तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 305, कुल 345 में से
संदर्भ में पढ़ेंअथ षष्ठप्रपाठके पञ्चमोऽनुवाकः । उत्त॑रस्यां॒ वेद्या॑मन्यानि॑ ह॒वीꣳषि॒ सादयति । दक्षि॑णायां मा॒रु॒तीम् । अप॑धुरमे॒वैनां॑ युनक्ति । अथो॒ ओज॑ ए॒वाऽऽसा॒मव॑हरति । तस्मा॒द्ब्रह्म॑णश्च क्ष॒त्राच्च॒ विशो॑ऽन्यतोऽपक्र॒मिणी॑: । मा॒रु॒त्या पू॒र्वया॑ प्रचरति । अनृ॑तमे॒वाव॑यजते । वा॒रु॒ण्योत्त॑रया । अन्त॑त ए॒वं वरु॑णमव॑यजते । यदे॒वाध्व॒र्युः क॒रोति॑ (१) । तत्प्रति॑प्रस्था॒ता क॑रोति । तस्मा॒द्यच्छ्रेया॑न्क॒रोति॑ । तत्पापी॑यान्करोति । पत्नीं॑ वाचयति । मेध्या॑मे॒वैनां॑ करोति । अथो॒ तर्प॑ ए॒वैना॒मुप॑ नयति । यज्जा॒रꣳसन्तं॒ न प्र॑ब्रू॒यात् । प्रि॒यं ज्ञा॒तिꣳरु॑न्ध्यात् । असा॒ मे जा॒र इति॑ निर्दि॑शेत् । निर्दि॑श्यै॒वैनं॑ वरु॒णपा॒शेन॑ ग्राहयति (२) । प्र॒घा॒स्यान्ह॑वामह॒ इति॒ पत्नी॑मुदा॒र्नय॑ति । अहू॑तै॒वैना॑म् । यत्पत्नी॑ पुरोनुवा॒क्या॑मनुब्रू॒यात् । निर्वी॑र्यो॒ यज॑मानः स्यात् । यज॑मानोऽन्वा॑ह । आ॒त्मनैव वी॒र्यं॑ धत्ते । उ॒भौ या॒ज्याꣳसवी॑र्यत्वाय॑ । यद्ग्रा॒मे यदर॑ण्य इत्या॑ह । य॒थो॒दित॑मे॒व वरु॑णमव॑यजते । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वा आ॑हव॒नीय॑: (३) । [भ्रातृ॑व्यदे॒व॒त्यो॑ दक्षि॑णः । यदा॑हव॒नीये॑ जुहु॒यात् । यज॑मानं वरु॒णपा॒शेन॑ ग्राहयेत् । दक्षि॑णे॒ऽग्नौ जु॑होति । भ्रातृ॑व्यमे॒व वरु॑णपा॒शेन॑ ग्राहयति । शूर्पेण॑ जु॒होति॑ । अन्य॑मेव वरु॑णमव॑यजते । शी॒र्षन्नधि॑नि॒धाय॑ जु॒होति॑ । शीर्ष॑त ए॒व वरु॑णमव॑यजते । प्र॒त्यङ्ति॒ष्ठञ्जु॑होति (४)।] प्र॒त्यङ्ङे॒व वरु॑णपा॒शान्निर्मु॑च्यते । अक्र॒न्कर्म॑ कर्म॒कृत॒ इत्या॑ह । दे॒वानृ॒णं निर॑वदाय॑ । अनृ॑णा गृ॒हानु॒- प्रप्रेतेति॒ वावैतदा॑ह । वरु॑णगृहीतं॒ वा ए॒तद्य॒ज्ञस्य॑ । यद्यजु॑षा गृ॒हीत॒स्याति॒रिच्य॑ते । तुषां॑श्च निष्का॒सꣳश्च॑ । तुषै॑श्च निष्का॒सेन॑