तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 87, कुल 940 में से
संदर्भ में पढ़ें८२ तैत्तिरीये आरण्यके
य॒था गोर्गर्भिण्या॒ उल्बं॑ । ए॒वमे॒तस्या॑ उल्बं॑(१५) । (१६)प्र॒ज॒यि॒ष्णुः प्र॒जया॑ च प॒शुभि॑श्च भ॒वति॑ । य ए॒वं वेद॑ । ए॒तमुद्य॑न्तमपि॒ यंत॑ञ्चेति॑ । आ॒दि॒त्यः पु॒ण्य॑स्य व॒त्सः(१६) । (१७)अथ॑ प॒वित्रा॒ङ्गिर॑सः(१७) ॥ ७ ॥
स्थो, पौद॑काभि, वैशी, दधाथे, अ॒ग्नि, स्तयौरे॑ता, व॒त्सौ, भ॒वति॑ च॒त्वारि॑ च ॥ अनु० १० ॥
अत एव रात्रावादित्यो नास्माभिर्दृश्यते । आदित्यस्य रश्मय उल्बणस्थानीयाः। 'यथा', लोके, 'गर्भिण्या गोः', उल्बो गर्भेण सहार्न्तवर्त्तते । 'एवं', आदित्यस्य 'रश्मयः', अपि 'रात्रौ', आदित्येन सहावस्थितत्वान्नास्माभिर्दृश्यन्ते ॥
यथोक्तरात्रादित्ययोर्वेदनं प्रशंसति । (१६)“प्रजयिष्णुः पुण्यस्य वत्सः”(१६) इति । 'यः', रात्रिमाहात्म्यं, 'वेद', सोयं प्रजापशूत्पादकः, 'भवति', । आदित्यमहिमावेदनात् उदयास्तमययुक्तमादित्यं प्राप्नोति । उदयस्थानेऽस्तमयस्थाने च स्वेच्छया गन्तुं समर्थो भवति, किन्त्वादित्यवत्, 'पुण्यस्य वत्सः' धर्मदेवतापुत्रः, भवति ॥
वक्ष्यमाणानुवाकतात्पर्यं सङ्गृह्य दर्शयति । (१७)“अथ पवित्राङ्गिरसः”(१७)इति । संयानीष्टकामन्त्रकथनादनन्तरं पवित्रभूता अङ्गिरोनामाङ्किता इष्टकामन्त्रा वक्ष्यन्त इति शेषः ॥
इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके प्रथमप्रपाठके दशमोऽनुवाकः ॥ १० ॥