तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
तैत्तिरीयब्राह्मणम् (१.६.७) २७९ नास्य॑ य॒ज्ञो व्य॑र्द्ध्येत । प्र॒ति॒वे॒शं प॑चेयुः । तस्या॑श्नीयात् । गृ॒ह॒मे॒ध्येयैव भ॑वति । नास्य॑ य॒ज्ञो व्य॑र्द्ध्यते (१) । ते दे॒वा गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । आशि॑ता अभवन् । आञ्ज॑ता॒भ्य॑ञ्जत । अनु॑व॒त्सान॑वासयन् । तेभ्योऽसु॑राः क्षुधं॒ प्रा॒हि॑ण्वन् । सा दे॒वेषु॑ लो॒कमवि॑त्त्वा । असु॑रा॒न्पुन॑रगच्छन् । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । आशि॑ता भवन्ति । आञ्ज॑ते॒ऽभ्य॑ञ्जते (२) । अनु॑व॒त्सान्वा॑सयन्ति । भ्रातृ॑व्यायै॒व तद्यज॑मानः क्षुधं॒ प्रहि॑णोति । ते दे॒वा गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्का॒सं न्य॑दधुः । अ॒स्माने॒व श्व इन्द्रो॑ निहि॑तभाग उपाव॑र्ति॒तेति॑ । तानिन्द्रो॑ निहि॑तभाग उपाव॑र्तत । गृ॒ह॒मे॒धीये॑ने॒ष्ट्वा । इन्द्रा॑य निष्कां॒सं निर्द॑ध्यात् । इन्द्र॑ ए॒वैनं॑ निहि॑तभाग उपाव॑र्तते । गार्ह॑पत्ये जुहोति (३) । भा॒ग॒धेये॑नै॒वैनँ॑ समर्धयति । ऋषभमाह्व॑यति । व॒षट्का॒र ए॒वास्य॒ सः । अथो॑ इन्द्रि॒यमे॒व तद्वी॒र्यं यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते । इन्द्रो॑ वृ॒त्रँ ह॒त्वा । परां॑ प॒रावर्त॑मगच्छत् । अपा॑राध॒मिति॒ मन्य॑मानः । सो॑ऽब्रवीत् । क इ॒दं वे॑दि॒ष्यतीति॑ । तेऽब्रुवन्म॒रुतो॒ वरं॑ वृणामहै (४) । अथ॑ व॒यं वै॑दाम । अ॒स्मभ्य॑मे॒व प्रथ॑म ँ ह॒विर्निर्व॑प्यता॒ इति॑ । त एन॒ममध्य॑क्रीडन् । तत्क्री॒डिनां॑ क्री॒डित्वम् । यन्म॒रुद्भ्यः॑ क्री॒डिभ्यः॑ प्रथ॒म ँ ह॒विर्निर्व॑प्यते । विजि॑त्यै । सा॒क ँ सूर्येणोद्यता निर्व॑पति । ए॒तस्मि॒न्वै लो॒के इन्द्रो॑ वृ॒त्रम॑ह॒न्सम्मृ॑द्धयै । ए॒तद्ब्राह्म॑णान्ये॒व पञ्च॑ ह॒वी ँषि॑ ए॒तद्ब्राह्म॑ण ऐन्द्रा॒ग्नः । अथै॒ष ऐन्द्रश्च॒रुर्भव॑ति । उ॒द्धारं॑ वा ए॒तमिन्द्र॑ उ॒द॑हरत । वृ॒त्र ँ ह॒त्वा । अ॒न्यासु॑ दे॒वता॑स्वधि॑ । यदे॒ष ऐन्द्रश्च॒रुर्भव॑ति । उ॒द्धार॑मे॒व तं यज॑मान॒ उद्ध॑रते । अ॒न्यासु॑ प्र॒जास्वधि॑ । वै॒श्व॒क॒र्म॒ण
२८० (१.६.८) तैत्तिरीयब्राह्मणम् एक॑कपालो भवति । विश्वा॑न्ये॒व तेन॒ कर्मा॑णि॒ यज॑मानो॒ऽवरुन्धे (५) । ऋ॒ध्यते॒ऽभ्य॑ञ्जते जुहोति वृणामहै भवत्य॒ष्टौ च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्याये सप्तमोऽनुवाकः ॥ ७ ॥ अथ षष्ठप्रपाठकेऽष्टमोऽनुवाकः । वै॒श्व॒दे॒वेन॒ वै प्र॒जाप॑तिः प्र॒जा असृ॑जत । ता व॑रुणप्रघा॒सैर्वरु॑णपा॒शाद॑मुञ्चत् । सा॒क॒मे॒धैः प्रत्य॑स्थापयत् । त्र्य॑म्बकैरु॒द्रं नि॒र्वा॑दयत । पि॒तृय॒ज्ञेन॑ सुव॒र्गं लो॒कम॑गमयत् । यद्वै॑श्वदे॒वेन॒ यज॑ते । प्र॒जा एव तद्यज॑मानः सृज॑ते । ता व॑रुणप्रघा॒सैर्वरु॑णपा॒शान्मु॑ञ्चति । सा॒क॒मे॒धैः प्रति॑ष्ठापयति । त्र्य॑म्बकैरु॒द्रं निरव॑दयते (१) । पि॒तृय॒ज्ञेन॑ सुव॒र्गं लो॒कं ग॑मयति । द॒क्षि॒णतः प्रा॑चीनावी॒ती निर्व॑पति । द॒क्षि॒णावृ॒द्धि पि॑तॄणा॒म् । अना॑दृत्य॒ तत् । उत्त॑रत ए॒वोप॑वी॒य॒ निर्व॑पेत् । उ॒भये॑ हि दे॒वाश्च॑ पि॒तर॑श्चे॒ज्यन्ते॑ । अथो॒ यदे॒व दक्षि॑णा॒र्धेऽधि॑श्रय॑ति । तेन॒ दक्षि॑णा वृ॒त् । सोमा॑य पि॒तृम॑ते पु॒रोडाश ँ॒ षट्क॑पालं॒ निर्व॑पति । सं॒व॒त्स॒रो वै सोम॑: पि॒तृमा॑न् (२) सं॒व॒त्स॒रमे॒व प्री॑णाति । पि॒तृभ्यो॑ ब॒र्हिषद्भ्यो॑ धा॒नाः । मासा॒ वै पि॒तरौ॑ ब॒र्हिषद॑: । मासा॑ने॒व प्री॑णाति । यस्मि॑न्वा ऋ॒तौ पुरु॑षः प्र॒मीय॑ते । सो॑ऽस्या॒मुष्मिं॑ल्लो॒के भ॑वति । ब॒हुरू॑पा धा॒ना भ॑वन्ति । अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै । पि॒तृभ्यो॑ऽग्निष्वा॒त्तेभ्यो॑ म॒न्थम् । अर्ध॑मा॒सा वै पि॒तरौ॑ऽग्निष्वा॒त्ताः (३) । अर्ध॑मा॒साने॒व प्री॑णाति । अ॒भि॒वा॒न्या॑यै दु॒ग्धे भ॑वति । सा हि पि॑तृदे॒व॒त्यं॑ दु॒हे । यत्पू॒र्णम् । तन्म॑नु॒ष्या॑णा॒म् । उ॒प॒र्यधो॑ दे॒वाना॑म् । अर्ध॑:
पि॒तॄणा॑म् । अर्ध॑ उप॑मन्थति । अर्धो॑ हि पि॒तॄणा॑म् । एक॒योप॑मन्थति (४) । एका॒ हि पि॒तॄणा॑म् । दक्षि॑णोप॑मन्थति । दक्षि॑णावृद्धि पि॒तॄणा॑म् । अना॑रभ्योप॑मन्थति । तद्धि पि॒तॄन्गच्छ॑ति । इ॒मां दिशं॑ वेदि॒मुद्ध॑न्ति उ॒भये॑ दे॒वाश्च॑ पि॒तर॑श्चे॒जय॑न्तै । चतु॑ःस्रक्तिः भ॑वति । सर्वा॒ ह्यनु॒दिश॑: पि॒तर॑: । अखा॑ता भवति (५) । खा॒ता हि दे॒वाना॑म् । मध्य॒तोऽग्निराधी॑ते । अ॒न्ततो हि दे॒वाना॑माधी॒यते॑ । वर्षी॑यानिध्म इ॒ध्माद्भव॑ति । व्यावृत्यै॑ । परि॑श्रयति । अन्तर्हि॑तो हि पि॒तृलो॒को म॑नुष्यलो॒कात् । यत्प॑रुषि 'दिनम् । तद्दे॒वाना॑म् । यद॑न्तरा । तन्म॑नुष्या॑णाम् (६) । यत्स॑मूलम् । तत्पि॑तॄणा॑म् । समूलं॑ ब॒र्हिर्भव॑ति व्यावृत्यै॑ । दक्षि॑णा स्तृणाति । दक्षि॑णावृद्धि पि॒तॄणा॑म् । त्रिः पर्ये॑ति । तृतीये॑ वा इ॒मो लो॒के पि॒तर॑: । ताने॒व प्री॑णाति । त्रिः पुनः पर्ये॑ति । षट् संप॑द्यन्ते (७) । षड् वा ऋ॒तव॑: । ऋ॒तूने॒व प्री॑णाति । यत्प्र॑स्तरं यजु॑षा गृ॒ह्णीयात् । प्र॒मायु॑को यज॑मानः स्यात् । यन्न गृ॒ह्णीयात् । अना॑यतनः स्या॑त् । तूष्णीमे॒व न्य॑स्येत् । न प्र॒मायु॑को भ॑वति । नाना॑यतनः । यत्त्रीन्परि॑धीन्परि॒दध्या॑त् (८) । मृ॒त्युना॒ यज॑मानं परि॑गृह्णीयात् । यन्न परि॑दध्यात् रक्षा ँ सि य॒ज्ञं ह॑न्युः । द्वौ परि॑धी परि॑दधाति रक्ष॑सामप॑हत्यै । अथो॑ मृ॒त्योरे॒व यज॑मानमुत्सृ॑जति । यत्त्री ँ स्त्रीणि ह॒वी ँ ष्यु॑दा॒हरे॑युः । त्र॒यस्त्रय ए॒षा ँ सा॒कं प्रमी॑येरन् । एकै॑कमनूचीना॑न्युदाह॑रन्ति । एकै॑क ए॒वैषा॑म॒न्वञ्च॑: प्रमी॑यते । क॒शिपु॑ कशिपु॒व्या॑य । उप॑बर्ह॑णमुपबर्ह॒ण्या॑य । आ॒ञ्जन॑माञ्ज॒न्या॑य । अ॒भ्य॒ञ्जन॑मभ्यञ्ज॒न्या॑य । य॒थाभा॒गमे वैना॑न्प्रीणाति (९) ।
२८२ (१.६.९) तैत्तिरीयब्राह्मणम् नि॒रव॑दयते पि॒तृमा॑नग्नि॒ष्वात्ता॑ एक॒योप॑मन्थि॒त्यखा॑ता भवति मनु॒ष्या॑णां पद्यन्ते परिदध्यान्मीय॑ते॒ पञ्च॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥ अथ षष्ठप्रपाठके नवमोऽनुवाकः । अ॒ग्नये॑ दे॒वेभ्यः॑ पि॒तृभ्य॑: समि॒ध्यमा॑नायानु॒ब्रूहीत्या॑ह । उ॒भये॑हि दे॒वाश्च॑ पि॒तर॑श्चेज्या॒न्तै । एका॒मन्वा॑ह । एका॒ हि पि॒तॄणा॒म् । त्रि॒रन्वा॑ह । त्रि॒र्हि दे॒वाना॒म् । आ॒घा॒रावा॒घार॑यति । य॒ज्ञपु॑रुषोरनन्त॒रित्यै॑ । नाऽऽर्षे॒यं वृ॑णीते । न होता॑रम् । (१)। यदार्षे॒यं वृ॒णीते॑ । यद्धोता॑रम् । प्र॒मायु॑को यज॑मानः स्यात् । प्र॒मायु॑को होता॑ । तस्मा॒न्न वृ॑णीते । यज॑मानस्य॒ होतृ॑र्गोपी॒थाय॑ । अप॑बर्हिषः प्र॒याजा॑न्यजति । प्र॒जा वै बर्हि॑ः । प्र॒जा ए॒व मृ॒त्यो रुत्सृ॑ति । आज्य॑भागौ यजति (२) । य॒ज्ञस्यै॒व चक्षु॑षी नान्त॒रैति॑ । प्रा॒ची॒ना॒वी॒ती सोमं॑ यजति । पि॒तृदे॑वत्या॑ हि ए॒षाऽऽहु॑तिः । प॒ञ्च॒कृत्वोऽव॑द्यति । पञ्च॒ ह्येता दे॒वता॑: । द्वे पु॑रोनुवा॒क्ये॑ । या॒ज्या॑दे॒वता॑ वषट्का॒रः । ता ए॒व प्री॑णाति । संत॑त॒ मव॑द्यति (३) । ऋ॒तूना॒ ँसंत॑त्यै । प्रैवैभ्यः॑ । पू॒र्वा॑या पुरोनुवा॒ क्य॑याऽह । प्रण॑यति द्वि॒तीय॑या । ग॒मय॑ति या॒ज्य॑या । तृ॒तीये॑ वा इ॒तो लो॒के पि॒तर॑: । अह॑ ए॒वैनां॑ पू॒र्वाया पुरोनुवा॒ क्य॑या॒ऽत्यान॑यति । रात्रि॑यै द्वि॒तीय॑या । ऐ॒वैना॑न्या॒ज्य॑या गमयति । द॒क्षि॒णतो॒ऽव॒दाय॑ । उद्ङ्ङ॑तिक्रामति॒ व्यावृत्यै (४) । आस्व॒धेत्याश्रा॑वयति । अस्तु॑ स्व॒धेति॑ । प्र॒त्याश्रा॑वयति । स्व॒धा नम॒ इति॒ बष॑ट् करोति । स्व॒धाका॒रो हि पि॒तॄणा॒म् । सो॒ममग्रै॑ यजति । सोम॑प्रयाजा॒ हि पि॒तर॑: । सोमं॑ पि॒तृमन्तं॑ यजति । सं॒व॒त्स॒रो॒
तैत्तिरीयब्राह्मणम् (१.६.९) २८३ वै सोम॑ः पितृ॒मान् । सं॒व॒त्स॒रमे॒व तद्य॑जति । पि॒तॄन्ब॑र्हि॒षदो॑ यजति । (५) । ये वै यज्वा॑नः । ते पि॒तरो॑ बर्हि॒षद॑ः । ताने॒व तद्य॑जति । पि॒तॄन॑ग्निष्वा॒त्तान्य॑जति । ये वा अय॑ज्वानो गृ॒हमे॒धिन॑ः । ते पि॒तरो॑ऽग्निष्वा॒त्ताः । ताने॒व तद्य॑जति । अ॒ग्निं क॑व्य॒वाह॑नं यजति । य ए॒व पि॒तॄणा॑म॒ग्निः । तमे॒व तद्य॑जति (६) । अथो॒ यथा॑ऽग्नि ँ स्वि॑ष्टकृ॒तं यज॑ति । ता॒दृगे॒व तत् । ए॒तत्तै॑ त॒त ये च॑ त्वा॒मन्वि॑ति तिसृ॒षु स्र॒क्तीषु॑ निद॑धाति । तस्मा॑दा॒तृती॑या॒त्पुरु॑षा॒न्नाम॑नि गृ॑हन्ति । ए॒ताव॑न्तो हीज्यन्तै॑ । अत्र॑ पितरो यथाभा॒गं म॑न्दध्व॒मित्या॑ह । ह्रीका॒ हि पि॒तर॑ः । उद॑ञ्चो॒ निष्क्रा॑मन्ति । ए॒षा वै म॑नु॒ष्या॑णां॒ दिक् । स्वामे॒व तद्दि॒शम॑नु॒ निष्क्रा॑मन्ति (७) । आ॒ह॒व॒नीय॒मुप॑तिष्ठन्ते । न्यै॑वास्मै॒ तद्धु॑न्वते । यत्स॒त्या॑हव॒नीये॑ । अथा॒न्यत्र॑ चर॑न्ति । आ॒तर्मि॑ तो॒रुप॑ति॒ष्ठन्ते । अ॒ग्निमे॒वोप॑द्र॒ष्टारं॑ कृ॒त्वा । पि॒तॄन्नि॒र्वद॑यन्ते । अन्तं॒ वा ए॒ते प्रा॒णानां॑ गच्छन्ति । य आ॒तर्मि॑तोरुप॒तिष्ठ॑न्ते । सु॒स॒दृशं॑ त्वा व॒यमित्या॑ह (८) । प्रा॒णो वै सु॑सं॒दृक् । प्रा॒णमे॒वाऽऽत्मन्ध॑धते । योजा॒न्विन्द्र॑ ते॒ हरी॒ इत्या॑ह । प्रा॒णमे॒व पुन॑रयु॒ङ्क्त । अक्ष॑न्नमीमदन्त॒ हीति॑ गार्ह॑पत्य॒मुप॑तिष्ठन्ते । अक्ष॑न्नमीमद॒न्ताथ॑ त्वोप॑तिष्ठामह॒ इति॑ वावैतदा॑ह । अमी॑मदन्त पि॒तर॑ः सो॒म्या इत्य॑भिप्र॒पद्य॑न्ते । अमी॑मदन्त पि॒तरोऽथ॑ त्वा॒ऽभिप्रप॑द्यामह॒ इति॑ वावैतदा॑ह । अ॒पः परि॑षिञ्चति । मा॒र्जय॑त्ये॒वैनान्॑ (९) । अथो॑ त॒र्पय॑त्ये॒व । तृप्य॑ति प्र॒जया॑ प॒शुभि॑ः । य ए॒वं वेद॑ । अप॑बर्हिषाव नूया॒जी य॑जति । प्र॒जा वै बर्हिः॑ । प्र॒जा ए॒व मृ॒त्योरुत्सृ॑जति । च॒तुर॑ः प्रया॒जान्य॑जति ।
