भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 12, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 12

प्राक्कथनम् iii प्रसारत्वात् । सुप्रसिद्धो भाष्यकार सायणाचार्योऽपि सर्वप्रथमं ब्राह्मणग्रन्थेषु तैत्तिरीय ब्राह्मणमाश्रित्य भाष्यं रचितवान् । तस्य स्वकीया शाखापि तैत्तिरीय शाखाऽभवत् । तैत्तिरीयब्राह्मणे अध्वर्युकर्तृकानां यागकृत्यानां च सविस्तरं परिशीलनं विद्यते । सायणमहोदयः कथयति यत् तैत्तिरीयब्राह्मणे यज्ञशरीरस्य निर्मिति अध्वर्युना एवं ऋत्विग्मण्डलीद्वारा याजुषैः मन्त्रैः प्रक्रियाभिश्च क्रियते । एषा यागपद्धतिः यज्ञमीमांसा चातीव व्यापकरूपेण वरीवर्ति । ब्राह्मणस्यास्य प्रथमे काण्डे अग्न्याधानं, गवामयनं, वाजपेययागः, नक्षत्रेष्टिः राजसूयादियज्ञानां सविशेषं वर्णनं भवति । द्वितीये काण्डेऽग्निहोत्रं, उपहोमः, सौत्रामणियागस्तथा च बृहस्पतिसवः प्रभृतीनां निरूपणं भवति । तृतीयकाण्डे नक्षत्रेष्ट्य पुरुषमेधश्च समुपवर्णितः । ब्राह्मणेष्वन्येषु मुख्यतया सोमयागानां वर्चस्वं वरीवर्ति । परन्तु तैत्तिरीय ब्राह्मणे पशुयागानामिष्टिनां च विशदं विवेचनं विद्यते । नक्षत्रहोमः इष्टयश्च नाचिकेतस्य सावित्रस्य चयनञ्च कृष्णयजुर्वेदस्य वैशिष्ट्यं दरीदृश्यते । सर्वप्रथममग्न्याधानं विवेचितं यथा दर्शपूर्णमासस्यानुष्ठानं विनैवाग्न्याधानमसंभवम् । अग्न्याधानस्य कालमीमांसावसरे विशिष्टेषु नक्षत्रेषु ऋतुषु च देवयजनं समीचीनतया समुपवृंहितम् । कृष्णयजुर्वेदीयोऽनुष्ठाता रात्रौ गार्हपत्याग्नि प्रातःकाले चाहवनीयाग्नि समादधाति । नक्तं गार्हपत्यमादधाति । अधोदिते सूर्ये आहवनीयमादधाति ।' प्रथमकाण्डस्य प्रथमे प्रपाठके नवमेऽनुवाके ब्रह्मौदन-विधि विनिश्चिता । ओदनमिदं ब्राह्महोमाय ऋत्विजां भोजनार्थं च पच्यते । द्वितीयप्रपाठके गवामयनयागस्य वर्णनं प्रारभ्यते यतोहि ब्राह्मण वचनानुसारं यागेऽस्मिन् सकलाना मपि सोमयागानमन्तर्भावः भवति । द्वितीये काण्डे आख्यायिका माध्यमेनाग्नि- होत्रस्य विशदं निरूपणं जातम् । 'स एतद् भागधेयमभ्यजायत यदग्निहोत्रम् । (२।१।१२।५-६) ब्राह्मणे ऽस्मिन् उदितहोमस्य विधानं कृतमस्ति । उदिते सूर्ये प्रातर्जुहोति । सायंकाले चाग्निसूर्ययोः संसृष्ट-होमो विधीयते । गृहागतानामतिथिनां चान्नदानेन तृप्तिप्रदानं कर्तव्यम् । अनेन गृहस्य गृहपतेश्च निष्कृति संभवा । सायं यावानश्चवै देवाः प्रार्तर्यावाणश्चाग्निहोत्रिणो गृहमागच्छन्ति । तान्यन्नेण तर्पयेत् ।' (तै. व्रा. २।१।५।१०) अपराह्नकालो यागानुष्ठानादिनां कृते शुभङ्करो भवति इति विधानम् । यतोहि कालोऽयं कुमारीनां प्रसाधनसमयरूपेण निश्चितः । चतुर्थेऽनुवाके यागीयपात्रानां सविस्तरं विवरणं वर्त्तते विशेषतया च काष्ठमयानाम् । गवामयनसत्रस्य प्रथमं निरुपणमस्ति यतो हि विभिन्नानामेकान्हहोमानां अहीनयागेषु