तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 307, कुल 345 में से
संदर्भ में पढ़ें२७८ (१.६.७) तैत्तिरीयब्राह्मणम् द्यावा॑पृथि॒वीभ्या॑मे॒व । तदु॑भय॒तो यज॑मानो भ्रातृ॑व्या॒त्संत॑पति । म॒ध्यंदि॒ने निर्व॑पति । तर्हि॒ हितेऽक्षि॑ष्ठं तप॑ति । । च॒रुर्भव॑ति । सर्व॑त ए॒वैना॒न्संत॑पति । ते दे॒वाः । श्वो॑वि॒जयि॑नः सन्तः॑ । सर्वा॑सां दु॒ग्धे गृ॑हमे॒धीयं॑ च॒रुं निर॑वपन् (३) । आशि॑ता ए॒वाद्योप॑वसाम। कस्य॒ वा हेदम् । कस्य॑ वा॒ श्वोभ॑वि॒तेति॑ । स शृतोऽ॑भवत् । तस्याहु॑तस्य॒ नाश्न॑न् । न हि दे॒वा अहु॑तस्या॒श्नन्ति॑ । तैऽब्रुवन् । कस्मा॑ इ॒म ँ हौष्याम॒ इति॑ । म॒रुद्भ्यो॑ गृहमे॒धिभ्य॒ इत्य॑ब्रुवन् । तं म॒रुद्भ्यो॑ गृहमे॒धिभ्योऽ॑जुहवुः (४) । ततो॑ दे॒वा अभ॑वन् । पराऽसु॑राः । यस्यै॒वं वि॒दुषो म॒रुद्भ्यो॑ गृहमे॒धिभ्यो॑ गृ॒हे जुह्व॑ति । भव॑त्या॒त्मना॑ । पराऽस्य॒ भ्रातृ॑व्यो भवति । यद्वै य॒ज्ञस्य॑ पा॒क्त्रा क्रि॒यते॑ । प॒शव्यं॑ तत् । पा॒क्त्रा वा ए॒तत्क्रि॑यते । यन्नेध्मा ब॒र्हिर्भव॑ति । न सा॑मिधे॒नीरन्वाह॑ (५) न प्रया॒जा इ॒ज्यन्ते॑ । नानू॑या॒जाः । य ए॒वं वेद॑ । प॒शुमान्भ॑वति । आज्य॑भागौ यजति । य॒ज्ञस्यै॒व चक्षु॑षी॒ नान्त॑रैति । म॒रुतो॑ गृहमे॒धिनौ॑ यजति । भा॒ग॒धेये॑नै॒वैना॒न्त्सम॑र्धयति । अ॒ग्नि ँ स्विष्टकृ॑तं यजति प्रति॑ष्ठित्यै । इडा॑न्तो भवति । प॒शवो॒ वा इडा॑। प॒शुष्वे॒वोपरि॑ष्टात्प्रतिति॑ष्ठति (६) । असुरा अभ्रयन्गृहमेधीयं चरुं निर॑वपन्नजुहवुरन्वाहेडोन्तो भवति द्वे च॑ । इति कृष्णयजुर्वेदीय तैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ अथ षष्ठप्रपाठके सप्तमोऽनुवाकः । यत्पत्नी॑ गृहमे॒धीय॑स्या॒श्नीयात् । गृ॒ह॒मेध्यै॑व स्या॑त् । वि र्तव॑स्य य॒ज्ञ ऋ॑ध्येत् । यन्नाश्नीयात् । अगृ॑हमेधी स्यात्