२८४ (१.६.१०) तैत्तिरीयब्राह्मणम् द्वाव॑नूया॒जौ । षट् संप॑द्यन्ते । षड्वा ऋ॒तव॑: । ऋ॒तूने॒व प्री॑णाति । न पत्न्यन्वा॑स्ते । न संया॑जयन्ति । यत्पत्न्यन्वासी॑त । यत्सं॒जा॑ये॑युः । प्र॒मायु॑का स्यात् । तस्मान्नान्वा॑स्ते । न संया॑जयन्ति । पत्न्यै॑ गोपी॒थाय॑ (१०) । होता॑रमाज्यभा॒गौ य॑जति संत॑तमव॑द्यति॒ व्यावृत्यै बर्हि॒षदो॑ यजति॒ तमे॒व तद्य॑जेत्यनु॒निष्क्रा॑मन्त्याह्वैना॒नृत॑वो॒ नव॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्याये नवमोऽनुवाकः ॥ ९ ॥ अथ षष्ठप्रपाठके दशमोऽनुवाकः । प्र॒ति॒पूरु॑षमेक॑कपाला॒न्निर्व॑पति । जा॒ता ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते । एक॑मतिरि॒क्तम् । ज॒निष्य॑माणा ए॒व प्र॒जा रु॒द्रान्नि र॑वदयते । एक॑कपाला भवन्ति । एक॑धैव रु॒द्रं नि॒रव॑दयते । ना॒भिघा॑रयति । यद॑भि॒घारये॑त् । अ॒न्तर॒वचा॑रिणं ५रु॒द्रं कु॑र्यात् । एको॑ल्मु॒के न॑यन्ति (१) । तद्धि रु॒द्रस्य॑ भा॒ग॒धेय॑म् । इ॒मां दिशं॑ यन्ति । ए॒षा वै रु॒द्रस्य॑ दिक् । स्वाया॑मे॒व दिशि॑ रु॒द्रं नि॒रव॑दयते । रु॒द्रो वा अप॑शु॒काया॒ आहु॑त्यै॒ नार्ति॑ष्ठत । अ॒सौ ते॑ प॒शुरिति॑ निर्दि॑शे॒द्यं द्वि॒ष्यात्॑ । यमे॒व द्वेष्टि॑ । तम॑स्मै प॒शुं निर्दि॑शति । यदि॑ न द्वि॒ष्यात्॑ । आ॒खुस्ते॑ पशुरिति॑ ब्रूयात् (२) । न ग्रा॒म्यन्प॒शून्हि॑नस्ति । नाऽऽर॒ण्यान् । च॑तुष्प॒थे जु॑होति । ए॒ष वा अ॒ग्नीनां॑ षड्वां॒शो नाम॑ । अ॒ग्निव॒त्येव जु॑होति । म॒ध्यमे॑न प॒र्णेन॑ जुहोति । स्रुग्ध्यै॑षा । अथो॒ खलु॑ । अ॒न्तमे॑नैव होत॑व्यम् । अ॒न्तत॑ एव रु॒द्रं नि॒रव॑दयते (३) । ए॒ष ते॑ रुद्र भा॒गः सह॑ स्वस्राऽम्बिक॑येत्या॑ह । श॒रद्वा अ॒स्याम्बिका॒ स्वसा॑ । तया॒ वा ए॒ष हि॑नस्ति । य ५
तैत्तिरीयब्राह्मणम् (१.७.१) २८५ हि॒नस्ति॑ । तयै॒वैन॑ ँस॒ह श॑मयति । भेष॒जं गवे॒ इत्या॑ह । याव॑न्त ए॒व ग्राम्याः॑ प॒शवः॑ । तेभ्यो॑ भेष॒जं क॑रोति । अवा॑म्ब रु॒द्र मंदिमहीत्या॑ह । आ॒शिर्ष॑मे॒वैतामाशा॑स्ते (४) । त्र्य॑म्बकं यजामह॒ इत्या॑ह । मृ॒त्योर्मु॑क्षीय॒ मामृता॒दिति॑ वावैत दा॑ह । उत्कि॑रन्ति । भग॑स्य लीप्सन्ते । मूतै॑ कृ॒त्वा संज॑न्ति । यथा॒ जनं॑ य॒तैवं करोति॑ । ता॒दृगे॒व तत् । ए॒ष ते॑ रुद्र भा॒ग इत्या॑ह॒ निर्व॑त्यै । अप्र॑तीक्षमाय॑न्ति । अ॒पः परि॑षिञ्चति । रु॒द्रस्यान्तर्हि॑त्यै । प्र वा ए॒तेऽस्माल्लो॒काच्च्य॑वन्ते । ये त्र्य॑म्ब॒कैश्चर॑न्ति । आ॒दि॒त्यं च॒रुं पुन॑रे॒त्य निर्व॑पति । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति (५)। य॒न्ति ब्रू॒यान्निर्व॑दयते शास्ते सिञ्चति॒ षट् च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्याये दशमोऽनुवाकः ॥ १० ॥ अनु॑मत्यै वैश्वदे॒वेन॒ ताः सृ॒ष्टास्त्रिवृत्प्र॒जाप॑तिः सवितोत्त॑रस्यां दे॒वासु॒राः सोऽग्निर्मम॒ यत्पत्नी॒ वैश्वदे॒वेन॒ ता वे॑रुणप्रघा॒सैर॒ग्नये॑ दे॒वेभ्यः॑ प्रतिपुरुषं दर्श॑ ॥ १० ॥ अनु॑मत्यै प्रथमजो व॒त्सो ब॑हुरूपा हि प॒शवस्तस्मा॑त्प्रथममात्रं॒ हि पशवस्तस्मात्प्रथममात्रं॒ यद॒ग्नयेऽनी॑कवत उद्घा॒रं वा॑ + अ॒ग्नये॑ दे॒वेभ्यः॑ प्रतिपुरुषं पञ्च॑सप्ततिः ॥ ७५ ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठोऽध्यायः ॥ ६ ॥ अथ प्रथमाष्टके सप्तमोऽध्यायः । तत्र प्रथमोऽनुवाकः । ए॒तद्ब्राह्म॑णान्ये॒व पञ्च॑ ह॒वीं ँषि॑ । अथेन्द्रा॑य शुना॒सीरा॑य दश पु॑रोडाशं द्वाद॑शकपाल॒ निर्व॑पति । सं॑व॒त्स॒रो वा इन्द्रा॑ शु॒नासीरः॑ । सं॒व॒त्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे । वा॒य॒व्यं॒ पयो॑
२८६ . (१.७.१) तैत्तिरीयब्राह्मणम् भ॑वति । वा॒युर्वै वृ॒ष्ट्यै प्र॑दापयि॒ता । स ए॒वास्मै॑ वृ॒ष्टिं प्रदा॑पयति । सौ॒र्य एक॑कपालो भवति । सूर्ये॑ण॒ वा अ॒मुष्मिँ॒ल्लो॒के वृ॒ष्टिर्धृ॒ता । स ए॒वास्मै॑ वृ॒ष्टिं॒ निय॑च्छति (१) द्वाद॑शगव॒ꣳ सीरं॒ दक्षि॑णा॒ समृ॑द्ध्यै । दे॒वा॒सु॒राः संय॑त्ता आसन् । ते दे॒वा अ॒ग्निम॑ब्रुवन् । त्वया॑ वी॒रेणासु॑रान॒भिभ॑वा॒मेति॑ । सो॓ऽब्रवीत् । त्रे॒धाऽऽत्मा॑नं विक॑रिष्य॒ इति॑ । स त्रे॒धाऽऽत्मा॑नं॒ व्य॑कुरुत । अ॒ग्निं तृ॒तीय॑म् । रु॒द्रं तृ॒तीय॑म् । वरु॑णं तृ॒तीय॑म् । (२) सो॓ऽब्रवीत् । क इ॒दं तुरी॑य॒मिति॑ । अ॒हमितीन्द्रो॓ऽब्रवीत् । सं तु सृ॑जावहा॒ इति॑ । तौ सम॑सृजेताम् । स इन्द्र॑स्तु॒रीयं॑मभवत् । यदिन्द्र॑स्तु॒रीय॒मभ॑वत् । तदि॑न्द्रतुरीय॒स्येन्द्र॑तुरीय॒त्वम् । ततो॒ वै दे॒वा व्य॑जयन्त । यदि॑न्द्रतुरी॒यं नि॒रुष्य॑ते विजि॑त्यै (३) । ब॒र्हिणी॑ धे॒नुर्दक्षि॑णा । यद्ब॒र्हिणी॑ । तेना॓ऽऽग्ने॒यी । यद्गौः। तेन॑ रौ॒द्री । यद्धे॒नुः । तेनै॓न्द्री । यत्स्त्री स॒ती दा॒न्ता । तेन॑ वारु॒णी समृ॑द्ध्यै । प्र॒जाप॑तिर्य॒ज्ञमसृ॑जत । (४) । त ँ सृ॒ष्ट ँ रक्षा॓ꣳ स्यजिघाꣳसन् । स ए॒ताः प्र॒जाप॑तिरा॒त्मनो॑ दे॒वता॑ निर॑मिमीत । ताभि॒र्वै स दि॒ग्भ्यो रक्षा॓ꣳसि॒ प्राणु॑दत यत्पं॑ञ्चाव॒त्तीयं॑ जु॒होति॑ । दि॒ग्भ्य ए॒तद्यज॑मानो॒ रक्षा॓ꣳसि॒ प्रणु॑दते । समू॑ढ॒ꣳ रक्षः॒ संग॑धृ॒ꣳ रक्ष॒ इत्या॑ह । रक्षा॓ꣳस्ये॒व संद॑हति । अ॒ग्नये॑ रक्षो॒घ्ने स्वाहेत्या॑ह । दे॒वता॑भ्य ए॒व वि॑जिग्या॒नाभ्यो॑ भाग॒धेयं॑ करोति । पृ॒ष्ठि॒वाही रथो॒ दक्षि॑णा॒ समृ॑द्ध्यै (५) । इन्द्रो॑ वृ॒त्र ँ ह॑त्वा । असु॑रान्परा॒भाव्य॑ । नमु॑चि॒मासु॑रं॒ नाल॑भत । त ँ श॒च्या॑ऽगृह्णात् । तौ सम॑लभेताम् । सो॓ऽस्माद॒भिशु॑नतरोऽभवत् । सो॓ऽब्रवीत् । संधा ँ संद॑धावहै । अथ॒ स्वा वः॑ स्रक्ष्यामि । न मा॒ शुष्के॑ण
