तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 267, कुल 345 में से
संदर्भ में पढ़ें२३८ (१.५.५) तैत्तिरीयब्राह्मणम् आवह॑त् । अ॒मृतं॒ मर्त्ये॑भ्यः । प्र॒जामनु॑ प्र॒जाय॑से । तदु॑ ते मर्त्या॒मृतम्॑ । येन॒ मासा॑ अर्धमा॒साः ऋ॒तवः॑ परिवत्स॒राः । येन॒ तेतें प्रजापते । ई॒जा॒नस्य॒ न्यव॑र्तयन् (६)। तेना॒हम॒स्य॒ ब्रह्म॑णा । निर्व॑र्तयामि जी॒वसै॑ । कल्पः-“अत्र पौर्णमास्येष्टोन्दनादि पूर्ववन्निवर्तनं सर्वं वा वापयेत् मन्त्रादिर्विक्रियतएकंमासमुदसृजतपरमेष्ठी प्रजाभ्यस्तेनाऽऽभ्यो मह आवहदमृतं मर्त्याभ्यः प्रजामनुप्रजायसे तदु ते मर्त्यामृतं येन मासा अर्धमासा ऋतवः परिवत्सरा येन ते ते प्रजापत ईजानस्य न्यवर्तयन् । तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे, इत्यग्निस्तिग्मेन शोचिषेति समानम्” इति । परमेष्ठी प्रजापतिरेकं मासं मासोपलक्षितं चातुर्मास्यानुष्ठानयोग्यकालमुदसृजदुत्कर्षेण सृष्टवान् । मर्त्याभ्यो मनुष्यरूपाभ्य आभ्यो जगति दृश्यमानाभ्यः प्रजाभ्यस्तेन चातुर्मास्यानुष्ठानयोग्यकालेन महो महदमृतमविना शिफलमावहत्सम्पादितवान् । तच्च फलं पूर्वप्रपाठके चातुर्मास्यस्याजिनो मरणाविचारं निर्णीतम् । सूत्रकारेणाप्येतदेवाभिप्रेत्योक्तम्--“अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति” इति । हे मर्त्य मनुष्यरूप यजमान प्रजां पुत्रपौत्रादिरूपामनुप्रजायसेऽनुक्रमेणोत्पादयसि । तदु तदेव पुत्रपौत्रादिरूपेणावस्थानं ते तव चामृतमविनाशिफलं मर्त्यत्वादेतस्य शरीरस्य नाशेऽपि पुत्रपौत्रादिसंततेरविच्छेदनाद्येन मन्त्रसामर्थ्येन मासार्धमासर्तुसंवत्सरविशेषाः । स्वोचितकार्यकारिणः प्रवर्तन्ते । प्रजापतेः पुत्रपौत्रादिस्वरूपाणां प्रजानां पालक यजमान, ईजानस्य यागं कृतवतस्ते तव मासादिकास्ते कालविशेषा येनं मन्त्रेण न्यवर्तयन्निरन्तरं संपादितास्तेन ब्रह्मणा मन्त्रेणाहमध्वर्युंरस्य यजमानस्य जीवसे जीवनाय निवर्तयामि कृन्तनेन केशान्निवृत्तान्करोमि । एतावानत्र मन्त्रविशेषः । अवशिष्टस्तु समानः । तत्पाठस्तु- अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । तप॒ आक्रा॑न्तमुष्णि॒हा । शिर॒स्तपु॑स्याहि॑तम् वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना॑स्य॒ निर्व॑र्तये । स॒त्येन॒ परि॑वर्तये । तप॑सा॒ऽस्यानु॑वर्तये । शि॒वेना॒स्योप॑वर्तये । शु॒ग्मेना॒स्याभि॑वर्तये । तदृ॒तं तत्स॒त्यम् । तद् व्र॒तं तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑ राध्यासम् (७), इति ।