भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 13, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 13

iv तैत्तिरीयब्राह्मणं चानुष्ठेयकृत्यानां पौनः-पुन्येन भवति आवृत्तिः । अनेन प्रकारेण गवामयन-यागस्य वर्णनात् सर्वेषामपि यागानां निरूपणं भवतीति । वाजपेययागनिरूपणप्रसंगे केचन अर्थवादात्मका प्रसंगा अतीवसुन्दररूपेण प्रस्थापिता आख्यानानि च दत्तानि । सोमश्च पुरुषरूपेण सुरा च स्त्रीरूपेण निरूपितौ । दुन्दुभिवादनं परमावाकरूपेण स्वीक्रियते । वाग्देव्या नादात्मक रुपंवा 'परमा वा एषा वाक या दुन्दुभी' । वैदिक विदुषां पुरुषमेधयागेन ध्यानाकृष्टमस्ति साम्प्रतिके युगे । पुरुषमेधस्य सविस्तारं विशिष्टं विवरणमस्मिन् ग्रन्थे प्राप्यते । यथाऽश्वमेधेऽश्वस्य संज्ञपनं विशसनं तस्यांगैः होमश्च विधीयते तथैव पुरुषमेधे पुरुषस्य संज्ञपनं, अगैंश्च होमः स्यात्, इत्याशंका भवति परं नैतत् सर्वं घटति अपितु पुरुषस्योपाकरणं देवानां समक्षे तदनतरं जीवन्तमेव पुरुषं संत्यजन्ति । नापि होमं; न विशसनं । ध्यानसमये पुरुषसूक्तस्य पठनं भवति । (१९८) अष्टनवत्यधिकशतसंख्यानां पुरुषानां विवरणं अत्र प्राप्यतेऽनेन च प्राचीनकालीनानां विभिन्नानां व्यवसायानामपि परिचयो जायते । यज्ञस्यानुष्ठाता सर्वस्वमुत्सृज्य वने गच्छति स्म । तैत्तिरीयब्राह्मणे राज्ञीनां ऋत्विजां च मध्ये 'अश्लीलं संभाषणादिकं अश्वमेध प्रसंगेन न भवति । यथान्यग्रन्थेषु एवं प्राप्यते सवानामकयागा एकान्हा वर्णिताः सन्ति । सूयते ईश्वरत्वेन अभिषिच्यते एष्विति सवा । दशहोत्राणामपि वर्णनं ब्राह्मणस्यास्य वैशिष्ट्यम् । द्वितीयकाण्डे उपहोमानां विधानमस्ति-ये श्रौताः स्मार्त्ताश्च स्वीकृता । सौत्रामणीनामकस्य पशुयागस्य विधि प्रदत्ता षष्ठे प्रपाठके । तृतीय काण्डे दशमे प्रपाठके सावित्रचयनं निरूपितम् पक्वेष्टिका निर्मितं स्थानविशेषं चयनं भवति । यागानां जटिलप्रक्रियामध्येऽपि ग्रन्थेऽस्मिन् काव्यसौष्ठवस्यावसरो लब्ध ऋषिणा । यागानामतीव विप्रकीर्णरूपेण वर्णनं लभ्यते येनास्थानन्तरं च एकादशे प्रपाठके सुप्रसिद्धं नचिकेतोपाख्यानं वर्णितम् । ग्रन्थेऽत्र पुरातनत्वं स्वीकृतं यागमीमांसाया फलप्राप्ते विशदं संर्वागसम्पन्न निरूपणं चास्ति । अत्र प्रतिपादितमस्ति यज्ञो हि मानवस्य सर्वस्वमस्ति प्रार्थ्यते च 'यज्ञो वर्धताम् यज्ञपरम्परा च वर्धताम्' । अयं यज्ञो वर्धतां गोभिरश्वैः इयं वेदि इयं वेदि स्वपत्या सुवीरा । इति तैत्तिरीय ब्राह्मणे बहूनि सुप्रसिद्धानि आख्यानानि उपाख्यानानि च वर्तन्ते । सर्वप्रसिद्धमेतेषु तृतीयकाण्डे दशमप्रपाठके भारद्वाजोपाख्यानं भवति । वेदां अनन्ता कथिताः । परमतत्वस्य च विवेचनमाध्यमेन ब्राह्मणमेतद् उपनिषद्वत् गौरवान्वितं भवति । नाचिकेतोपाख्यानं प्रह्लादोपाख्यानं अगस्त्योपाख्यानमुल्लेखनीयानि सन्ति । सीतोपाख्यानं सावित्र्युपाख्यानं उषोपाख्यानं च प्रणयाख्यायिका भवन्ति ग्रन्थस्यास्य रोचकतां परिवर्धयन्ति च । कतिपयाख्यानानि, यज्ञपरकानि,