तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 11, कुल 345 में से
संदर्भ में पढ़ेंii तैत्तिरीयब्राह्मणं विधिश्चार्थवादश्च इति प्रमुखतया वर्णितास्तत्र। विधिरिति पदेन वेदप्रतिपाद्य नियमानां कृत्यानां चापि प्रतिपादनम् प्रतिपालनं च विश्लेषितं ब्राह्मणग्रन्थेषु। मन्त्रव्याख्यानमाख्यानानामुपबृंहनं दार्शनिकविचारसमीक्षणम् च सर्वमत्र विद्यते। अर्थवादे च मन्त्राणां व्याख्यानं मतमतान्तराणामुल्लेखः सम्यक् मीमांसा च परिदृश्यते। वैदिकानां कृत्यानां फलश्रुति महत्त्वमिष्टसंपादनं, अनिष्टनिरसनम्, निषिद्ध निषेधनमादय प्रतिपाद्यन्ते। अर्थवादेन, प्रशंसा, निन्दा, विनियोगो निरुक्तिश्च सर्वमपि गोचरी भवति। यथा -'सर्वस्मात् पाप्मनो निर्मुच्यते य एव विद्वानग्निहोत्रं जुहोति।"- इति ब्राह्मणेषु- आख्यानपरम्परा, उपाख्यानानि च प्राप्यन्ते। पुरुरवा- उर्वशी-कथा, जलौघसम्बन्धी मत्स्योपाख्यानं, शुनः शेपस्य कथा च वर्णिता भवन्ति। यज्ञीयविधे सार्थकतां परिशीलयन्तोपाख्यानानि चात्र वर्णिता सन्ति। लोकप्रियकथाश्रितानि पौराणिकानि आख्यानानि च बहूनि समुपलभ्यन्ते। पुराणमिति पदेन च व्यवह्रियन्ते। सृष्टे प्रक्रिया यज्ञस्वरूपं लोकप्रियं कथानकं परिवार-सस्नेहत्वं, समाजकल्याणं चापि वर्णितम्। तैत्तिरीयब्राह्मणं नाम कृष्णयजुर्वेदस्य ब्राह्मणग्रन्थः समग्ररूपेणोपलभ्यते। शतपथब्राह्मणवत् ब्राह्मणस्यास्य पाठः स्वराङ्कितः प्राप्यते। अनेनास्य ग्रन्थस्य प्राचीनत्वं सिध्यति। ग्रन्थस्यास्य विभाजनं त्रिषु काण्डेषु भवति प्रथमद्वितीयकाण्डयोः अष्टौ-अष्टौ अध्यायाः प्रपाठका वा सन्ति। तृतीये काण्डे द्वादश अध्याया सन्ति। अवान्तरं विभाजनं अनुवाकेषु भवति। अनुवाकानां संख्या त्रिपञ्चाशतोत्तरं त्रिशतं प्राप्यते अद्य यावत् तैत्तिरीय ब्राह्मणस्य त्रीणि संस्करणानि मुद्रितानि सन्ति। १. प्रथमं तावत् कलिकातातः १८६२ तमे वर्षे श्रीराजेन्द्रलाल मित्रमहोदयेन सायणभाष्य सहितं सम्पादितमासीत्। २. द्वितीयं च आनन्दाश्रमपूनातः १९३४ तमे वर्षे प्रकाशितमभवत्। ३. तृतीयं संस्करणं महादेव शास्त्री महोदयेन सम्पादितम् भट्टभास्करभाष्य सहितं मैसूर नगरात् प्रकाशितमभवत्। ब्राह्मणेऽस्मिन् मानवजीवनस्य चतुर्विधमभ्युत्थानमेवमुदात्तरूपेण श्रेयः प्राप्तिनिमित्तं प्रशस्तमाचारदर्शनं वर्णितमस्ति। तैत्तिरीयब्राह्मणप्रवक्तरूपेण वैशम्पायनशिष्यस्य तित्तिरिमहोदयस्य प्रसिद्धिर्वर्त्तते। अनेनैव तैत्तिरीय ब्राह्मणमिति संज्ञा भवति। परम्परानुसारं ब्राह्मणस्यास्य प्रचारः प्रसारो नर्मदाया दक्षिणे तटे आन्ध्रप्रदेशे दरीदृश्यते। सर्वस्मिन् दक्षिणभारते तैत्तिरीयशाखायाः