भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 272, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 272

तैत्तिरीयब्राह्मणम् (१.५.७) २४३ वि॒द्वान्नि च॑ वर्त॒यते॒ परि॑ च । दे॒वता॑ ए॒वाप्ये॑ति । नास्य॑ · रु॒द्रः प्र॒जां प॒शून॒भिर्म॑न्यते (७), इति ए॒त्येत्य॒युञ्ज॒तासु॑र॒ एति॑ लो॒का मं॑न्यते । इति कृष्णयजुर्वेदीयैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ योऽयं चातुर्मास्ययाजी स एष देवानां स्वभूतः सँल्लंके समानीतः । तस्मा देवं विद्वान्पुरुषः शलल्या केशान्पृथक्कुर्यात् । लोहितायसेन वपेच्च । स देवता एव प्राप्नोति । अस्य प्रजां पशून् रुद्रो न हिनस्ति । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ अथ पञ्चमप्रपाठके सप्तमोऽनुवाकः । षष्ठे चातुर्मास्यशेषो वपनविधिरुक्तः । सप्तमे त्वग्निचयनशेषा इष्टकोपधान मन्त्रा उच्यन्ते । “प्राची दिशाम्” इत्यादिभिर्मन्त्रैर्या अपानभृत इष्टका उक्तास्तदुपधानादूर्ध्वं “आयुषः” इत्यादिभिर्मन्त्रैर्द्वादशसंतत्याख्या इष्टका उपधेयाः । तन्मन्त्रपाठस्तु- आयु॑षः प्रा॒णं संत॑नु । प्रा॒णाद॑पा॒नं संत॑नु । अ॒पा॒नाद्व्या॒नं ँ संत॑नु । व्या॒नाच्चक्षु॑: संत॑नु । चक्षु॑षः॒ श्रोत्रं॑ ँ संत॑नु । श्रोत्रा॒न्मन॑: संत॑नु । मन॑सो॒ वाचँ॑ संत॑नु । वाच॑ आ॒त्मानं॒ ँ संत॑नु । आ॒त्मन॑: पृथि॒वी ँ संत॑नु । पृथि॒व्या अ॒न्तरि॑क्षं ँ संत॑नु । अ॒न्तरि॑क्षाद्दि॒वं ँ संत॑नु । दि॒वः सुव॑: संत॑नु (१), · इति । पृथि॒व्या अ॒न्तरि॑क्षं॒ संत॑नु॒ द्वे च॑ ।। इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये सप्तमोऽनुवाकः ।। ७ ।। : हे इष्टक आयुष्यप्राणयोः परस्परं संततमविच्छेदं कुरु । आयुष इति तृतीयार्थे पञ्चमी । आयुषा सह प्राणं संयोजयेत्यर्थः । एवमुत्तरत्रापि योज्यम् । आत्मा परो जीवो वा । द्यौर्द्युलोकः । सुवःशब्देन तत्रत्यो भोगस्थानविशेष उच्यते ।