भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 834, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 834

१० प्रपाठके ११ अनुवाकः । ८२५

वि॒श्वं ना॒राय॒णꣳ ह॑रिं । वि॒श्वमे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति^(२) । ^(३)पतिं॒ विश्व॑स्या॒त्मेश्व॑रꣳ शाश्व॑तꣳ शि॒वम॑च्युतं । ना॒राय॒णं म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णं^(३) ।

शाखान्तरे मन्त्र आम्नातः । “इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हुः” इति । “न चरत्यचरं श्रुतः” इति वा, तस्याचरत्वं । कारणत्वेनोत्कर्षात् परत्वं । नियन्तुं समर्थत्वात् प्रभुत्वं ॥

द्वितीयामृचमाह । ^(२)“विश्वतः परं ० तद्विश्वमुपजीवति”^(२) । ‘विश्वतः’ जगतः जडवर्गात्, ‘परं’ उत्कृष्टं, ऋग्भेदेन पुनरुक्तिपरिहारो द्रष्टव्यः । स्तुतिरूपत्वादेनेन रूपेण ध्यातव्यत्वाच्च नास्ति पुनरुक्तिदोषः । विनाशरहितत्वान्नित्यत्वं । सर्वात्मकत्वादिश्वत्वं । नारायणत्वं पूर्वमेवोक्तं । पापस्य अज्ञानस्य च हरणाद्धरित्वं । यत् ‘इदं विश्वं’, इदानीं अज्ञानदृष्ट्या प्रदृश्यते तत् सर्वं वस्तु तत्त्वदृष्ट्या ‘पुरुषः’ परमात्मा ‘एव’ । स च परमात्मा ‘तद्विश्वं’, ‘उपजीवति’ स्वस्य व्यवहारार्थं आश्रयति ॥

तृतीयामृचमाह । ^(३)“पतिं विश्वस्य ० विश्वात्मानं परायणं”^(३) इति । ‘विश्वस्य’ जगतः, पालकत्वात् ‘पतिं’ । ‘आत्मनां’ जीवानां, नियामकत्वात् ‘ईश्वरं’ नियन्तारं । निरन्तरं वर्त्तमानत्वात् ‘शाश्वतं’ । परममङ्गलत्वात् ‘शिवं’ । न च्यवत इति ‘अच्युतं’ । नारायणत्वं पूर्वमुक्तं । ज्ञेयेषु तत्त्वेषु मध्ये प्रौढत्वात् ‘महाज्ञेयं’ । जगदुपादानत्वेन तदभेदात् ‘विश्वात्मत्वं’ । उत्कृष्टाधारत्वात्* ‘परायणत्वं’ । सर्वमप्यारोपितं जगदधिष्ठाने वर्त्तते ॥


* उत्कृष्टाधारकत्वमिति l' चिह्नितपुस्तकपाठः ।
5 II