भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 820, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 820

१० प्रपाठके १० अनुवाकः। ८०६

नाति॑ न॑ः। स॒वि॒तारं॑ नृ॒चक्ष॑सं^{(८)}। ^{(९)}अ॒द्या नो॑ दे॒व सवि॒तः प्र॒जाव॑त्सावी॒ः सौभ॑गं। परा॑ दु॒ष्ष्वप्रियँ॒ सुव॑^{(९)}। ^{(१०)}विश्वानि॑ दे॒व सवितु॒र्दुरि॒तानि॒ परा॑सुव॒। यद्भ॒द्रं तन्म॒ आसु॑व^{(१०)}। ^{(११)}मधु॒ वाता॑ ऋता-

अस्मदनुग्रहार्थं आङयामः । ‘नः’ अस्माकं तादृशानां, ‘कुवित्’ प्रभूतं तत्त्वज्ञानरूपं धनं, ‘वनाति’ सम्भजते, स परमेश्वरो ददातीत्यर्थः । कीदृशं विधातारं, ‘सवितारं’ अस्मद्बुद्धेः प्रेरकं। ‘नृचक्षसं’ नृणां मनुष्याणां अधिकारिणां आचार्यरूपेण तत्त्वविद्याप्रवक्तारं ॥

नवमीमृचमाह । ^{(९)}“अद्या नो देवसवितः ० दुष्ष्वप्रियँ सुव”^{(९)} इति । हे ‘सवितः’ प्रेरकदेव, ‘अद्य’ अस्मिन् दिने, ‘नः’ अस्माकं विद्यार्थिनां, ‘प्रजावत्’ शिष्यप्रशिष्यादिप्रजोपेतं, ‘सौभगं’ आचार्य्यरूपं भाग्यं, ‘सावीः’ प्रेरय, प्रयच्छेत्यर्थः । ‘दुष्ष्वप्रियं’ दुःस्वप्नसदृशं द्वैतप्रतिभासं, ‘परासुव’ निराकुरु ॥

दशमीमृचमाह । ^{(१०)}“विश्वानि देव ० तन्म आसुव”^{(१०)} इति । हे ‘सवितः’ प्रेरकदेव, ‘दुरितानि’ ज्ञानप्रतिबन्धकानि पापानि, ‘विश्वानि’ सर्वाणि, ‘परासुव’ पराकुरु । ‘भद्रं’ कल्याणं, असम्भावनाविपरीतभावनारहितं तत्त्वज्ञानं, ‘यत्’, अस्ति ‘तत्’, ‘मे’ मह्यं उपासकाय, ‘आसुव’ साकल्येन प्रयच्छ ॥

एकादशीमृचमाह । ^{(११)}“मधुवाता ऋतायते ० सन्त्वोषधी”^{(११)} इति । ‘ऋतायते’ ऋतं परं ब्रह्म तदिच्छति मह्यं,

5 F 2