तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
पृष्ठ 95, कुल 940 में से
संदर्भ में पढ़ें६० तैत्तिरीये आरण्यके
(२१)स्त्रिय॑: स॒तीः । ता उ॑ मे पुं॒स आ॑हुः । पश्य॑दक्ष॒ण्वान्न विचे॑तद॒न्धः । क॒विर्यः पु॒त्रः स इ॒माः चि॑केत ॥ ४ ॥
अथ सप्तमीमाह । (१९)“स्त्रियः सतीः ० सवितुः पितासत्”(१२) इति । या लोकप्रसिद्धाः 'स्त्रियः', 'सतीः' सद्रूपाः, गुरुकटाक्षेण सदेव सोम्येदमग्र आसीदित्यादिश्रुत्युक्तं सद्वस्तुबुद्ध्वा तदनुभवेन तद्रूपा वर्त्तन्ते । 'ता उ' ता अपि स्त्रियः, 'मे', मते 'पुंस आहुः' ब्रह्मविदः पुरुषान् कथयन्ति । यद्यपि शरीरे स्तनवृद्ध्यादि स्त्रीलक्षणं दृश्यते, तथापि पुरुषस्योचितं तत्त्वज्ञानमस्तीति पुरुषलक्षणसद्भावात् पुरुषत्वं तासामभिज्ञाः कथयन्ति । ये तु ते तु शरीरे श्मश्रुप्रभृतिभिः पुरुषलक्षणैर्युक्ता अपि पुरुषस्योचितं तत्त्वज्ञानं न सम्पादयन्ति, ते स्त्रीणामुचितेन मोहेनोपेतत्वात् स्त्रिय एवेत्यभिप्रायः । यथा स्त्रीपुरुषविभागो लोकविपरीतः, एवमक्षानक्षविभागोऽपि द्रष्टव्यः । 'अक्षण्वान्' चक्षुरिन्द्रिययुक्तः, 'पश्यन्' नीलपीतादिरूपं पश्यन्नपि, 'न विचेत्' विवेकेन सद्वस्तुतत्त्वं न जानाति चेत्, सोयम् 'अन्धः', एव । मांसदृष्टिरहितोऽपि स्वरूपतत्त्वाभिज्ञश्चेत् सोयं चक्षुष्मानैवेत्यपि द्रष्टव्यं । यथायमलौकिकाक्षानक्षविभागः, एवं पितृपुत्रविभागोप्यलौकिकः कश्चिद्द्रष्टव्यः । लोके यत्र पिता न जानाति, पुत्रस्तु 'कविः' वेदशास्त्रपारङ्गतः, तत्र 'स पुत्रः', 'इमाः' एतानि दृश्यमानानि सर्वाणि भूतानि, विवेकेन स्वात्मत्वेन जानाति,