भारतकोश
तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

पृष्ठ 94, कुल 940 में से

संदर्भ में पढ़ें
पृष्ठ 94

१ प्रपाठके ११ अनुवाकः ॥ ८६

यजे॒ यक्षि॒ यष्टा॒हे च॑⁽१०⁾ । ⁽११⁾मया॑ भू॒तान्य॑यक्षत । प॒शवो॒ मम॑ भू॒तानि॑ । अनुबन्ध्योऽस्म्य॒हं विभुः॑⁽११⁾ ।

मात्रमेव न तु वास्तवः कश्चिद्विकारोऽस्तीति तस्यार्थः । देवतिर्यङ्मनुष्यादिशरीरभेदस्य तत्तन्नामव्यतिरेकेण वास्तवत्वाभावे सति किं तद्वास्तवं स्वरूपमिति चेत् तदुच्यते, सर्वेष्वपि वस्तुषु यदनुगतं सर्वाधिष्ठानकारणरूपं ब्रह्म तदेव ब्रह्मविदो वास्तवं स्वरूपमित्यभिधीयते । लोके यत् 'नपुंसकं' शरीरं, यश्च 'पुमान्', या च 'स्त्री', तत् सर्वमहमेव 'अस्मि' । यश्च 'स्थावरः' वृक्षादिः, योऽपि 'जङ्गमः' मनुष्यपश्वादिः, तदुभयमप्यहमेव 'अस्मि' । तथा वर्त्तमानयजमानरूपेण 'यजे' याजनं करोमि, अतीतयजमानरूपेण 'यक्षि' यागं कृतवानस्मि, भविष्यद्यजमानरूपेण 'यष्टा' यागं करिष्यामि । सर्ववस्तुष्वनुगतं सच्चिदानन्दरूपमेकाकारं यद्ब्रह्म वस्तु तदेवाहमित्येवं स्वानुभावो मन्त्रदर्शिना प्रकटीकृतः ॥

अथ षष्ठीमाह । ⁽११⁾"मया भूतानि ० अनुबन्ध्योऽस्म्यहं विभुः"⁽११⁾ इति । 'मया' मद्रूपेणैव, 'भूतानि' सर्वे प्राणिनः, 'अयक्षत' यागं कृतवन्तः, अहमेव यजमानशरीरेषु जीवरूपेण प्रविश्य तत्तं यागमकार्षमित्यर्थः । 'मम भूतानि' मया सृष्टत्वेन मदीयानि पृथिव्यादीनि पञ्च भूतानि, 'पशवः' द्विपादैश्चतुष्पादैः सम्पन्नाः, 'अहं', ब्रह्मचैतन्यरूपेण 'विभुः' व्याप्त एव सन्, 'अनुबन्ध्योऽस्मि' तत्तच्छरीरेषु प्रविश्य तदात्मत्वाभिमानं कृत्वा अनुबन्ध्यवान् सम्बन्धवानस्मि ॥