तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 84, कुल 940 में से
संदर्भ में पढ़ें१ प्रपाठके १० अनुवाकः। ७६
ये^(९) । ^{(१०)}अन्वे॑ति॒ परिवृ॒त्याऽस्त॑: । ए॒वमे॒तौ स्थो॑ अ॒श्वि-
ना॑ । ते ए॒ते द्या॑पृथि॒व्योः । अह॑रह॒र्गर्भं॑ दधाथे^{(१०)}
॥ ४ ॥
रक्षिता धृत इति 'अत्येतः' । अश्वामि द्यावस्यामिरभि नरोमीत्यश्व-
नामस्वत्यशब्द आम्नातः । आदित्यो ह्यश्वैः स्वकीयरथे स्थितः।
'सः' आदित्यः, 'तत्' तदा, 'गोभिः' वृष्ट्या परितुष्टानां प्रा-
णिनां वाग्भिः, 'स्तवा' स्तूयमानः सन्, 'अन्ये' अन्यान् देवान्,
'अत्येति' अतिक्रामति, सर्वदेवाधिकत्वेन भासत इत्यर्थः । ये
च दिव्या जनाः 'रक्षसा' रक्षसो जात्या, 'अनन्विताः' असं-
बद्धाः, देवपक्षपातिभिः सर्वैः स्तूयत इति शेषः ॥
अथ द्वितीयामाह । ^{(१०)}“अन्वेति ० गर्भं दधाथे”^{(१०)}
इति । 'अस्तः' क्षिप्तः, आदित्येन प्रेरितो मेघः, 'परिवृत्य' पुन-
रपि वृष्ट्यर्थं पर्यागत्य, 'अन्वेति' आनुकूल्येन गच्छति, वर्षती-
त्यर्थः । हे 'अश्विना', 'ते एते' यथोक्तवृष्टियुक्ते द्यावापृथिव्यौ
ये विद्येते, तयोः 'एवं' उक्तेन प्रकारेण, उपकुर्वन्तौ 'एतौ' युवां,
'स्थः' वर्त्तेथे । कथमुपकार इति तदेव स्पष्टीक्रियते । 'द्युः-
पृथिव्योः' द्यावापृथिव्योः, 'अहरहः', प्रतिदिनं, 'गर्भं दधाथे'
जलद्वारा तत्तत्प्राण्युत्पत्तिबीजं सम्पादयथः । एवमेताभ्यां
मन्त्राभ्यामिष्टके उपदध्यात् ॥
अतः परं ब्राह्मणवाक्यमुच्यते । तत्र द्यावापृथिव्यो बहुधा