भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 812, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 812

१० प्रपाठके १० अनुवाकः । ८०१

हि॑तोऽस्य॒ जन्तोः॑ । तम॑क्रतुं पश्यति वी॒तशो॑को धा॒तुः प्र॒सादा॑न्महि॒मान॑मीशं॑^(१) । ^(२)स॒प्त प्रा॒णाः प्र॒भव॑न्ति॒ तस्मा॑त्


माम्त्रचमाह । ^(१)“अणोरणीयान्महतः ० प्रसादान्महिमान- मीशं”^(१) इति । सच्चिदानन्दैकरसः परमेश्वरः सर्वाधिष्ठत्वेन* सर्वस्य जगतः स्वरूपत्वादात्मशब्देनोच्यते । आत्मशब्दस्य स्वरूप- वाचीति प्रसिद्धं । मायाकार्यभूते लौकिकव्यवहारे सूक्ष्मत्वेन प्रसिद्धः, परमाणुद्द्यणुकादिरणुशब्दवाच्यः । तस्मादप्ययमात्मा अतिशयेन सर्वसूक्ष्मत्वात् ‘अणीयान्’ आकाशादिगादयः परि- माणाधिक्यवाल्लोके महत्छब्दवाच्याः । ततोऽप्ययं ‘आत्मा’, अतिशयेनाधिक्यत्वात् ‘महीयान्’ । परमाणुद्द्यणुकादीनां अस्म- दादिप्रत्यक्षगम्यत्वाभावेऽपि योगिजनचक्षुर्गम्यत्वमस्ति । तदप्या- त्मनो नास्तीत्यभिप्रेत्य अणीयस्त्वमुक्तं । आकाशादिगादीनामे- कब्रह्माण्डवर्त्तित्वात् तादृशब्रह्माण्डलक्षकोट्यधिष्ठानत्वमभिप्रेत्य महीयस्त्वमुक्तं । तादृशः परमात्मा ‘अस्य’ देवमनुष्यादिरू- पस्य, ‘जन्तोः’, ‘गुहायां निहितः’ । गुहाशब्देन हृदयपुण्डरी- कमध्यवर्त्तिनो बुद्धिरुच्यते । गुहूसंवरणे इत्यस्माद्धातोसत्पन्नो गुहाशब्दः । बुद्धिश्च हृदयपुण्डरीकेन संवृता तन्मध्यवर्त्तिनीत्वात् तस्यां बुद्धावस्य परमात्मनो निहितत्वं नाम विद्ययोपलभ्यमा- नत्वं, नतु बुद्धावाधेयत्वं । सर्वजगदाधारस्य तदसम्भवात् । ‘तं’ तथावस्थितं, ‘ईशं’, शमादिगुणयुक्तोऽधिकारी पुरुषः


* सर्वाधिष्ठानत्वेनेति ५ चिह्नितपुस्तकपाठः ।
5 E 2