तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 915, कुल 940 में से
संदर्भ में पढ़ें६०६ तैत्तिरीये आरण्यके
स्या॒नि य ऋ॒तव॒स्ते प॑शु॒बन्धा ये सं॑वत्स॒राश्च॑ परिवत्स॒राश्च॒ तेऽह॑र्ग॒णाः स॑र्ववेद॒सं वा ए॒तत्त्स॒त्रं यन्म॑र॒णन्तद॑वभृ॒थः^(३)। । ^(४)ए॒तद्वै ज॑रामर्यम॒ग्निहो॒त्रꣳ स॒त्रं य ए॒वं वि॒द्वानु॑दगय॑ने प्रमीय॑ते दे॒वाना॑मे॒व म॑हि॒मानं॑ ग॒त्वा-
'संवत्सरपरिवत्सरेदावत्सरानुवत्सरेद्वत्सरसञ्ज्ञका द्रष्टव्याः। तथाच कालनिर्णये सङ्ग्रहकारेणोदाहृतं,
“चान्द्राणां प्रभवादीनां पञ्चके पञ्चके युगे।
सम्परीदान्विदिव्येतच्छब्दपूर्वास्तु वत्सराः” इति ॥
'अहर्गणाः' द्विरात्रत्रिरात्रादयः, 'सर्ववेदसं' सर्वस्वदक्षिणकं। अत्र 'एतच्छब्देन प्रकृताहोरात्रादिपरिवत्सरान्तसर्वकालसमुपलक्षितं योगिन आयुर्विवक्ष्यते। 'यत्' आयुः, तत्सर्वदक्षिणेापेतं, 'सत्रं', इत्यर्थः॥
अस्थानुवाकस्य चतुर्थभागेन सर्वयज्ञात्मकं* योगिन उपासीनस्य कर्ममुक्तिलक्षणं† फलमाह। ^(४)“एतद्वै जरामर्यमग्निहोत्रꣳ ० महिमानमित्युपनिषत्”^(४) इति। जननमरणावधिकं यद्योगिचरितमस्ति तत् 'एतत्', वेदोक्ताग्निहोत्रादिसंवत्सरसत्रान्तकर्मस्वरूपं, इति 'एवं', 'यः' पुमान्, 'विद्वान्' उपासीनः, उत्तरायणे
* सर्वयज्ञात्मकमिति Q, चिह्नितपुस्तकपाठः।
† क्रममुक्तिलक्षणमिति F चिह्नितपुस्तकपाठः।