तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 271, कुल 345 में से
संदर्भ में पढ़ें२४२ (१.५.६) तैत्तिरीयब्राह्मणम् मुत्तरोत्तरदिवसं भूयसी भवन्ती प्रजायते वर्धमाना सती तृणादिकमुत्पादयति । एवमन्योऽपि लोहितायसेनक्षुरेण वपनं प्राप्नुवन्नग्निसमानरूपं तस्य कृत्वा वपनं प्राप्नोति । स च तत ऊर्ध्वं धनादिभिः समृद्धो भवँल्लोकं संचरति प्रजाश्चोत्पादयति । वपनीयानामितरेषां च केशानां विभागकरणे साधनं विधत्ते- त्रे॒ण्या श॑ल॒ल्या नि॑वर्तयते । त्रीणि॒ त्रीणि॒ वै दे॒वाना॒मृद्धा॑नि । त्रीणि॒ च्छन्दाँ॑सि॒ त्रीणि॒ सव॑नानि । त्रय॑ इ॒मे लो॒काः (६) । ऋ॒द्ध्यामे॒व तद्वीर्य॑ ए॒षु लो॒केषु॑ प्रति॑तिष्ठति, इति । तिस्र एण्यः श्वेतराजयो यस्याः शलल्याः सा त्रेणी । शललीशब्देन शललाख्यस्य क्षुद्रमृगस्य पुच्छभागवर्ती तीक्ष्णाग्रलोहशलाकादृशो रोमविशेष उच्यते । तया श्वेतराजित्रययुक्तया शलल्या वपनीयान्केशानितरेभ्यः पृथक्कुर्यात् । यच्च श्वेतराजित्रयं प्रशस्तम् । यतो देवानां संबन्धीनि समृद्धवस्तूनि प्रत्येकं त्रिसंख्यायुक्तानि दृश्यन्ते । गायत्री त्रिष्टुब्जगतीत्येतानि च्छन्दांसि त्रिसंख्याकानि । प्रातर्माध्यन्दिनतृतीयाख्यानि सवनानि च त्रिसंख्याकानि । लोकाश्च त्रिसंख्याकाः । अतो राजित्रययोगे सति देवसंबन्धिन्यां समृद्धौ वीर्ये लोकत्रये च प्रतितिष्ठति । वपनक्रमं साधनं च विधाय वपनं विधत्ते- यच्चातु॑र्मास्यया॒ज्यात्मनो॒ नाव॑द्ये॒त् ।। दे॒वेभ्य॒ आवृ॑श्च्येत॒ । च॒तृषुँ॑र्चतृषु मासे॑षु॒ निर्व॑र्तयेत । प॒रोक्ष॑मे॒व तद्दे॒वेभ्य॑ आ॒त्मनो॒ऽव॑द्यत्यनार्त्रस्काय, इति । चातुर्मास्ययाजी स्वशरीराशं यदि देवेभ्यो नावद्येत्तदा देवेभ्यो विच्छिद्येत । अतो विच्छेदाभावाय तदा तदा मासचतुष्टये वपनं कुर्यात् । तथा सति वपनव्यवधानेन स्वशरीरावदानमेव देवार्थं करोति । तच्चाविच्छेदाय भवति । तदेतद्व्रतं प्रशंसति- दे॒वानां॒ वा ए॒ष आनी॑तः । यश्चातु॑र्मास्यया॒जी । य ए॒वं