तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 813, कुल 940 में से
संदर्भ में पढ़ें८०२ तैत्तिरीये आरण्यके
स॒प्तार्च्चिषः॑ स॒मिधः॑ स॒प्त जि॒ह्वाः । स॒प्त इ॒मे लो॒का येषु॑ चर॒न्ति प्रा॒णा गु॒हाश॑या॒न्निहि॑ताः स॒प्त स॑प्त^(२) ।
'पश्यति' साक्षात्करोति । स चाधिकारः 'धातुः प्रसादात्', उपजायते । धाता, जगतो विधाता परमेश्वरः, तस्य प्रसादः, अनुग्रहः । तथा च पूर्वाचार्य्यैरुक्तं । “ईश्वरानुग्रहादेषां पुंसा- मद्वैतवासना । महाभयकृतत्राणा द्वित्राणां यदि जायते”* इति । कीदृशमीशं, 'अक्रतुं' सङ्कल्परहितं, स्त्र्यन्नपानादिभोगजातं समी- चीनमतिसङ्कल्पनं जीवस्यैव न त्वीशस्य । सङ्कल्पहेतुभूतान्तःकर- णोपाधेरभावात् । अतो निरुपाधिकत्वात् 'महिमानं' अतिशयेन महान्तं । ईदृशं परमेश्वरं साक्षात्कृत्य 'वीतशोकः' जन्ममर- णादिशोकरहितो भवति ॥
द्वितीयामृचमाह । (२)“सप्त प्राणाः प्रभवन्ति ० निहिताः सप्त सप्त”^(२) इति । शुद्धान्तःकरणैर्ज्ञातव्यो यः परमात्मा उक्तः । तत्र शाखाचन्द्रन्यायेनोपलक्षणार्थं जगत्कारणत्वमुच्यते । 'तस्मात्' परमात्मनो मायाशक्तिविशिष्टात्, 'सप्त प्राणा प्रभवन्ति' । अन्यत्र सप्त वै शीर्षण्याः प्राणा† इत्युक्तत्वात् । शिरोवर्त्तिसप्तच्छिद्र- गताः सप्तसङ्ख्याकाश्चक्षुरादयः प्राणाः परमेश्वरादुत्पद्यन्ते । द्वे चक्षुषी, द्वे श्रोत्रे, द्वे नासिके, मुखमेकमिति सप्तत्वं । तेषां चक्षुरा- दीनां स्वस्वविषयप्रकाशनशक्तयः 'सप्तार्चिषः' । तैरर्चिभिर्गृह्य-
* द्वित्राणामेव जायते इति Q चिह्नितपुस्तकपाठः ।
† प्राणाः प्राणा इत्युक्तत्वात् इति F चिह्नितपुस्तकपाठः ।