर्थं 'ह'शब्दो ब्रूते । लकारस्थाने व्यत्ययेन दकारः । असिधारायां पादस्य दृढस्पर्शे पादच्छेदेनाहं विह्वलतो विवशो भविष्यामि, दृढस्पर्शाभावे त्वधोवर्त्तिन्यगाधे गर्त्ते पतिष्यामि, 'इति एवं', पापे वर्त्तमानः पुरुषः विचारयेत् । यदि पापं प्रकटं कुर्य्यां तदानीमिह लोके निन्दितो भविष्यामि, तत्परिहाराय अप्रकटं कुर्य्यां, तदापि नरके पतिष्यामीति, ईदृग्विचारयुक्तः पुरुषः 'अनृतात्' पापात्, 'आत्मानं', 'जुगुप्सेत' धिङ् मां लोकद्वयभ्रंशहेतुमिति† निन्दित्वा पापात् निवारयेत् ॥
इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि नवमोऽनुवाकः ॥
इति प्रथमखण्डः समाप्तः ॥
अथ दशमोऽनुवाकः ।
यथोक्तप्रशंसोपेहपुण्यानुष्ठानेन निषिद्धाचरणवर्जितेन शुद्धान्तःकरणस्य पुरुषस्य तत्त्वमुपदेष्टुमयममुवाक आरभ्यते । तत्र प्रथ-
* युवे युवे इति B, J, I, N, O, Q चिह्नितपुस्तकपाठः ।
† नाशहेतुमिति E चिह्नितपुस्तकपाठः ।