तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 301, कुल 345 में से
संदर्भ में पढ़ें२७२ (१.६.३) तैत्तिरीयब्राह्मणम् प्रसू॑ता जे॒ष्यथेति॑ । मां च॑तु॒र्थी॒मिति॑ सर॑स्वती । इ॒न्द्रियं॑ वो॒ऽहं धा॑स्या॒मीति॑ । मां प॑ञ्च॒ममिति॑ पू॒षा । मया॑ प्रति॑ष्ठया जे॒ष्यथेति॑ । (६) । तेऽग्निना॒ मुखे॑नासु॑रानजयन् । सोमे॑न॒ राज्ञा॑ । स॒वि॒त्रा प्रसू॑ताः । सर॑स्वतीन्द्रि॒यम॑दधात् । पू॒षा प्रति॑ष्ठाऽऽसी॑त् । ततो॒ व दे॒वा व्य॑जयन्त । यदे॒तानि॑ ह॒वीꣳषि॑ नि॒रुष्य॑न्ते विजि॑त्यै । नोत्त॑रवे॒दिमुप॑वपति । प॒शवो॒ वा उत्त॑रवे॒दिः । अजा॑ता इव॒ ह्येतर्हि॑ प॒शव॑: (७) । ऐ॒दित्य॑शो॒चद्यु॒द्धर॑त्यब्रवीत्याप्र॒त्ष्ठया॑ जे॒ष्यथेत्येतर्हि॑ प॒शव॑: । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्याये द्वितीयोऽनुवाकः ॥ २ ॥ अथ षष्ठप्रपाठके तृतीयोऽनुवाकः । त्रि॒वृद्ब॒र्हिर्भव॑ति । मा॒ता पि॒ता पु॒त्रः । त॒देव तन्मि॑थु॒नम् । उल्बं॒ गर्भो॑ जरायु॑ । त॒देव तन्मि॑थु॒नम् । त्रे॒धा ब॒र्हिः संन॑द्धं भ॑वति । त्र्य॑ इ॒मे लो॒काः । ए॒ष्वेव लो॒केषु॒ प्रति॑तिष्ठति एक॑धा पु॒नः संन॑द्धं भवति । एक॑ इव॒ ह्य॑यं लो॒कः (१) । अ॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑तिष्ठति । प्र॒सुवौ॑ भवन्ति । प्र॒थ॒म॒जा॒मे॒व पुष्टि॒मव॑रुन्धे । प्र॒थ॒म॒जो व॒त्सो दक्षि॑णा समृ॑द्ध्यै । पृष॒दाज्यं॑ गृ॑ह्णाति । प॒शवो॒ वै पृ॑ष॒दाज्यम्॑ । प॒शूने॒वाव॑रुन्धे । प॒ञ्च॒गृही॑तं भव॑ति । पा॒ङ्क्ता हि प॒शव॑:। ब॒हुरूपं॑ भव॑ति (२) । ब॒हु॒रूपा॒ हि प॒शव॑: समृ॑द्ध्यै । अ॒ग्निं म॑न्थन्ति । अ॒ग्नि॒मुखा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । यद॒ग्निं म॒न्थन्ति॑ । अ॒ग्नि॒मुखा॑ ए॒व तत्प्र॒जा यज॑मानः सृजते । नव॑ प्र॒जाया॑ (याजा) ईज्यन्ते । नवा॑नूया॒जाः । अ॒ष्टौ हवीꣳ॑ षि॑ । द्वावा॑घा॒रौ । द्वावाज्य॑भागौ (३)। त्रि ꣳ॑शत्संप॑द्यन्ते । त्रि ꣳ॑ शद॑क्षरा वि॒राट् । अन्नं॑ वि॒राट् ।