तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 306, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.६.६) २७७ चाव॑भृथमवै॑ति । वरु॑णगृहीतेनै॒व वरु॑णमव॑जयते । अ॒पोऽव॑भृथमवै॑ति (५)। अ॒प्सु वै वरु॑णः । सा॒क्षादे॒व वरु॑णमव॑जयते । प्रतियुतो वरु॑णस्य॒ पाश॒ इत्या॑ह । व॒रु॒ण॒पा॒शादे॒व निर्मु॑च्यते । अप्र॑तीक्षमाय॑न्ति । वरु॑णस्यान्तर्हि॑त्यै । एधो॑ऽस्येधीषीमहीत्या॑ह । स॒मिधै॒वाग्निं नम॑स्यन्त । उपा॒र्यन्ति॑ । तेजो॑ऽसि॒ तेजो॒ मयि॑ धे॒हीत्या॑ह । तेज॑ ए॒वाऽऽत्मन्ध॑त्ते (६) । क॒रोति॑ ग्राहयत्याहवनी॒यस्तिष्ठ॑ञ्जुहोत्यपो॑ऽवभृथमवै॑ति धत्ते । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥ अथ षष्ठप्रपाठके षष्ठोऽनुवाकः । दे॒वासु॑राः सं॒यत्ता॑ आसन् । सोऽग्नि॒रब्र॑वीत् । ममे॒यमनी॑कवती त॒नूः । तां प्री॑णीत । अथासु॑रा॒नभि॑भविष्य॒थेति॑ । ते दे॒वा अ॒ग्नयेऽनी॑कवते पु॒रोडाश॑म॒ष्टाक॑पालं॒ निर॑वपन् । सोऽग्नि॒रनी॑कवान्त्स्वेन॑ भा॒ग॒धेये॑न प्री॒तः । च॒तुर्धाऽनी॑कान्यजनयत् । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः(१), यद॒ग्नयेऽनी॑कवते पु॒रोडाश॑म॒ष्टाक॑पालं॒ निर्व॑पति । अ॒ग्निमे॒वानी॑कवन्त॒ꣳ स्वेन॑ भा॒ग॒धेये॑न प्रीणाति । सोऽग्नि॒रनी॑कवान्त्स्वेन॑ भा॒ग॒धेये॑न प्री॒तः । च॒तुर्धाऽनी॑कानि जनयते । अ॒सौ वा आ॑दि॒त्योऽग्नि॒रनी॑कवान् । तस्य॑ र॒श्मयोऽनी॑कानि । सा॒क ँ सूर्ये॑णोद्य॒ता निर्व॑पति । सा॒क्षादे॒वास्मा॒ अनी॑कानि जनयति । ते सु॑राः परा॑जिता॒ यन्तः॑ । द्यावा॑पृथि॒वी उपा॑श्रयन् (२) । ते दे॒वा म॒रुद्भ्य॑: सांत॒पने॑भ्यश्च॒रुं निर॑वपन् । तान्द्यावा॑पृथि॒वीभ्या॑मे॒वोभय॑तः॒ समर्त्तृपन् । यन्म॒रुद्भ्य॑: । सांत॒पने॑भ्यश्च॒रुं निर्व॑पति ।