तैत्तिरीयब्राह्मणम् (१.७.२) २८७ नाऽऽर्द्रे॑ण हनः (६) न दिवा॒ न नक्त॒मिति॑ । स ए॒तम॒पां फेन॑मसिञ्चत् । न वा ए॒ष शुष्को॒ नाऽऽर्द्रो व्यु॑ष्टासीत् । अनु॑दितः॒ सूर्यः॑ । न वा ए॒तद्दिवा॒ न नक्तम्॑ । तस्यै॒तस्मिँ॑ल्लो॒के । अ॒पां फेने॑न॒ शिर॒ उद॑वर्तयत् । तदेन॒मन्व॑वर्तत । मि॒त्र॒ध्रुगि॑ति । (७) । स ए॒तानपा॒मा- र्गा॑न॑जनयत् । तान॑जुहोत् । तैर्वै स रक्षा ँ॑स्यपा॑हत॒ यद॑पा- मार्गहो॒मो भ॑व॑ति । रक्ष॑सा॒मप॑हत्यै । एको॒ल्मुके॑न॒ यन्ति । तद्धि रक्ष॑सा भा॒गधेय॑म् । इ॒मां दिशं॑ यन्ति । ए॒षा वै रक्ष॑सां दिक् । स्वाया॑मे॒व दिशि॒ रक्षा ँ॑सि हन्ति (८) । स्वकृ॑त॒ इरि॑णे जुहोति प्र॒दरे॒ वा॑ । ए॒तद्वै रक्ष॑सामा॒यत॑नम् । स्व ए॒वाऽऽय॑तने॒ रक्षा ँ॑सि हन्ति । प॒र्णमये॑न स्रु॒वेण॑ जुहोति । ब्रह्म॒ वै प॒र्णः । ब्रह्म॑णैव॒ रक्षा ँ॑सि हन्ति । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह । स॒वि॒तृप्र॑सूत ए॒व रक्षा ँ॑ सि हन्ति । ह॒त ꣳ रक्षोव॑धिष्म॒ रक्ष॒ इत्या॑ह । रक्ष॑सा ꣳ स्तृ॒त्यै॑ । यद्ब॒स्ते तद्दक्षि॑णा॒ निर्व॑स्यै । अप्र॑तीक्ष॒मार्य॑न्ति । रक्ष॑साम॒न्तर्हि॑त्यै (९)। यच्छ॑ति॒ वरु॑णं तृ॒तीयं॒ विर्जि॑त्या॒ असृ॑जत॒ समृ॑द्ध्यै॒ हनो॒ मित्र॑ध्रुगि॒ति हन्ति॒ स्तृत्यै॒ त्रीणि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमाध्याये प्रथमोऽनुवाकः ॥ १ ॥ अथ सप्तमप्रपाठके द्वितीयोऽनुवाकः । धा॒त्रे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑पति । सं॒व॒त्स॒रो वै धा॒ता । सं॒व॒त्स॒रेणै॒वास्मै॑ प्र॒जाः प्र॒जन॑यति । अन्वे॒वास्मा॒ अनु॑मतिर्मन्यते । रा॒ते रा॒का । सि॑नीवा॒ली ज॑नयति । प्र॒जास्वे॒व प्र॒जावा॑सु कु॒ह्वां वाचं॑ दधाति । मि॒थु॒नौ गावो॑ दक्षि॑णा॒ समृ॑द्ध्यै । आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालं
निर्व॑पति । ऐ॒न्द्रा॒वै॒ष्ण॒वमेका॑दशकपालम् (१) । वै॒ष्ण॒वं त्रिक॑पालम् । वी॒र्यं॒ वा अ॒ग्निः । वी॒र्य॑मिन्द्रः॑ । वी॒र्यं॒ विष्णुः॑ । प्र॒जा एव प्र॒जाता वी॒र्यं॒ प्रति॑ष्ठापयति । तस्मा॑त्प्र॒जा वी॒र्य॑वतीः । वा॒मन ऋ॑ष॒भो व॒ही दक्षि॑णा । यद्व॒ही । तेना॑ऽऽग्ने॒यः । यदृ॑ष॒भः (२) । तेनैन्द्रः॑ । यद्वा॑म॒नः । तेन॑ वैष्ण॒वः समृ॑द्ध्यै । अ॒ग्नी॒षो॒मी॒यमेका॑दशकपालं॒ निर्व॑पति । इ॒न्द्रा॒सो॒मी॒यमेका॑दशकपालम् । सौ॒म्यं च॒रुम् । सोमो॒ वै रैतो॒धाः । अ॒ग्निः प्र॒जानां॑ प्रजनयि॒ता । वृ॒द्धाना॒मिन्द्रः॑ प्रदापयि॒ता । सोर्म॑ ए॒वास्मै॒ रेतो॑ दधा॑ति (३) । अ॒ग्निः प्र॒जां प्र॑जनयति । वृ॒द्धामिन्द्रः॒ प्रय॑च्छति । ब॒भ्रुर्दक्षि॑णा समृ॑द्ध्यै । सो॒मा॒पौ॒ष्णं च॒रुं निर्व॑पति । ऐ॒न्द्रा॒पौ॒ष्णं च॒रुम् । सोमो॒ वै रैतो॒धाः । पू॒षा प॑शू॒नां प्रजनयि॒ता । वृ॒द्धाना॒मिन्द्रः॑ प्रदापयि॒ता । सोर्म॑ ए॒वास्मै॒ रेतो॑ दधा॑ति । पू॒षा प॒शून्प्रज॑नयति (४) । वृ॒द्धानिन्द्रः॒ प्रय॑च्छति । पौ॒ष्णश्च॒रुर्भव॑ति । इ॒यं वै पू॒षा । अ॒स्यामे॒व प्रति॑तिष्ठति । श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै । ब॒हु वै पुरु॑षो मे॒ध्यमुप॑गच्छति । वै॒श्वा॒न॒रं द्वाद॑शकपालं॒ निर्व॑पति । सं॒व॒त्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः । सं॒व॒त्स॒रेणै॒वैनं॑ 'स्वदयति । हिर॑ण्यं दक्षि॑णां (४) । प॒वित्रं॒ वै हिर॑ण्यम् । पु॒नात्ये॒वैन॑म् । ब॒हु वै रा॑ज॒न्योऽनृ॑तं करोति । उप॑जा॒म्यै हर॑ते । जि॒नार्ति ब्रा॒ह्म॒णम् । वद॑त्यनृ॒तम् । अनृ॑ते ख॒ वै क्रियमा॑णे वरु॑णो गृह्णाति । वा॒रु॒णं य॑व॒मयं॑ च॒रुं निर्व॑पति । व॒रु॒ण॒पा॒शा दे॒वैनं॑ मुञ्च॑ति । अश्वो॒ दक्षि॑णा । वा॒रु॒णो हि दे॒वतयाऽश्वः॑ समृ॑द्ध्यै (६) ।
