भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 182, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 182

तैत्तिरीयब्राह्मणम् (१.३.८) १५३ नोऽस्मभ्यं प्रकर्षेण यच्छ धनं देहि । यस्मात्त्वमस्मत्स्वामी सन्नोंऽस्मभ्यं धनदा असि । अथ पञ्चमी । प्रणो॑ यच्छत्व॒र्यमा प्र भगः॒ प्र बृह॒स्पति॑: । प्र दे॒वाः प्रोत सूनृता॒ प्र वाग्दे॒वी द॑दातु नः, इति । षड्भिः प्रशब्दैः प्रयच्छत्विति प्रददात्वित्यन्वये सत्येतानि षड्वाक्यानि भवन्ति । अर्यमभगबृहस्पतयो देवेषुत्तमत्वाद्विप्रपरिव्रा- जकन्यायेन पृथङ् निर्दिश्यन्ते । तेभ्योऽन्ये त्वत्र देवशब्देनोच्यन्ते । ते सर्वे नोऽस्मभ्यं धनं प्रयच्छन्तु । उतापि च सूनृता प्रियवागभिमानिनी देवता या चान्यवाङ् मात्राभिमानिनी देवता ते उभे धनं प्रयच्छताम् । अथ षष्ठी- अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॑ दाना॑य चोदय । वाचं॒ विष्णुं॑ ँसरस्वतीं॑ स॒वितारं॑ च वा॒जिन॑म्, इति । हे ईश्वर पुनरस्मभ्यं दातुं धनस्य दानायार्यमादींश्चोदय प्रेरय । वाक्सरस्वत्योः पूर्वोक्तसूनृतावाचोरिव भेदो द्रष्टव्यः । वाजिनमन्नाधिपतिम् । अथ सप्तमी- सोमं॑ ँराजा॑नं॒ वरु॑णम॒ग्निमन्व॑ारभामहे । आ॒दि॒त्यान्विष्णुं॑ ँसूर्यं॒ ब्रह्माणं॑ च॒ बृह॒स्पति॑म्, इति । वयं सोमराजादीन्प्रथमत्तः कर्मारम्भकाननुसृत्य पश्चादारभामहेऽतस्ते सर्वेऽनुगृह्णन्तु विधत्ते - स॒प्तान्न॑हो॒माञ्जु॑होति । स॒प्त वा अन्ना॑नि । याव॑न्त्ये॒वान्ना॑नि । तान्ये॒वाव॑रुन्धे । स॒प्त ग्रा॒म्या ओष॑धयः । स॒प्ताऽऽर॒ण्याः॑ । उ॒भयी॑षा॒मव॑रुद्ध्यै, इति । अन्नहेतूनामोषधीनां सप्तत्वात्तत्कार्याणामन्नानामपि सप्तत्वम् । ओषधीनां सप्तत्वमापस्तम्बोऽग्निचयने दर्शयति-तिलमाषव्रीहियवाः प्रियङ्गवोऽणवो गोधूमा वेणुः श्यामाका नीवारा जर्तिलाश्च गवीधुका अरण्यजा मर्कटका विज्ञेया गार्मतसप्तमाः कुलत्थसप्तमा वा सप्त ग्राम्याः कृष्टे सप्ताऽऽरण्या अकृष्ट इति । एकैकस्यान्नस्य पृथगेव होमं विधत्ते- अन्न॑स्यान्नस्य जुहोति । अन्न॑स्यान्न॒स्याव॑रुद्ध्यै, इति । इयं पक्षमापस्तम्बो -दर्शयति-“वाजपसवीयं जुहोति सप्त ग्राम्या ओषधयः सप्ताऽऽरण्याः पृथगन्नानि द्रवीकृत्यौदुम्बरेण स्रुवेण वाजस्येमं प्रसवः सुषुव इति ग्राम्याणि हुत्वाऽऽरण्यानि जुहोति" इति ।