तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 308, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.६.७) २७९ नास्य॑ य॒ज्ञो व्य॑र्द्ध्येत । प्र॒ति॒वे॒शं प॑चेयुः । तस्या॑श्नीयात् । गृ॒ह॒मे॒ध्येयैव भ॑वति । नास्य॑ य॒ज्ञो व्य॑र्द्ध्यते (१) । ते दे॒वा गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । आशि॑ता अभवन् । आञ्ज॑ता॒भ्य॑ञ्जत । अनु॑व॒त्सान॑वासयन् । तेभ्योऽसु॑राः क्षुधं॒ प्रा॒हि॑ण्वन् । सा दे॒वेषु॑ लो॒कमवि॑त्त्वा । असु॑रा॒न्पुन॑रगच्छन् । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । आशि॑ता भवन्ति । आञ्ज॑ते॒ऽभ्य॑ञ्जते (२) । अनु॑व॒त्सान्वा॑सयन्ति । भ्रातृ॑व्यायै॒व तद्यज॑मानः क्षुधं॒ प्रहि॑णोति । ते दे॒वा गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्का॒सं न्य॑दधुः । अ॒स्माने॒व श्व इन्द्रो॑ निहि॑तभाग उपाव॑र्ति॒तेति॑ । तानिन्द्रो॑ निहि॑तभाग उपाव॑र्तत । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्कां॒सं निर्द॑ध्यात् । इन्द्र॑ ए॒वैनं॑ निहि॑तभाग उपाव॑र्तते । गार्ह॑पत्ये जुहोति (३) । भा॒ग॒धेये॑नै॒वैनँ॑ समर्धयति । ऋषभमाह्व॑यति । व॒षट्का॒र ए॒वास्य॒ सः । अथो॑ इन्द्रि॒यमे॒व तद्वी॒र्यं यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते । इन्द्रो॑ वृ॒त्रँ ह॒त्वा । परां॑ प॒रावर्त॑मगच्छत् । अपा॑राध॒मिति॒ मन्य॑मानः । सो॑ऽब्रवीत् । क इ॒दं वे॑दि॒ष्यतीति॑ । तेऽब्रुवन्म॒रुतो॒ वरं॑ वृणामहै (४) । अथ॑ व॒यं वै॑दाम । अ॒स्मभ्य॑मे॒व प्रथ॑म ँ ह॒विर्निर्व॑प्यता॒ इति॑ । त एन॒ममध्य॑क्रीडन् । तत्क्री॒डिनां॑ क्री॒डित्वम् । यन्म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ प्रथ॒म ँ ह॒विर्निर्व॑प्यते । विजि॑त्यै । सा॒क ँ सूर्येणोद्यता निर्व॑पति । ए॒तस्मि॒न्वै लो॒के इन्द्रो॑ वृ॒त्रम॑ह॒न्सम्मृ॑द्धयै । ए॒तद्ब्राह्म॑णान्ये॒व पञ्च॑ ह॒वी ँषि॑ ए॒तद्ब्राह्म॑ण ऐन्द्रा॒ग्नः । अथै॒ष ऐन्द्रश्च॒रुर्भव॑ति । उ॒द्धारं॑ वा ए॒तमिन्द्र॑ उ॒द॑हरत । वृ॒त्र ँ ह॒त्वा । अ॒न्यासु॑ दे॒वता॑स्वधि॑ । यदे॒ष ऐन्द्रश्च॒रुर्भव॑ति । उ॒द्धार॑मे॒व तं यज॑मान॒ उद्ध॑रते । अ॒न्यासु॑ प्र॒जास्वधि॑ । वै॒श्व॒क॒र्म॒ण