तैत्तिरीयब्राह्मणम् (१.७.३) २८९ ऐ॒न्द्रा॒वै॒ष्ण॒वमेका॑दशकपालं॒ यदृ॑ष॒भो दधा॑ति पू॒षा प॒शून्प्रज॑नयति॒ हिर॑ण्यं॒ दक्षि॑णा दक्षि॒णैकं॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमाध्याये द्वितीयोऽनुवाकः ॥ २ ॥ अथ सप्तमप्रपाठके तृतीयोऽनुवाकः । र॒त्निना॑मे॒तानि॑ ह॒वी ॅ र्षि॑ भवन्ति । ए॒ते वै रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ए॒ते पादा॒तारः॑ । य ए॒व रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ये पादा॒तारः॑। त ए॒वास्मै॑ रा॒ष्ट्रं प्रय॑च्छन्ति । रा॒ष्ट्रमे॒व भ॑वति । यत्स॒माहृ॒त्य निव॑पेत् । अर॑त्निनः स्युः । य॒थाय॒थं नि॒र्व॑पति रत्न॒त्वाय॑ (१) । यत्स॒द्यो निव॑पेत् । याव॑तीमे॒केन॑ ह॒विषा॒ऽऽशिष॒मव॑रुन्धे । ताव॑तीमव॑रुन्धीत । अन्व॒हं नि॒र्व॑पति । भूय॑सीमे॒वाऽशिष॒मव॑रुन्धे । भूय॑सो य॒ज्ञक्रतू॒नुपै॑ति । बा॒र्ह॒स्प॒त्यं च॒रुं निव॑पति॒ ब्रह्म॑णो गृ॒हे । मुख॑त ए॒वास्मै॒ ब्रह्म॑ स ॅ श्य॑ति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्रम॒न्वार॑म्भयति । शि॒तिपृ॑ष्ठो दक्षि॑णा॒ समृ॑द्ध्यै (२) । ऐ॒न्द्रमेका॑दशकपाल ॅ रा॑ज॒न्य॑स्य गृ॒हे । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । ऋ॒ष॒भो दक्षि॑णा॒ समृ॑द्ध्यै । आ॒दि॒त्यं च॒रुं म॑हि॒ष्यै गृ॒हे । इ॒यं वा आदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । धे॒नुर्दक्षि॑णा॒ समृ॑द्ध्यै । भगा॑य च॒रुं वा॑वा॒ता॑यै गृ॒हे । भग॑मे॒वा- स्मि॒न्दधा॑ति । बिचि॑त्तगर्भा पष्ठौ॒ही दक्षि॑णा॒ समृ॑द्ध्यै (३) नैर्ऋ॒तं च॒रुं प॑रिवृ॒क्त्यै गृ॒हे कृ॒ष्णानां॑ व्रीही॒णां न॒ख निर्भि॑न्नम् । पा॒प्मान॑मेव॒ निर्ऋ॑तिं॒ निर॑वदयते । कृ॒ष्णाकु॑टा दक्षि॑णा॒ समृ॑द्ध्यै । आ॒ग्ने॒यम॒ष्टाक॑पाल ॅ सेना॒न्यो॑ गृ॒हे । सेना॑ मे॒वास्य॒ स ॅ श्य॑ति। हिर॑ण्यं॒ दक्षि॑णा॒ समृ॑द्ध्यै । वा॒रु॒णं द॑शकपाल ॅ सू॒तस्य॑ गृ॒हे । व॒रु॒णस॒वमे॒वाव॑रुन्धे । म॒हानिर॑ष्टो॒ दक्षि॑णा॒ समृ॑द्ध्यै । मा॒रु॒त ॅ स॒प्तक॑पालं ग्रा॒म॒ण्यो॑
२९० (१.७.३) तैत्तिरीयब्राह्मणम् गृ॒हे (४) । अन्नं॒ वै म॒रुतः॑ । अन्न॑मे॒वाव॑रुन्धे । पृश्नि॑र्दक्षिणा॒ समृ॑द्ध्यै । सा॒वि॒त्रं द्वाद॑शकपालं क्षत्तृगृ॑हे प्रसू॑त्यै । उ॒प॒ध्व॒स्तो दक्षि॑णा॒ समृ॑द्ध्यै । आ॒श्वि॒नं द्वि॑कपा॒लं सं॒ग्र॒ही॒तुर्गृ॒हे। अ॒श्विनौ॒ वै दे॒वानां॑ भि॒षजौ॑ । ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति । सि॒वात्या॑ दक्षि॑णा॒ समृ॑द्ध्यै । पौ॒ष्णं च॒रुं भा॒ग॒दु॒घस्य॑ गृ॒हे (५) अन्नं॒ वै पू॒षा । अन्न॑मे॒वाव॑रुन्धे । श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै । रौ॒द्रं गा॑वीधु॒कं च॒रुम॑क्षावा॒पस्य॑ गृ॒हे । अन्त॑त एव रु॒द्रं नि॒रव॑दयते । श॒ब॒ल उ॒द्धारो॒ दक्षि॑णा॒ समृ॑द्ध्यै । द्वाद॑शै॒तानि॑ ह॒वीꣳषि॑ भवन्ति । द्वाद॑श॒ मासा॑: सं॑वत्स॒रः । सं॑वत्स॒रेणै॒वास्मै॑ रा॒ष्ट्रमव॑रुन्धे । रा॒ष्ट्रमेव भव॑ति (६) यन्न प्रति॒निर्वपे॑त् । रत्निन॑ आ॒शिषो॒ऽवरु॑न्धीरन् । प्रति॒निर्व॑पति । इन्द्रा॑य सु॒त्राम्णे॑ पु॒रोडाश॒मेका॑- दशकपालम् । इन्द्रा॑या ँ हो॒मुचे॑ । आ॒शिष॑ ए॒वाव॑रुन्धे । आयन्तो राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रं व॑ध्यादित्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । मै॒त्रा॒बा॒र्ह॒स्प॒त्यं भ॑वति । श्वे॒तायै॑ श्वे॒तव॑त्सायै दु॒ग्धे (७) । बा॒र्ह॒स्प॒त्ये मै॒त्रमपि॑ दधाति । ब्रह्म॑ चै॒वास्मै॑ क्ष॒त्रं च॑ स॒मीची॑ दधाति । अथो॒ ब्रह्म॑न्नेव क्षा॒त्रं प्रति॑ष्ठापयति । बा॒र्ह॒स्प॒त्येन पू॒र्णेण॒ प्रच॑रति । मु॒खत॑ ए॒वास्मै॒ ब्रह्म॑ सꣳश्य॑ति । अथो॒ ब्रह्म॑नैव क्ष॒त्रम॒न्वार॑म्भयति । स्व॒यं॒कृ॒ता वेदि॑र्भवति । स्व॒यं॒दि॒नं ब॒र्हिः। स्व॒यं कृ॒त इ॒ध्मः। अन॑भिजितस्या॒भिजि॑त्यै । तस्मा॑द्रा॒ज्ञामर॑ण्यम॒भिज॑तम् । सैव श्वे॒ता श्वे॒तव॑त्सा॒ दक्षि॑णा॒ समृ॑द्ध्यै (८) । रत्नित्वाय॒ समृ॑द्ध्यै पष्ठौही दक्षि॑णा॒ समृ॑द्ध्यै ग्राम॒ण्यो॑ गृ॒हे मागदुघस्य॑ गृ॒हेर्भवति दु॒ग्धेऽभिज॑त्यै॒ द्वे च॑ ।
तैत्तिरीयब्राह्मणम् (१.७.४) २९१ इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमाध्याये तृतीयोऽनुवाकः ॥ ३ ॥ अथ सप्तमप्रपाठके चतुर्थोऽनुवाकः । दे॒व॒सुवामे॒तानि॑ ह॒वीꣳषि॑ भवन्ति । ए॒वाव॑न्तो॒ वै दे॒वा नाꣳ॑स॒वाः । त ए॒वास्मै॑ स॒र्वान्प्रय॑च्छन्ति । त एन॑ꣳ सुवन्ते । अ॒ग्निरेवैनं॑ गृह॒पती॑नाꣳसुवते॒ सोमो॒ वन॒स्पती॑नाम् । रु॒द्रः प॒शूनाम्॑ । बृह॒स्पति॑र्वा॒चाम् । इन्द्रो॑ ज्ये॒ष्ठाना॑म् । मि॒त्रः स॒त्याना॑म् । (१) । वरु॑णो॒ धर्म॑पतीनाम् । ए॒तद्दे॒व सर्व॑ भ॑वति । स॒वि॒ता त्वा॑ प्रस॒वाना॑ꣳसुवता॒मिति॒ हस्तं॑ गृह्णाति॒ प्रसू॑त्यै । ये दैवा॑ दे॒वसुवः॑ स्थेत्या॑ह । य॒था य॒जुरे॒वैतत् । म॒हते क्ष॒त्राय॑ म॒हत आधि॑पत्याय म॒हते॑ जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैताशा॑स्ते । ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्मणानाꣳ॑ राजेत्या॑ह । तस्मा॑त्सोम॑राजानो ब्राह्म॒णाः । प्रति॑ त्यन्नाम॑ रा॒ज्यम॑धायी॒त्या॑ह (२) । रा॒ज्यमे॒वास्मिन्प्रति॑दधाति । स्वां त॒नुवं॒ वरु॑णो अशिश्रेदि॒त्या॑ह । व॒रु॒ण॒सव॑मे॒वाव॑रुन्धे । शुचै॑र्मि॒त्रस्य॒ व्रत्या॑ अभूमे॒त्या॑ह । शु॒चिमे॒वैनं॑ व्र॒त्यं करोति । अम॑न्महि मह॒त ऋ॒तस्य॒ नामेत्या॑ह । म॒नुत॑ ए॒वैन॑म् । सर्वे॑ व्राता॒ वरु॑णस्याभूव॒न्नित्या॑ह । सर्व॑व्रातमे॒वैनं॑ करोति । विमि॒त्ररावै॒ररा॑तिम॒तारी॒दित्या॑ह (३) अरा॑तिमे॒वैनं॑ तारयति । असू॑षूदन्त य॒ज्ञिया॑ ऋ॒तेनेत्या॑ह । स्व॒दय॑त्ये॒वैन॑म् । व्यु॑त्रितो जरि॒माणं॒ न आ॒नडित्या॑ह । आयु॑रे॒वास्मि॑न्दधाति । द्वाभ्यां॒ विमृ॑ष्टे । द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै । अ॒ग्नीषोमीय॑स्य॒ चैका॑दशकपालस्य दे॒वसुवां॑ च ह॒विषा॒मग्नये॑ स्वि॒ष्टकृते॑ स॒मव॑द्यति ।
