तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 184, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् . (१.३.८) १५५ दे॒वस्य॑ त्वा सवि॒तुः प्रस॑व इत्या॑ह । स॒वि॒तृप्र॑सव ए॒वैनं॑ ब्रह्म॑णा दे॒वता॑भिर॒भिषि॑ञ्चति, इति । 'ब्रह्मणा मन्त्रेण प्रतिपाद्याभिरिति शेषः । सर्वौषधिरसमभिषेकद्रव्यत्वेन विधत्ते- अन्न॑स्यान्नस्यान॒भिषि॑ञ्चति । अन्न॑स्यान्नस्यान॒वरु॑द्ध्यै (२), इति । प्रकारविशेषं विधत्ते- पु॒रस्ता॑त्प्रत्य॒ञ्चम॒भिषि॑ञ्चति । पु॒रस्ता॒द्धि प्रती॑चीन॒मन्न॑म॒द्यते॑ । शीर्ष॒तोऽभिषि॑ञ्चति । शीर्ष॒तो ह्य॒न्न॑म॒द्यते॑, इति । आसपुटघातविषयवाक्यवद्व्याख्येयम् । गुणान्तरं विधत्ते- आमु॒खाद॒न्व॑वस्रावयति । मुख॑त ए॒वास्मा॒ अन्ना॒द्यं॑ दधाति, इति । शिरस आरभ्याऽऽनुलोम्येन मुखपर्यन्तमोवावस्रावयेन्नत्वधः। मन्त्रेष्वग्नीन्द्रबृहस्पतिशब्दतात्पर्यं व्याचष्टे- अ॒ग्ने॑स्त्व॒ साम्रा॑ज्ये॒नाभिषि॑ञ्चामीत्या॑ह । ए॒ष वा अ॒ग्नेः॑ स॒वः । तेनैवैन॑म॒भिषि॑ञ्चति । इन्द्र॑स्य त्वा॒ साम्रा॑ज्येनाभिषिँ॑ञ्चामीत्या॑ह (३) । इ॒न्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति । बृह॒स्पते॑स्त्व॒ साम्रा॑ज्ये॒नाभिषि॑ञ्चामीत्याहं । ब्रह्म॑ वै दे॒वानां॒ बृह॒स्पतिः॑ । ब्रह्म॑णैवैन॑म॒भिषि॑ञ्चति, इति । एष औषधिरसः । अग्नेः सवोऽग्निना प्रेरितः । अतोऽ ग्निशब्दमुच्चारयन्नग्निसंबन्धेन तेनैव रसनाभिषिञ्चति । एष वा इन्द्रस्य सवो बृहस्पतेः सब इत्यनुसंधेयम् । विधत्ते- सो॒म॒ग्र॒हा॒ ᳵ श्चा॑वदानी॒यानि॑ च॒र्त्विग्भ्य॒ उप॑हरन्ति ।