तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 183, कुल 345 में से
संदर्भ में पढ़ें१५४ (१.३.८) तैत्तिरीयब्राह्मणम् इदानीं बोधायनाभिमतं सर्वाण्येकीकृत्य होमं विधत्ते- यद्वा॑जपेयया॒ज्यन॑वरुद्धस्या॒श्नीया॑त् (१) । अवरु॑द्धेन व्यृ॑ध्येत । सर्व॑स्य सम॒वदा॑यं जुहोति । अन॑वरुद्धस्याव॑रुद्ध्यै, इति । होमकाले यदन्नमवरुद्धं स्वीकृतं तदुपेक्ष्य यदस्वीकृतं वाजपेययाजी कालान्तरेऽश्नीयात् । तदानीमुपेक्षितेन यागकालींनानन्नेनासौ वियुक्तो भवेदतः सर्वमेकीकृत्य होमे सर्वस्यापि यागकाले स्वीकृतत्वेन दोषापादकमस्वीकृतं किंचिन्न भवेदतोऽस्वीकृतस्य सर्वस्यापि यागकाले स्वीकाराय मिलित्वा होम इत्यर्थः । होमे साधनविशेषं विधत्ते- औदुम्बरेण स्रुवेण॑ जुहोति । ऊर्जा अन्नमुदुम्बरः॑ । ऊर्ज॑ ए॒वान्नाद्य॒स्याव॑रुद्ध्यै, इति । ऊर्जा अन्नं वहप्रदमेवान्नमत्त एव देशविशेषे बह्वद्यते । कल्पः-“अथ यजमानायतने कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमा ऽऽस्तृणाति तद्यजमानं प्राञ्चमुपवेश्य सुवर्णरजताभ्यां रुक्माभ्यां पर्युपास्य पुरस्तात्प्रत्यञ्चमभिषिञ्चति । शीर्षतोऽभिषिञ्चत्यामुखादन्ववस्त्रा- वयति । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्या॒ ऽ सर॑स्वत्यै वा॒चो य॒न्तुर्यन्त्रे॑णा॒ग्नेस्त्वा॒ सा॒म्राज्ये॑ना॒भिषि॑ञ्चामीन्द्र॑स्य त्वा बृह॒स्पते॑स्त्वा॒ सा॒म्राज्ये॑ना॒भिषि॑ञ्चामि इति । अत्रेन्द्रस्येत्यस्मिन्मध्यममन्त्रेऽ नुषङ्गसूचनायानाम्नातोऽपि त्वाशब्दः सूत्रकारेण पठितः । देवस्य त्वेत्यादिर्व्याख्यातः । या सरस्वती वाग्विशेष देवता या च वाक्शब्दाभिहिता वाक्सामान्यदेवता यश्चान्तर्यामी यन्तृशब्दवाच्यो योऽप्यग्निस्तेजप्रदस्तेषां यन्त्रेण नियमनेनानुज्ञया साम्राज्यनिमित्तं त्वामभिषिञ्चामि । इन्द्रस्येत्येतावानेवाऽऽम्नातो द्वितीयो मन्त्रः । स च पूर्वोत्तरभागयोरनुषङ्गेण व्याख्यातव्यः । बृहस्पतेरित्यादौ तृतीयमन्त्रे पूर्वभागोऽनुषञ्जनीयः । देवस्य त्वेत्येतस्मिन्मन्त्रभागे प्रसवपदाभिप्रायमाह-