दे॒वता॑भिरे॒वैन॑मुभ॒यतः॒ परि॑गृह्णाति । वि॒ष्णुक्र॒मान्क्र॑मते । वि॒ष्णुरे॒व भू॒त्वेमा ँल्लो॒कान॒भिज॑यति (४) । स॒त्याना॑म॒धायी॒त्याहा॑तारी॒दित्या॑ह क्रम॒त एकं॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ अथ सप्तमप्रपाठके पञ्चमोऽनुवाकः । अर्थेतः स्थेति॑ जुहोति । आहु॑त्यैवैनां निष्क्री॑य गृह्णाति । अथो॑ ह॒विष्कृ॑ता॒नामे॒वाभि॑घृतानां । वह॑न्तीनां गृह्णाति । ए॒ता वा अ॒पा ँ राष्ट्र॑म् । रा॒ष्ट्रमे॒वास्मै॑ गृह्णाति । अथो॒ श्रिय॑मे॒वैन॑म॒भिव॑हन्ति । अ॒पां पति॑रसीत्या॑ह । मि॒थु॒नमे॒- वार्कः॑ । वृषा॑ऽस्यू॒र्मिरित्या॑ह (१) ऊ॒र्मिम॑न्तमे॒वैनं॑ करोति । वृ॒ष॒से॒नौ॑ऽसीत्या॑ह । सेना॑मे॒वास्य॒ स ँश्य॑ति । व्र॒ज॒क्षित॒स्थे- त्या॑ह । ए॒ता वा अ॒पां विशः॑ । विश॑मे॒वास्मै॒ पर्य॑ूहति । म॒रुता॒मोजः॑ स्थेत्या॑ह । अन्नं॒ वै म॒रुतः॑ अन्न॑मे॒वाव॑रुन्धे । सूर्य॑वर्चसः स्थेत्या॑ह (२) । रा॒ष्ट्रमे॒व वर्च॑स्य॒र्कः । सूर्य॑त्वचसः स्थेत्या॑ह । स॒त्यं वा ए॒तत् । यद्वर्ष॑ति । अनृ॑तं यदा॒ तर्प॑ति॒ वर्ष॑ति । स॒त्यानृ॒ते ए॒वाव॑रुन्धे । नैन ँ स॒त्यानृ॒ते उ॑दि॒ते हि ँस्तः॑ । य ए॒वं वेद॑ । मां दा॒स्थेत्या॑ह । रा॒ष्ट्रमे॒व ब्र॑ह्मव॒र्च॒स्य॑र्कः (३) । वा॒शाः स्थेत्या॑ह । रा॒ष्ट्रमे॒व वृश्य॑र्कः । शक्व॑रीः स्थेत्या॑ह । प॒शवो॒ वै शक्व॑रीः । प॒शूने॒वाव॑रुन्धे । वि॒श्वभृ॑त॒स्थेत्या॑ह । रा॒ष्ट्रमे॒व पय॑स्य॒र्कः । ज॒न॒भृतः॑ स्थेत्या॑ह । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑र्कः अ॒ग्नेस्तेज॑स्या॒स्थेत्या॑ह (४) । रा॒ष्ट्रमे॒व तैज॑स्य॒र्कः । अ॒पामोष॑धीना ँ रस॒स्थेत्या॑ह । रा॒ष्ट्रमे॒व मध्व्य॑म॒कः । सा॒र॒स्व॒तं ग्रहं॑ गृह्णाति । ए॒षा वा अ॒पां पृष्ठम् । यत्स॑र॑स्वती । पृष्ठ॑मे॒वैन ँ समा॒नानां॑ करोति ।
ब्राह्मणाच्छँ॑ सिन॑श्च सादयति । आ॒ग्ने॒यो वै होता॑ ।
तैत्तिरीयब्राह्मणम् (१.७.६) २९३ षोड॒शभि॑र्गृह्णाति । षोड॑शकलो॒ वै पुरु॑षः यावा॑ने॒व पुरु॑षः । तस्मि॑न्वी॒र्यं॑ दधाति । षोड॒शभि॑र्जुहोति॒ षोड॒शभि॑र्गृह्णाति । द्वात्रि॑ँश॒त्संप॑द्यन्ते । द्वात्रि॑ँ शदक्षराऽनु॒ष्टुप् । वाग॑नु॒ष्टुप् सर्वा॑णि॒ च्छन्दाँ॑सि । वा॒चैवैनँ॒ सर्वै॑भिश्छन्दो॑भि र॒भिषि॑ञ्चति (५) । ऊर्मिरित्या॑ह सूर्य॑वचसः स्थेत्या॑ह ब्रह्मवर्च॒स्य॑कस्ते॑ज॒स्याः स्थेत्या॑हैव पुरु॑षः षट् च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥ अथ सप्तमप्रपाठके षष्ठोऽनुवाकः । देवी॑राप॒ः सं मधु॑मती॒र्मधु॑मतीभिः सृज्यध्व॒मित्या॑ह । ब्रह्म॑णै॒वैनाः॒ सं सृ॑जति । अना॑धृष्टाः सीद॒तेत्या॑ह । ब्रह्म॑णै॒वैना॑ः सादयति । अ॒न्तरा होतृ॑श्च धिष्ण्यं॑ ब्राह्मणाच्छँ॑ सिन॑श्च सादयति । आ॒ग्ने॒यो वै होता॑ । ऐन्द्रो ब्राह्मणाच्छँ॑ सी तेज॑सा चैवेन्द्रि॒येण॑ चोभयतो॑ रा॒ष्ट्रं परि॑गृह्णाति । हिर॑ण्येन॒ोत्पु॑नाति । आहु॑त्यै॒ हि प॒वित्रा॑भ्यामु॒त्पुन॑न्ति । व्यावृत्यै (१) । श॒तमा॑नं भवति । श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । अनि॑भृष्टमसीत्या॑ह । अनि॑भृष्टँ ह्यैतत्॑ । वा॒चो बन्धु॑रित्या॑ह । वा॒चो ह्यैष बन्धु॑ः । त॒पोजा इत्या॑ह । त॒पोजा ह्यैतत्॑ । सोम॑स्य दा॒त्रमसीत्या॑ह (२) । सोम॑स्य॒ ह्यैतद्दात्रम्॑ । शुक्रा व॑ः शुक्रेणोत्पु॑नामीत्या॑ह । शुक्रा ह्याप॑ः । शुक्रँ॑ हिर॑ण्यम् । चन्द्राश्चन्द्रेणेत्या॑ह । चन्द्रा ह्याप॑ः । चन्द्रँ॑ हिर॑ण्यम् । अमृता॑ अ॒मृते॒नेत्या॑ह । अ॒मृता॒ ह्याप॑ः । अ॒मृतँ॑ हिर॑ण्यम् (३) स्वाहा॑ राजसूया॑येत्या॑ह । रा॒ज॒सूया॑य ह्यैना उत्पु॑नाति॑ । स॒ध्रुमादौ॑ द्यु॒म्नि नीरुज॑ ए॒ता इति॑ वारु॒ण्यर्चा॑
