भारतकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 273, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 273

२४४ (१.५.८) तैत्तिरीयब्राह्मणम् इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥ अथ पञ्चमप्रपाठकेऽष्टमोऽनुवाकः । सप्तमे संतत्याख्येष्टकामन्त्रा उक्ताः । अष्टमेऽथर्वशिरोभिधाना नामिष्टकानां दशानां मन्त्रा उच्यन्ते । ताश्चेष्टकाः “प्राच्या त्वा दिशा सादयामि” इत्येतैर्मन्त्रैरुपधेयाभ्य इष्टकाभ्य ऊर्ध्वं पञ्चम्यां चितावुपधेयाः । तत्र प्रथमामृचमाह- इन्द्रो॑ द॒धीचो॒ अस्थ॑भिः । वृ॒त्राण्यप्र॑तिष्कुतः । ज॒घान॑ नव॒तीर्नव॑, इति । अथर्वणः पुत्रः कश्चिदर्षिर्दध्यङ्नामा । तस्य यान्यस्थीनि वज्रसमानि तैरस्थिभिर्वृत्राणि निवारकाणि परबलानि जघान । कीदृश इन्द्रः । अप्रतिष्कुतः प्रतिकूलो भूत्वा कुतोऽ यमित्येवं निराकर्ता वैरी यस्यासौ प्रतिष्कुस्तथाविधशत्रुरहित्यादयमप्रतिष्कुतः । कियन्ति वृत्राणि नवसंख्याका नवतीर्दशाधिकान्यष्टशतानीत्यर्थः । हे इष्टके तथाविधेन्द्ररूपा त्वमसि तादृशमिन्द्रस्त्वामुपदधात्विति वाऽध्याहर्तव्यम् । अथ द्वितीयामाह- इ॒च्छन्नश्व॑स्य॒ यच्छिरः॑ । पर्व॑ते॒ष्वप॑श्रितम् . तद्वि॑दच्छर्य॒णाव॑ति, इति । अग्नि कदाचिदश्वो भूत्वा देवेभ्योऽपक्रम्य पर्वतेषु निलीनः । तदानीमयमिन्द्रस्तस्याश्वस्य यच्छिरो द्रष्टुमिच्छन्पर्वतेषु चचार तदानीं पर्वतेष्वाश्रितं तदश्वस्य शिरः शर्यणावन्नामके कस्मिंश्चित्पर्वते विदल्लब्धवान् । हे इष्टके त्वं तथाविधाश्वशिरोरूपाऽसि । अथ तृतीयामाह- अत्राह॑ गो॒रम॑न्वत । नाम॒ त्वष्टु॑रपी॒च्य॑म् । इ॒त्था च॒न्द्रम॑सो गृ॒हे, इति । त्वष्टुः सूर्यस्य गोशब्दाभिधेयो रश्मिर्योऽस्ति तस्य नामात्राहास्मिन्ने वाग्नौ विद्यत इत्येवं यजमाना अमन्वत अग्निं दीप्तं दृष्ट्वा सूर्यरश्मिरित्येव भावितवन्त इत्यर्थः । कीदृशं रश्मिनाम । अपीच्यमप्यञ्चति पुनः

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १) · पृष्ठ 273, कुल 345 में से · BharatKosha