भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 269, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 269

२४० (१.५.६) तैत्तिरीयब्राह्मणम् स्वबुद्ध्यैव प्रवृत्ताः । पृष्ठशब्देन तत्समीपवर्तिनौ कक्षावुपलक्ष्येते । ते सर्वेऽप्यसुराः स्वकीयान्कक्षानारभ्योर्ध्वं वपनं कर्तव्यमिति शास्त्रार्थं नापश्यन्नाज्ञासिषुः । अज्ञात्वा च केशश्मश्रूपपक्षक्रमेणाधोमुखप्रवृत्तं वपनं कृत्वा स्वयमवाञ्चो नीचा भूत्वा लोके समागत्य पराभूताः। एवमन्योऽपि नीचो भूत्वा लोके समागत्य पराभवति । देवास्तु कक्षेभ्य ऊर्ध्वक्रमं ज्ञात्वा कक्षश्मश्रुकेशक्रमेण वपनं कृत्वा लोकेऽस्मिन्नैश्वर्यं प्राप्ता ऊर्ध्वक्रमेण स्वर्गं च प्राप्नुवन् । अन्योऽप्येवं कृत्वाऽत्र स्वयमेव प्रभुर्भवति स्वर्गं च प्राप्नोति । ऊर्ध्वक्रमेण सह विकल्पार्थं क्रमान्तरं विधत्ते- अ॒थैतन्मनु॑र्वृ॒त्रे मि॑थु॒नम॑पश्यत् । स श्मश्रूण्यग्रे॑ऽवपत । अथोपप॒क्षौ । अथ॒ केशान्॑ । ततो॒ वै स प्राजा॑यत प्र॒जया॑ प॒शुभि॑:। यस्यै॒वं वप॑न्ति । प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑यते, इति । वप्त्रे यो वप्ताऽध्वर्युस्तदर्थं तस्यानुष्ठानाथं तन्मिथुनमूर्ध्वमवाञ्चं चेति द्विविधं वनप्रकारं मनुरपश्यत् । दृष्ट्वा च मध्यवर्तीति श्मश्रूण्यादावुप्त्वा ततोऽधोवर्तिनोः कक्षयोर्वपनंकृत्वा पश्चात्तदूर्ध्ववर्तिनां केशानां वपनं चकार । ततस्तादृशाद्वपनात्स मनुः प्रजया पशुभिश्च प्रभूतोऽप्येवं कृत्वा मनुष्यमिथुनैः पशुमिथुनैश्च प्रभूतो भवति । तदेतद्वपनं प्रशंसति- दे॒वा॒सु॒राः संय॑त्ता आसन् । ते सं॑वत्स॒रे व्या॑र्यच्छन्त ! तान्दे॒वाश्चा॑तुर्मा॒स्यैरैवा॒भिप्रा॑युञ्जत (३) । वै॒श्व॒दे॒वेन॑ च॒तुर॑ मा॒सोऽवृ॑ञ्जतेन्द्र॑रा॒जानः॑। ताञ्छी॒र्षन्नि चार्व॑र्तयन्त॒ परि॑ च । व॒रु॒ण॒प्र॒घा॒सैश्च॒तुरो॑ मा॒सोऽवृ॑ञ्जत॒ वरु॑णराजानः। ताञ्छी॒र्ष न्नि चार्व॑र्तयन्त॒ परि॑ च । सा॒क॒मे॒धैश्च॒तुरो॑ मा॒सोऽवृ॑ञ्जत॒ सोम॑राजानः । ताञ्छी॒र्षन्नि चार्व॑र्तयन्त॒ परि॑ च । या सं॑वत्स॒र उ॑पजी॒वाऽऽसी॑त् । तामे॑षामवृञ्जत । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः(४) । य ए॒वं वि॒द्वांश्चा॑तुर्मा॒स्यैर्यज॑ते । भ्रातृ॑व्यस्यै॒व मा॒सोऽवृ॑ङ्क्त । शी॒र्षन्नि च॑ वर्तय॑ते॒ परि॑ च ।