२९४ (१.७.६) तैत्तिरीयब्राह्मणम् गृह्णा॑ति । व॒रु॒ण॒स॒वमे॒वाव॑रुन्धे । एक॑या गृह्णाति । एक॑धैव यज॑माने वी॒र्यं॑ दधाति । क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॑ योनि॑रसीति॑ ता॒र्प्यं चोष्णीषं॑ च॒ प्रय॑च्छति सयोनित्वा॒य॑ । एक॑शतेन दर्भपुञ्जी॒लैः पव॑यति । श॒तायु॒र्वे पुरु॑षः श॒तवी॑र्यः । आ॒त्मैक॑शतः (४) यावा॑ने॒व पुरु॑षः । तस्मि॑न्वी॒र्यं दधाति । दध्या॑शयति । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । उ॒दुम्बर॑माशयति । अन्नाद्य॒स्याव॑रुद्ध्यै । शष्पा॑ण्याशयति । सुरा॑बलिमे॒वैनं॑ करोति । आ॒विदे॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैनं॑ गमयन्ति (५) । अ॒ग्निरे॒वैनं॑ गार्ह॑पत्येनावति । इन्द्र॑ इन्द्रि॒येण॑ । पू॒षा प॒शुभि॑: । मि॒त्रावरु॑णौ प्राणापा॒नाभ्या॑म् । इन्द्रो॑ वृ॒त्राय॑ वज्र॒मुद॑यच्छत् । स दिव॑समलिखत् । सौ॒र्य॒म्णः पन्था॑ अभवत् । स आर्विन्ने॒ द्यावा॑पृथि॒वी धृत॑व्र॒ते इति॑ द्यावा॑पृथि॒वी उपा॑धावत् । स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्राय॒ वज्रं॒ प्राह॑रत् । आर्विन्ने॒ द्यावा॑पृथि॒वी धृत॑व्र॒ते इति॒ यदाह॑ (६) । आ॒भ्यामे॒व प्रसू॑तो यज॑मानो॒ वज्रं॒ भ्रातृ॑व्याय॒ प्रह॑रति । आर्विन्ना दे॒व्यादि॑तिर्वि॒श्वरू॑पीत्याह । इ॒यं वै दैव्यादि॑तिर्वि॒श्वरू॑पी । अ॒स्यामे॒व प्रति॑तिष्ठति । आ॒विन्नो॒ऽयम॒सावा॑मुष्या॒यणो॒ऽस्यां विश्य॑स्मिन्न॒राष्ट्र इत्या॑ह । विशै॒वैनं॑ ꣳ 'रा॒ष्ट्रेण॒ समर्धयति । म॒हते क्ष॒त्राय॑ म॒हते आधि॑पत्याय म॒हते॑ जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा॑स्ते । ए॒ष वो॑ भरतो॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णाना॑ ꣳ राजेत्या॑ह । तस्मा॒त्सोम॑राजानो ब्राह्म॒णाः (७) । इन्द्र॑स्य॒ वज्रो॑ऽसि वार्त्र॒घ्न इति॒ धनुः॒ प्रय॑च्छति॒ विजि॑त्यै । श॒त्रुबाध॑नाः स्थेतीषून्॑ । श॒त्रूने॒वास्य॑ बाधन्ते । वा॒त॒ मा प्रत्य॒ञ्चं पा॑त॒ मा ति॒र्यञ्च॒मन्व॑ञ्चं मा पा॒ते त्या॑ह ।
तैत्तिरीयब्राह्मणम् (१.७.७) २९५ तिस्रो॒ वै श॑र॒व्या॑: । प्र॒तीची॑स्ति॒रश्च्यूनूची॑: । ताभ्य॑ ए॒वैनं॑ पा॒न्ति॒ । दिग्भ्यो॒ मा पा॒तेत्या॑ह । दिग्भ्य॑ ए॒वैनं॑ पा॒न्ति॒ । विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑: पा॒तेत्या॑ह । अप॑रिमितादे॒वैनं॑ पा॒न्ति॒ । हिर॑ण्यवर्णावु॒षसां॑ वि॒रोक॒ इति॑ त्रि॒ष्टुभा॑ बा॒हू उद्गृ॑ह्णाति । इ॒न्द्रियं॒ वै वी॒र्यं॑ त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व वी॒र्य॑मु॒परिष्टा॑दा॒त्मन्ध॑त्ते (८)॥ व्यावृ॑त्यै दात्रमसीत्या॑हा॒मृतं॑ हिर॑ण्यमेकशतो गमयन्त्याह॑ ब्राह्मणा ना॒ष्ट्राभ्य॑: पा॒तेत्या॑ह च॒त्वारि॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ अथ सप्तमप्रपाठके सप्तमोऽनुवाकः । दिशो॒ व्यास्था॑पयति । दि॒शाम॒भिजित्यै॑ । यद॑मु॒प्रका॑मेत् । अ॒भिदि॒शौ ज॑येत् । उत्तु मा॑द्येत् । मन॑सा॒नुप्रक्रा॑मति । अ॒भिदि॒शौ ज॑यति । नोन्मा॑द्यति । स॒मिध॒माति॑ष्ठेत्याह । तेज॑ ए॒वाव॑रुन्धे (१) । उ॒ग्रा मा ति॑ष्ठेत्याह । इ॒न्द्रि॒यमे॒वाव॑रुन्धे । वि॒राज् मा ति॑ष्ठेत्याह । अन्नाद्य॑मे॒वाव॑रुन्धे । उदी॑ची॒ मा ति॑ष्ठेत्याह । प॒शूने॒वाव॑रुन्धे । ऊ॒र्ध्वा मा ति॑ष्ठेत्याह । सु॒वर्ग॑मे॒व लो॒कम॒भिज॑यति । अनू॒र्जिही॑ते सु॒वर्ग॑स्य लो॒कस्य॒ सम॑ष्ट्यै (२) मारु॒त ए॒ष भ॑वति । अन्नं॒ वै म॒रुतः॑ । अन्न॑- मे॒वाव॑रुन्धे । एक॑वि ँशतिकपालो भवति॒ प्रति॑ष्ठित्यै । योऽर॑ण्येऽनुवा॒क्यो॑ ग॒णः । तं म॑ध्य॒त उप॑दधाति । ग्रा॒म्यैरे॒व प॒शुभि॑रार॒ण्यान्प॒शून्परि॑गृह्णाति । तस्मा॑द् ग्रा॒म्यैः॑ प॒शुभि॑रार॒ण्याः प॒शवः॒ परि॑गृहीताः । पृ॒थिवै॒न्यः॑ । अ॒भ्य॑षिच्यत (३) स रा॒ष्ट्रं नाभ॑वत् । स ए॒तानि॑ पा॒र्था॒न्य॑पश्यत् । ता॒न्य॑जुहोत् । तैर्वै स रा॒ष्ट्रम॑भवत् ।
२९६ (१.७.८) तैत्तिरीयब्राह्मणम् यत्पा॒र्थानि॑ जु॒होति॑ । रा॒ष्ट्रमे॑व भव॑ति । बा॒र्हस्प॒त्यं पूर्वे॑- षामुत्त॒मं भव॑ति । ऐ॒न्द्रमुत्त॑रि॒षां प्रथ॒मम् । ब्रह्म॑ चै॒वास्मै॑ क्ष॒त्रं च॑ स॒मीची॑ दधाति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्रं प्रति॑ष्ठापयति (४) । षट् पु॒रस्ता॑दभिषे॒कस्य॑ जु॒होति॑ । षडु॑प॒रिष्टा॑त् । द्वाद॑श संप॑द्यन्ते । द्वाद॑श॒ मासा॑: संवत्स॒रः । संवत्स॒रः खलु॒ वै दे॒वानां॒ पूः । दे॒वाना॑मे॒व पुरं॒ मध्य॑तो॒ व्यर्व॑सर्पति । तस्य॒ न कुत॑श्च॒नोप॑व्याधो भव॑ति । भू॒ताना॑मे॒वैष्टी॑र्जु॒होति॑ । अत्रा॑त्र॒ वै मृ॒त्युर्जाय॑ते । यत्र॑ य॒त्रैव मृ॒त्युर्जाय॑ते । तत॑ ए॒वैन॒मव॑यजते । तस्मा॑द्राजसूये॑नेजा॒नः । सर्व॒मायु॑रेति । सर्वे॒ ह्य॑स्य मृ॒त्यवो॒ऽवैर॑ष्टाः । तस्मा॑द्राजसूये॑नेजा॒नो नाभि॑चरि॒तवै॒ प्रत्य॑गैनमभि॒चार॑: स्तृणुते (५) । रु॒न्धे॒ स॒म॑र्ष्ट्या असिच्यत स्थापयति जायते पञ्च च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमाध्याये सप्तमोऽनुवाकः ॥ ७ ॥ अथ सप्तमप्रपाठकेऽष्टमोऽनुवाकः । सोम॑स्य॒ त्विषि॑रसि॒ तवै॑व मे॒ त्विषि॑र्भूया॒दिति॑ शार्दूलच॒- र्मोप॑स्तृणाति । यैव सोमे॒ त्विषि॑ः । या शार्दूले । तामे॒वा व॑रुन्धे । मृ॒त्योर्वा ए॒ष वर्ण॑: । यच्छार्दू॒लः । अ॒मृतं॒ ँ हिर॑ण्यम् । अ॒मृत॑मसि मृ॒त्योर्मा॑ पा॒हीति॑ हिर॑ण्यमु॒पास्य॑ति । अ॒मृत॑मेव मृ॒त्योरन्त॑र्धत्ते । श॒तमा॑नं भवति । (१) । श॒तायु॑: पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॑ये प्रति॑तिष्ठति । द्वि॒द्योन्मा॑ पा॒हीत्यु॒परि॑ष्टा॒दधि॑निदधाति । उ॒भयत॑ ए॒वास्मै॒ शर्म॑ दधाति । अवै॑ष्टा दंदशूका॒ इति॑ क्लीब ँ सीसेन॑ विध्यति । दंदशूका॑ने॒वाव॑यजते । तस्मा॑त्क्ली॒बं दंद॒शूकाद् ँशूकाः । निर॑स्तं॒ नमु॑चेः॒ शिर॒ इति॑ लोहिताय॒सं निर॑स्यति । पा॒प्मान॑मेव॒ नमु॑चिं॒ निर॑वदयते । प्रा॒णा
