भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 899, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 899

८८८ तैत्तिरीये आरण्यके

वरूथं॒ दक्षि॑णा लो॒के दा॒तार॑ꣳ सर्वभू॒तान्यु॑पजी॒व-
न्ति॒ दाने॑नाराती॒रपा॑नुदन्त॒ दाने॑न द्विष॒न्तो मि॒त्रा
भ॑वन्ति॒ दाने॒ सर्वं॒ प्रति॑ष्ठितं॒ तस्मा᳭द्दानं पर॒मं व-
द॑न्ति॥(६)॥ ^{(७)}धर्मो विश्व॑स्य॒ जग॑तः प्रति॒ष्ठा लो॒के धर्मि॑ष्ठं
प्र॒जा उप॑सर्पन्ति॒ धर्मे॑ण पा॒पम॑प॒नुद॑न्ति॒ धर्मे॒ सर्वं॒
प्रति॑ष्ठितं॒ तस्मा᳭द्धर्मं पर॒मं वद॑न्ति॥(७)॥ ^{(८)}प्र॒जन॑नं॒ वै


पञ्चमं साधनमाह। ^{(६)}“दानं यज्ञानां ० परमं वद-
न्ति”^{(६)} इति। गोहिरण्यादि‘दानं’, ‘यज्ञानां’, सम्बन्धिनो
‘दक्षिणा’, भवति। तस्मात् ‘वरूथं’ श्रेष्ठं, ‘लोके’, अपि ‘दातारं’
पुरुषं, वेदशास्त्रविदो मूढाश्च सर्वेऽपि पुरुषाः ‘उपजीवन्ति’।
तथा योद्धॄणां भटानां धनदानेन ‘अरातीः’ शत्रून्, ‘अपानुदन्त’
राजानो निराकृतवन्तः। ये तु प्रबलाः ‘द्विषन्तः’, तेऽपि ‘दानेन’,
तुष्टाः ‘मित्राः’, ‘भवन्ति’। अन्यत् पूर्ववत्॥

षष्ठं साधनमाह। ^{(७)}‘धर्मो विश्वस्य जगतः ० धर्मं परमं
वदन्ति’^{(७)} इति। तडागप्रपादिनिर्माणरूपः ‘धर्मः’, ‘विश्वस्य
जगतः’ सर्वस्य प्राणिजातस्य, ‘प्रतिष्ठा’ आश्रयः, इत्येतत्प्रसिद्धं।
तथा ‘लोके’, ‘धर्मिष्ठं’ अतिशयेन धर्मे वर्तमानं पुरुषं, ‘प्रजाः’,
सर्वाः, ‘उपसर्पन्ति’ धर्माधर्मनिर्णयार्थमुपगच्छन्ति। किञ्च
प्रायश्चित्तरूपेण ‘धर्मेण’, ‘पापं’, विनाशयन्ति। अन्यत् पूर्ववत्॥

सप्तमं साधनमाह। ^{(८)}“प्रजननं वै प्रतिष्ठा ० परमं प्रजननं