तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 270, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.५.६) २४१ यैषा सं॑वं॒त्स॒र उप॑जी॒वा । वृ॒ङ्क्ते तां भ्रातृ॑व्यस्य। क्षुधा॑ऽस्य॒ भ्रातृ॑व्यः॒ परा॑भवति, इति । देवाश्चासुराश्च युद्धोद्युक्ताः सन्तः संवत्सरानुष्ठानसाध्ये फले व्यायच्छन्त विरोधमारभन्त । अस्माकमेवेदं फलं भवत्विति परस्परं कलहं कृतवन्तः। तदानीं तानसुरानभिलक्ष्य फलं वारयितुं चातुर्मास्यैरेवानुष्ठानं कृतवन्तः । तेषु च देवेषु त्रयो व्यूहाः । इन्द्रस्वामिक एकोव्यूहः । वरुणस्वामिको द्वितीयः । सोमस्वामिकस्तृतीयः । तत्रेन्द्रस्वामिका देवा वैश्वदेवेन पर्वणा चतुरो मासानसुरसंबन्धिना विनाशितवन्तः । विनाशितानैव तन्मासानभिलक्ष्य ताञ्चशीर्षस्वकीये शिरसि निवर्तनं च परिवर्तनं च कृतवन्तः । वपनीयानां केशानां स्थापनीयेभ्यःशिखागतकेशेभ्यः पृथक्करणं निवर्तनम् । पृथक्कृतानां वपनं परिवर्तनम् । एवमुत्तरव्यूहद्वयेऽपि योजनीयम् । एवं त्रिविधमासचतुष्टयानुष्ठानेनैकस्मिन्संवत्सरे तैरसुरैरुपजीवनाय या धनादि संपत्संपादिता तेषामसुराणां तां संपदं विनाशितवन्तः । ततो देवाः संपन्ना अभवन् । असुराश्च पराभूताः । एवं ज्ञात्वा चातुर्मास्यानुष्ठानेन भ्रातृव्यसंबन्धिनो मासान्विनाश्य तद्विनाशनार्थं स्वशिरसि निवर्तनपरिवर्तनं कृत्वा वैरिणः संवत्सरोपजीव्यां संपदं सम्यग्विनाशयति । स च शत्रुरन्नाभावेन क्षुत्पीडितो भवति । अथ वपनसाधनं विधत्ते- लो॒हि॒ता॒य॒सेन॑ नि॒वर्त॑यते । यद्वा इ॒माम॒ग्निरृ॑तावाग॒ते नि॒वर्त॑यति । ए॒तद्दे॒वैनाँ॑ रू॒पं कृ॒त्वा नि॒वर्त॑यति । सा त॒तः॑ श्वः॒ श्वो॒ भूय॑सी॒ भव॑न्त्येति (५) । प्र॒जा॑यते । य ए॒वं वि॒द्वाँल्लो॑हि॒ताय॑सेन नि॒वर्त॑यते । ए॒तद्दे॒व रू॒पं कृ॒त्वा नि॒वर्त॑यते । स त॒तः॑ श्वः॒ श्वो॒ भूया॑न्भव॒न्नेति॑ । प्रैव जा॑यते, इति । अयसा निर्मितः क्षुर आयसः । स च लोहितस्ताम्रमिश्रेणायसा निर्मितत्वात् । तादृशेन क्षुरेण केशान्निवर्तयेद्वपनं कुर्यादित्यर्थः । लोके संचरन्दावाग्निरृतौ धर्मकालरूपे समागते सति यदेवोग्ररूपं धृत्वेमां भूमिं निवर्तयति शुष्कजलाशयां शातितपलाशपादपां लूनधान्यां मुण्डितामिव करोति तदानीमग्निरेतदेव लोहितक्षुरसमानरूपं कृत्वेमां निवृत्तजलादियुक्तां करोति । सा च भूमिर्दग्धतृणा सती तत ऊर्ध्वं-