तैत्तिरीयब्राह्मणम् (१.७.८) २९७ आ॒त्मनः॑ पूर्वे॑ऽभिषि॒च्या इत्या॑हुः (२) । सोमो॒ राजा॒ वरु॑णः । दे॒वा धर्म॑सु॒व॑श्च॒ ये । ते ते॒ वाचँ॑ सुवन्तां॒ ते त॑ प्रा॒णँ॑ सु॑वन्ता॒मित्या॑ह । प्रा॒णाने॒वाऽऽत्मनः॑ पूर्वा॑न॒भिषि॑ञ्चति । यद्ब्रू॒यात् । अ॒ग्नेस्त्वा॒ तेज॑सा॒ऽभिषि॑ञ्चामीति॑ । तेज॒स्ये॑व स्या॑त् । दुश्चर्मा॑ तु भ॑वेत् । सोम॑स्य त्वा द्यु॒म्नेना॒ऽभिषि॑ञ्चामीत्या॑ह । सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः (३) । स्वयै॒वैनं॑ दे॒वत॑या॒ऽभिषि॑ञ्चति । अ॒ग्नेस्तेज॑सेत्या॑ह । तेज॑ ए॒वास्मि॑न्दधाति । सूर्य॑स्य॒ वर्च॑सेत्या॑ह । वर्च॑ ए॒वास्मि॑न्दधाति । इन्द्र॑स्येन्द्रि॒येणेत्या॑ह । इ॒न्द्रि॒यमे॒वास्मि॑न्दधाति । मि॒त्रावरु॑णयोर्वी॒र्ये॑णेत्या॑ह । वी॒र्य॑मे॒वास्मि॑न्दधाति । म॒रुता॒मोज॑सेत्या॑ह (४) । ओज॑ ए॒वास्मि॑न्दधाति । क्ष॒त्राणां॒ क्ष॒त्रप॑तिरसीत्या॑ह । क्ष॒त्राणा॑मे॒वैनं॑ क्ष॒त्रप॑तिं करोति । अति॑दि॒वस्पा॒हीत्या॑ह । अत्य॒न्यान्या॒हीति॒ वावैतदा॑ह । स॒माव॑वृ॒त्रन्नध॑रागुदी॑ची॒रित्या॑ह । रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑कः । उ॒च्छेष॑णेन जुहोति । उ॒च्छेष॑णभागो॒ वै रुद्रः॑ । भा॒ग॒धेये॑नैव रु॒द्रं निर॑वदयते (५) । उद॑ङ्परे॒त्याग्नी॑ध्रे जुहोति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रं निर॑वदयते । रुद्र॒ यत्ते॒ क्रयी॑परं॒ नामेत्या॑ह । यद्वा अ॑स्य॒ क्रयी॑परं॒ नाम॑ । तेन॑ वा ए॒ष हि॑नस्ति॒ यँ॑ हि॑न॒स्ति । तेनै॒वैनँ॑ सह श॑मयति । तस्मै॑ हु॒तम॑सि य॒मेष्ट॑मसीत्या॑ह । य॒मादे॒वास्य॑ मृ॒त्युमप॑जयते (६) । प्रजा॑पते॒ न त्वदे॒तान्य॒न्य इति॒ तस्यै॑ गृ॒हे जु॑हुयात् । यां कामये॑त रा॒ष्ट्रम॑स्यै प्र॒जास्या॒दिति॑ । रा॒ष्ट्रमे॒वास्यै॑ प्र॒जा भ॑वति । पू॒र्णम॑ये॑नाध्व॒र्यु॒रभिषि॑ञ्चति । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॒न्त्वषि॑ दधाति । औदु॑म्बरेण रा॒जन्यः॑ । ऊर्ज॑मे॒वास्मि॑न्न॒न्नाद्यं॑ दधाति । आश्व॒त्थेन॒ वैश्यः॑ ।
२९८ (१.७.९) तैत्तिरीयब्राह्मणम् विश॑मे॒वास्मिन्-पुष्टिं॑ दधाति । नैर्य॑ग्रोधे॒न् जन्य॑: । मि॒त्राण्ये॒वास्मै॑ कल्पयति । अथो॒ प्रति॑ष्ठित्यै । (७) । भ॒व॒त्याहु॑: पुरु॑ष ओज॒सेत्या॑ह॒ निर॑वदयते यज॒ते जन्यो॒ द्वे च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके सप्तमाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥ अथ सप्तमप्रपाठके नवमोऽनुवाकः । इन्द्र॑स्य व॒ज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मुपाव॑हरति॒ विजि॑त्यै । मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्रशिषा॑ युनज्मीत्या॑ह । ब्रह्म॑णै वैनं॑ दे॒वता॑भ्यां युनक्ति । पृ॒ष्टि॒वा॒हिनं॑ युनक्ति । पृ॒ष्टि॒वाही॑ वै दैवो॒ रथ॑: । दैवर॑थमे॒वास्मै॑ युनक्ति । त्रयो॑ऽश्वा॑ भवन्ति । रथ॑श्चतु॒र्थः । द्वौ स॑व्येष्ठसार॒थी । षट्संप॑द्यन्ते (१) षड्वा ऋ॒तव॑: । ऋ॒तुभि॑रे॒वैनं॑ युनक्ति । विष्णुक्॑रमा॒न्क्रम॑ते । विष्णु॑रिव भू॒त्वेमा ँल्लो॒काना॒भिज॑यति । यः क्ष॑त्रि॒यः प्रति॑हितः । सोऽन्वा॑रभते । रा॒ष्ट्रमे॒व भ॑वति । त्रि॒ष्टुभा॒ऽन्वार॑भते । इन्द्रि॒यं वै त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व यज॑माने दधाति (२) । म॒रुतां॒ प्रस॒वेऽजै॑ष॒मित्या॑ह । म॒रुद्भि॑रेव प्रसूत॑ उर्ज॑यति । आप्तं॒ मन॒ इत्या॑ह । यदैव मन॑सैप्सी॒त् । तदा॑पत् । रा॒जन्यं॑ जिनाति । अना॑क्रान्त ए॒वाऽऽक्र॑मते । वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते । यो रा॒जन्यं॑ जि॒नाति॑ । स॒म॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑णेत्या॑ह (३) । इ॒न्द्रि॒यमे॒व वी॒र्य॑मा॒त्मन्ध॑त्ते । प॒शूनां म॒न्युर॑सि॒ तवै॑व मे म॒न्युर्भूया॒दिति॑ वारा॑ही उ॒पानहा॒वुप॑मुञ्चते । प॒शूनां॒ वा ए॒ष म॒न्युः । यद्वरा॑हः । तेनै॒व प॑शूनां म॒न्युमा॒त्मन्ध॑त्ते । अ॒भि वा इ॒यं ँ सु॑षुवा॒णं का॑मयते । तस्यै॒श्वरे॑न्द्रि॒यं वी॒र्य॑मादा॒तोः । वारा॑ही उ॒पानहा॒वुप॑मुञ्चते । अ॒स्या ए॒वान्त॑र्धत्ते । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याना॑त्यै (४) । नमो॑ मा॒त्रे पृ॑थि॒व्या