तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 266, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.५.५) २३७
नि॒वर्त॑ये । स॒त्येन॑ परि॑वर्तये । तप॑साऽस्या॒नु॑वर्तये । शि॒वेना॑स्योप॑वर्तये । श॒ग्मेना॑स्या॒भिव॑र्तये (३)। तदृ॒तं तत्स॒त्यम् । तद् व्र॒तं तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑ राध्यासम्, इति । पूर्ववद्व्याख्येयम् । पूर्ववद्वैश्वदेवान्ते श्मश्रूणामेव वपनं केशानां तु कर्तनम् । इह तु केशानां वपनकर्तने विकल्पिते । अथ साकमेधपर्वानन्तरभाविवपनमन्त्रौ- यो अ॑स्याः पृ॑थि॒व्यास्त्व॒चि । नि॒वर्त॑यत्योष॑धीः । अ॒ग्निरीशा॑न॒ ओज॑सा । वरु॑णो धी॒तिभिः॑ स॒ह । इन्द्रो॑ म॒रुद्भिः॒ सखि॑भिः स॒ह । कल्प-“पौर्णमास्येष्टोन्दनादिपूर्ववन्निवर्तनं सर्वं वा वापयेत् । मन्त्रादिर्विक्रियते-यो अस्याः पृथिव्यास्त्वचि निवर्तयत्योषधीरग्निरीशान ओजसा वरुणो धीतिभिः सहेन्द्रो मरुद्भिः सखिभिः सहाग्निस्तिग्मेनेति समानम्” इति । य आदित्योऽस्ति सोऽयं प्रजापतिसत्यवाक्येनास्याः पृथिव्यास्त्वच्युपरिभाग ओषधीर्निवर्तयति परिवापयति । अग्निरीशान इत्यादि पूर्ववद्व्याख्येयम् । मन्त्रस्तु- अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । तप॑ आक्रांन्तमुष्णिहा॑ (४) शिर॒स्तप॑स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना॑स्य॒ नि॒वर्त॑ये । स॒त्येन॑ परि॑वर्तये । तप॑साऽस्या॒नु॑वर्तये । शि॒वेना॑स्योप॑वर्तये । श॒ग्मेना॑स्या॒भिव॑र्तये तदृ॒तं तत्स॒त्यम् । तद् व्र॒तं तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑ राध्यासम् (५), इति । पूर्ववद्व्याख्येयम् । अथ शुनासीरीयपर्वान्तरं क्षौरमन्त्रौ- एकं॒ मास॒मुद॑सृजत् । प॒र॒मे॒ष्ठी प्र॒जाभ्यः॑ । तेना॑ऽऽभ्यो॒ मह॒