भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 268, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 268

तैत्तिरीयब्राह्मणम् (१.५.६) २३९ परि॑वर्तये॒ सहा॒भिर्व॑र्तय उ॒ष्णिहा॑ राध्यासं॒ न्यर्व॑र्तयन्नुप॑वर्तये चत्वारि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये पञ्चमोऽनुवाकः ॥ ४ ॥ पूर्ववद्व्याख्येयम् । अथवा क्षुरपरत्वेन योजनीयम् । अग्निसमानोऽयं क्षुरः । स तीक्ष्णेन दीप्तिममानेन धाराग्रेण सह वर्तते । उष्णिहा छन्दः समानसामर्थ्ययुक्तेन क्षुरेण वपनरूपं तप आक्रान्तं प्रारब्धं यजमानस्य शिरस्तस्मिन्वपनरूपे तपस्याहितं समर्पितम् । वैश्वानरसमानस्य क्षुरस्य तेज परिमाणेन ऋतेनावश्यंभाविव्यापारेणास्य यजमानस्य केशान्निवर्तये निवृत्तान्करोमि । निवृत्तिप्रकारविशेषा एव परिवर्तनानुवर्तनोपवर्तनाभिवर्तनशब्दैरूच्यन्ते । तृतीयान्तैः क्षुर एव विशिष्यते । यजमानमन्त्रस्त्वेवं व्याख्येयः । यदेतत्केश कृन्तनं तदेव वाचिकमानससत्यरूपमनुष्ठीयमानवपनरूपं तत्कृन्तनं संपादयितुं शक्नोमि । तेन च कृन्तनेन कर्म साङ्गं कर्तुं शक्नोमि । फलेन च समृद्धो भूयासमिति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥ अथ पञ्चमप्रपाठके षष्ठोऽनुवाकः । पञ्चमे चातुर्मास्ययाजिनां वपनमन्त्रा उक्ताः । षष्ठे तद्विधिरुच्यते । तत्राऽऽदावन्वयव्यतिरेकाभ्यां वपनक्रमं विधत्ते- दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत । तत्सु॑रा अकुर्वत । तेऽ सू॑रा ऊ॒र्ध्वं पृ॒ष्ठेभ्यो॒ नार्प॑श्यन् । ते केशा॒नग्रै॑ऽवपन्त । अथ॒ श्मश्रू॑णि । अथोप॑प॒क्षौ । तत्स्तेऽवा॑ञ्च आयन । परा॑भव॒न् यस्यै॒वं वप॑न्ति । अवा॑ङेति (१) । अथो॒ परै॑व भ॑वति । अथ॑ दे॒वा ऊ॒र्ध्वं पृ॒ष्ठेभ्यो॑ऽपश्यन् । त उ॑पप॒क्षावग्रै॑ऽवपन्त । अथ॑ श्मश्रू॑णि । अथ॒ केशा॑न् । तत्स्तेऽभवन् । सु॒वर्गं॑ लो॒कमा॑यन् । यस्यै॒वं वप॑न्ति । भव॑त्यात्मना॑ । अथो॑ सु॒वर्गं॑ लो॒कमे॑ति (२), इति । देवैर्यद्यदङ्गं यज्ञेऽनुष्ठितं तत्तदङ्गमसुरास्तथैवान्वतिष्ठन् । वपने तु