भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 85, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 85

८० तैत्तिरीये आरण्यके

(११)तयो॑रे॒तौ व॒त्साव॑होरा॒त्रे । पृ॒थि॒व्या अह॑: । दि॒वो रात्रि॑: । ता अ॑विसृ॒ष्टौ । दम्प॑ती ए॒व भ॑वतः^(११) ।
(१२)तयो॑रे॒तौ व॒त्सौ । अ॒ग्निश्चा॑दि॒त्यश्च॑ । रा॒त्रेर्वत्स॑: । श्वे॒त आ॑दि॒त्यः । अ॒ह्नो॒ग्निः ॥ ५ ॥
ता॒म्रो अ॑रु॒णः । ता अ॑विसृ॒ष्टौ । दम्प॑ती ए॒व भ॑वतः^(१२) ।


प्रशंस्येते । तत्रैकां प्रशंसामाह । ^(११)“तयोरेतौ ० एव भवतः” ^(११)इति । ‘तयोः’ द्यावापृथिव्योः, ‘एतौ’ अहोरात्ररूपौ कालौ, वत्सस्थानीयौ, तत्रोत्पन्नत्वात् । तयोर्मध्ये ‘पृथिव्याः’ गोस्थानीयायाः, ‘अहः’, वत्सस्थानीयं, ‘दिवः’, च ‘रात्रिः’, च वत्सस्थानीया । प्रशंसारूपत्वान्नच विभागे कारणमन्वेष्टव्यं । ‘तौ’ एतावहोरात्ररूपौ वत्सौ, परस्परम् ‘अविसृष्टौ दम्पती एव भवतः’ इति ॥

अथ द्वितीयां प्रशंसामाह । ^(१२)“तयोरेतौ ० एव भवतः” ^(१२) इति । ‘तयोः’ द्यावापृथिव्योः, यौ वत्सौ अहोरात्ररूपौ पूर्वमुक्तौ, तयोरहोरात्रयोरग्न्यादित्यो वत्सौ, योयं ‘श्वेत आदित्यः’, रात्रेर्वत्सस्थानीयः, रात्रेः परभागे तदाविर्भावात् । योयं ‘ताम्रो अरुणः’, च अग्नी ईषद्रक्तस्ताम्रः, अत्यन्तरक्तः अरुणः, सोयमह्नो वत्सस्थानीयः, अह्नि पाकार्थ्यमग्निः प्राणिभिः प्रज्वाल्यते । अन्यत् पूर्ववत् ॥