तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 820, कुल 940 में से
संदर्भ में पढ़ें१० प्रपाठके १० अनुवाकः। ८०६
नाति॑ न॑ः। स॒वि॒तारं॑ नृ॒चक्ष॑सं^{(८)}। ^{(९)}अ॒द्या नो॑ दे॒व सवि॒तः प्र॒जाव॑त्सावी॒ः सौभ॑गं। परा॑ दु॒ष्ष्वप्रियँ॒ सुव॑^{(९)}। ^{(१०)}विश्वानि॑ दे॒व सवितु॒र्दुरि॒तानि॒ परा॑सुव॒। यद्भ॒द्रं तन्म॒ आसु॑व^{(१०)}। ^{(११)}मधु॒ वाता॑ ऋता-
अस्मदनुग्रहार्थं आङयामः । ‘नः’ अस्माकं तादृशानां, ‘कुवित्’ प्रभूतं तत्त्वज्ञानरूपं धनं, ‘वनाति’ सम्भजते, स परमेश्वरो ददातीत्यर्थः । कीदृशं विधातारं, ‘सवितारं’ अस्मद्बुद्धेः प्रेरकं। ‘नृचक्षसं’ नृणां मनुष्याणां अधिकारिणां आचार्यरूपेण तत्त्वविद्याप्रवक्तारं ॥
नवमीमृचमाह । ^{(९)}“अद्या नो देवसवितः ० दुष्ष्वप्रियँ सुव”^{(९)} इति । हे ‘सवितः’ प्रेरकदेव, ‘अद्य’ अस्मिन् दिने, ‘नः’ अस्माकं विद्यार्थिनां, ‘प्रजावत्’ शिष्यप्रशिष्यादिप्रजोपेतं, ‘सौभगं’ आचार्य्यरूपं भाग्यं, ‘सावीः’ प्रेरय, प्रयच्छेत्यर्थः । ‘दुष्ष्वप्रियं’ दुःस्वप्नसदृशं द्वैतप्रतिभासं, ‘परासुव’ निराकुरु ॥
दशमीमृचमाह । ^{(१०)}“विश्वानि देव ० तन्म आसुव”^{(१०)} इति । हे ‘सवितः’ प्रेरकदेव, ‘दुरितानि’ ज्ञानप्रतिबन्धकानि पापानि, ‘विश्वानि’ सर्वाणि, ‘परासुव’ पराकुरु । ‘भद्रं’ कल्याणं, असम्भावनाविपरीतभावनारहितं तत्त्वज्ञानं, ‘यत्’, अस्ति ‘तत्’, ‘मे’ मह्यं उपासकाय, ‘आसुव’ साकल्येन प्रयच्छ ॥
एकादशीमृचमाह । ^{(११)}“मधुवाता ऋतायते ० सन्त्वोषधी”^{(११)} इति । ‘ऋतायते’ ऋतं परं ब्रह्म तदिच्छति मह्यं,
5 F 2